सामग्री पर जाएँ
सर्वकोश
अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)

अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित)

Aparokshanubhuti with Dipika & Hindi Commentary

आदि शङ्कराचार्य द्वारा

स्रोत: खेमराज श्रीकृष्णदास / गीताप्रेस · खेमराज श्रीकृष्णदास / गीताप्रेस · 1940 (उद्गम)

DevanagariSanskritpublished109 पृष्ठ

पृष्ठ 10, कुल 109 में से

संदर्भ में पढ़ें
पृष्ठ 10

(४) अपरोक्षानुभूतिः ।
पया. अपरोक्षानुभूतिरक्षाणामिंद्रियाणां परमतीतं न-
भवतीत्यपरोक्षमंद्रियाधिष्ठानतत्प्रकाशत्वाभ्यां नित्य
प्रत्यक्षस्वप्रकाशात्मतत्त्वं तस्यानुभूतिर्वृत्त्यारूढाखंड-
ता यद्वा अपरोक्षाचासावनुभूतिश्चेत्यपरोक्षानुभूति-
र्विद्याऽपरपर्यायोब्रह्मसाक्षात्कारस्तत्साधनग्रंथोप्युपनि-
षच्छब्दवदपरोक्षानुभूतिशब्देनोपचर्यते झटित्यवलो-
कनमात्रेणैवोत्तमधिकारिणां ब्रह्मात्मसाक्षात्कारकारणं
ग्रंथविषइत्यर्थः अनेन नित्यापरोक्षब्रह्मात्मतत्त्वं
विशेष्यो दर्शितः स प्रोच्यते प्रकर्षेण तत्तदाशंकानिरा
करणपूर्वकं सिद्धांत रहस्यप्रदर्शनरूपेणोच्यते कथ्यत
इत्यर्थःअस्माभिःपूर्वाचार्यैरित्यर्थादध्याहारः ननु प्रायः
प्रयोजनमनुद्दिश्य न मंदोपि प्रवर्तत इतिन्यायान्नारंभ-
णीयो ग्रंथ इत्याशंक्य प्रयोजनमाह मोक्षसिद्धयइति
मोक्षोनाम स्वाविद्याकल्पितानात्मदेहाद्यात्मत्वाभिमा-
नरूपबंधनिवृत्तिद्वारा स्वस्वरूपावस्थानं तस्य सिद्धिः
प्राप्तिस्तदर्थं अनेनसर्वानर्थनिवृत्तिद्वारापरमानंदावाप्ति-
रूपं प्रयोजनं दर्शितं किंलक्षणाऽपरोक्षानुभूतिः सद्भिः
साधुभिर्नित्यानित्यवस्तुविवेकादिसाधनचतुष्टयसंपन्नैर्मु-
मुक्षुभिरित्यर्थः एवशब्दान्नान्यैः कर्मोपासनाधिका-
रिभिरितिभावः । मुहुर्मुहुर्नैरंतर्यदीर्घकालाभ्यासप्रयत्नेन
स्नानभिक्षादावप्यनादरं कृत्वेत्यर्थः । वीक्षणीया गुरुमु-
खादवगत्य विचारणीया अनेन मुमुक्षुरधिकारी दर्शितः

अपरोक्षानुभूति (दीपिका व हिन्दी टीका सहित) · पृष्ठ 10, कुल 109 में से · SarvaKosh