सामग्री पर जाएँ
सर्वकोश
आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)

Apastamba Dharmasutra with Hindi Commentary

महर्षि आपस्तम्ब / हरदत्त टीका द्वारा

DevanagariSanskritpublished399 पृष्ठ

पृष्ठ 164, कुल 399 में से

संदर्भ में पढ़ें
पृष्ठ 164

अपतनीयप्रायश्चित्तम् ] उज्ज्वलोपेते प्रथमः प्रश्नः । १५३
द्वादशरात्रसाध्यो व्रतविशेषः कृच्छ्रद्वादशरात्रः ॥ ६ ॥
तस्य विधिमाह(१)-
त्र्यहमनक्ताश्यदिवाशी ततस्त्र्यहम्, त्र्यहमयाचितव्रत-
स्त्र्यहं नाश्नाति किञ्चनेति कृच्छ्रद्वादशरात्रस्य विधिः॥७॥
आदितस्त्रिष्वहस्सु नक्तं नाऽश्नीयात् । दिवैव भुञ्जीत । ततस्त्र्यहम-
दिवाशी रात्रावेव भुञ्जीत । न दिवा । ततस्त्र्यहमयाचितमेव भुञ्जीत ।
याच्ञाप्रतिषेधोऽयम् । तेन स्वद्रव्यस्याऽप्रतिषेधः । तथा च गौतमः
(२)'अथाऽपरं त्र्यह न कंचन याचे'दिति । ततस्त्र्यहं नाश्नाति किञ्चन फला-
दिकमपीति । एवं कृच्छ्रद्वादशरात्रस्य विधिः । तत्र स्मृत्यन्तरवशाद्धविष्यमन्न,
ब्रह्मचर्यं, स्त्रीशूद्रादिभिरसम्भाषणं च द्रष्टव्यम् ॥ ७ ॥
एतमेवाऽभ्यस्येत्संवत्सरं स कृच्छ्रसंवत्सरः ॥ ८ ॥
एतमेव विधिं संवत्सरं निरन्तरमभ्यस्येत् । स एष कृच्छ्रसंवत्सरो वेदि-
तव्यः । यः पूर्वोक्तः ‘कृच्छ्रसंवत्सरं वा चरे’ ( २५. ९ ) दिति ॥ ८ ॥
अथाऽपरं बहून्यप्यपतनीयानि कृत्वा त्रिभिरनश्नन् पा-
रायणैः कृतप्रायश्चित्तो भवति ॥ ९ ॥
अथाऽपरं प्रायश्चित्तमुच्यते । अनश्नतैव निरन्तर त्रीणि पारायणानि कर्त-
व्यानि । आदित आरभ्याऽऽसमाप्तेर्वेदस्याऽध्ययनं पारायणम् । बहून्यपि ।
अपिशब्दात्किं पुनरेकं द्वे वा ॥ ९ ॥
अनार्या शयने बिभ्रद्दद्वृद्धिं कषायपः ।
अब्राह्मण इव वन्दित्वा तृणेष्वाfeaturesसीत पृष्ठतप् ॥१०॥
अनार्या शूद्रा तां शयने बिभ्रत् उपगच्छन् । ददद्वृद्धिं वृद्ध्यर्थं द्रव्यं ददत् ।
वृद्ध्याजीव इत्यर्थः । सुराव्यतिरिक्तं मद्यं कषायः । (३) तस्य पाता कषा-
यपः । यश्चाऽब्राह्मण इव सर्वान् वन्दी भूत्वा स्तौति स सर्वोऽपि तृणेषूदया-
दारभ्याऽऽसीत । यावदस्याऽऽदित्यः पृष्ठं पश्चाद्भागं तपति । आदित्ये
तपति तदानुगुण्याचरणान् स्वयमेव पृष्ठतबित्युच्यते । अभ्यासे
अभ्यासो यावता शुद्धिं मन्यते ॥ १० ॥
१. मनौ. ११. २११ श्लोको द्रष्टव्यः । २. गौ ध. २६. ४.
३. ‘तत पिबतीति कषायपः’ इति ग, पु.
आप० ध० २०