आपस्तम्ब धर्मसूत्र (महर्षि आपस्तम्ब - हरदत्त टीका एवं हिन्दी अनुवाद)
Apastamba Dharmasutra with Hindi Commentary
महर्षि आपस्तम्ब / हरदत्त टीका द्वारा
पृष्ठ 161, कुल 399 में से
संदर्भ में पढ़ें१६० आपस्तम्बधर्मसूत्रे [ (प.९.) क. २६.
वर्णाश्शुचयः पावका' इति चतसृभिरप उपस्पृशेत् । तूष्णीं प्रथमं स्नात्वा
पश्चादेतैर्मन्त्रैर्मार्जनं कुर्यात् । वारुणीभिर्वा (१) 'इमं मे वरुण, 'तत्त्वा यामि;
'त्वन्नो अग्ने' इत्येताभिर्न्यैर्वा पवित्रैः (२) पवमानस्सुवर्जन' इत्येतेना-
नुवाकेन (३) शुद्धवतीभिः (४) तरत्समन्दीयेन च । यथा कर्माभ्यास
कृतः (५) तावत्कृत्वोऽप उपस्पृशेत् । रहस्यप्रायश्चित्तमेतदित्याहुः ॥७॥
गर्दभेनाऽवकीर्णी निर्ऋतिं पाकयज्ञेन यजेत ॥ ८ ॥
यो ब्रह्मचारी स्त्रियमुपेयात् सोऽवकीर्णी गर्दभेन निर्ऋतिं यजेत पाकयज्ञेन
स्थालीपाकविधानेन । अत्र मनुः--
(६) 'अविकीर्णी तु काणेन गर्दभेन चतुष्पथे ।
पाकयज्ञविधानेन, यजेत निर्ऋतिं निशि ॥' इति ।
हारीतस्तु--
"स्त्रीष्ववकीर्णी निर्ऋत्यै चतुष्पथे गर्दभं पशुमालभेत पाकयज्ञधर्मे-
ण । भूमौ पशुपुरोडाशश्रपणमप्स्र्ववदानैः प्रचार्य्याऽऽज्य जुहोति 'कामाव
कीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा । कामाभिद्रुग्धोस्म्यभिद्रु
ग्धोऽस्मि कामकामाय स्वाहा' इति ॥ ८ ॥
तस्य शूद्रः प्राश्नीयात् ॥ ९ ॥
तस्य गर्दभस्य सर्पिष्मद्बहिराविच्छिष्टं शूद्रः प्राश्नीयात् (७)'तेन स
र्पिष्मता ब्राह्मण' मित्यस्याऽपवादः ॥ ९ ॥
मिथ्याधीतप्रायश्चित्तम् ॥ १० ॥
नियमातिक्रमेणाऽधीतं मिथ्याधीतम् । तद्दोषनिर्हरणाय प्रायश्चित्तं
वक्ष्यते ॥ १ ॥
सम्वत्सरमाचार्यहिते वर्तमानो वाचं यच्छे-
त्स्वाध्याय एवोत्सृजमानो वाचमाचार्ये
आचार्यदारे वा भिक्षाचर्ये च ॥११॥
आचार्यहिते वर्तमानो वाचंयमः स्यात् । (८)स्वाध्यायादिष्वेषु वाचमुत्सृ-
१ तै सं० ४. २. ११. २. तै. ब्रा. १. ४. ८
३ ऋ. सं. ८. ९५. ६. ४. ऋ सं. ८.९५,७
५. कृत. तथोपस्पृशेत्. इति. क. पु ६. म. स्मृ. ११. ११८.
७ आप. गृ. ७. १५. ८. वागुत्सर्गस्स्वाध्याय एव इति. ख. पु.