सामग्री पर जाएँ
सर्वकोश
अपराजितपृच्छा (भुवनदेवाचार्य - प्राचीन मन्दिर, प्रासाद, कला एवं वास्तु महाग्रन्थ सटीक)

अपराजितपृच्छा (भुवनदेवाचार्य - प्राचीन मन्दिर, प्रासाद, कला एवं वास्तु महाग्रन्थ सटीक)

Aparajitapriccha of Bhuvanadeva with Commentary by Shrikrishna Jugnu

भुवनदेवाचार्य (टीकाकार: डॉ. श्रीकृष्ण 'जुगनू') द्वारा

DevanagariHindipublished535 पृष्ठ

पृष्ठ 25, कुल 535 में से

संदर्भ में पढ़ें
पृष्ठ 25

तुला-वृश्चिक-कन्यासु भास्करो यदि संस्थितः ।
न तदा प्राङ्मुखं कुर्यात् गृहं भवति निष्फलम् ॥
धनुर्मकरकुम्भेषु यदि तिष्ठति भास्करः ।
तदा याम्यमुखं वेश्म राजचौराग्निभीतिदम् ॥
मीने मेषे वृषे प्रत्यङ्मुखं स्त्रीकलहावहम् ।
मिथुने कर्कटे सिंहे न कुर्याच्चोत्तराननम् ।
तथा कृतं भवेद्वेश्म दोष-शोक-भयावहम् ॥ (हेमाद्रि : चतुर्वर्गचिन्तामणि,
परिशेषखण्ड कालनिर्णय अध्याय 15, पृष्ठ 819-820)
अपराजितपृच्छा के वर्तमान पाठ में ये श्लोक निम्नांकित क्रम और पाठान्तर के
साथ प्राप्त होते हैं—
रवौ कन्यातुलालौच पूर्वे शिरः समाश्रितः ।
धनोश्च मकरे कुम्भे दक्षिणे तु व्यवस्थितः ॥
मीने मेषे वृषे चैव पश्चिमे तु समाश्रितः ।
मिथुने सिंहकर्कै च ह्युत्तरेण व्यवस्थितः ॥
सर्वकालक्रमोऽयं च राशिमध्ये ह्यतः शृणु ।
देवताश्च क्रमयोगेन स वास्तुः सरते महीम् ॥
यत्र भानुस्तत्र शिरं लक्षितव्यं रविक्रमात् ।
अन्यथा कुरुते दुःखं शिरो वास्तावलङ्कृतम् ॥
देवागारं गृहं यत्र न कुर्याच्छिरः सन्मुखम् ।
मृत्युरोगभया नित्यं शस्तं च कुक्षिसन्मुखम् ॥
कन्यातुलावृश्चिके च भास्करो यदि संस्थितः ।
पूर्वे मुखं न कर्तव्यं गृहं भवति निष्फलम् ॥
मकरे चैव धनुषि कुम्भे वा च दिवाकरे ।
याम्यादिशि मुखं कुर्याद्राजचौराग्निजं भयम् ॥
मीने मेषे वृषे चेव पश्चिमा दिग् च दूषिता ।
स्त्रीणां रोगं महाघोरं भवति ह्यतिदारुणम् ॥
मिथुने सिंहकर्कै च वेश्म नैवोत्तराननम् ।
दोषशोकभयं तत्तु न कुर्याच्च विचक्षणैः ॥ (अपराजित. 62, 3-11)