सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

इस ग्रन्थ के बारे में

अणुभाष्य महाप्रभु वल्लभाचार्य (जन्म १४७९ ई.) का ब्रह्मसूत्र पर लिखा भाष्य है, जो शुद्धाद्वैत वेदान्त और पुष्टिमार्ग का आधार-ग्रन्थ है। वल्लभाचार्य के मत में ब्रह्म माया से सर्वथा अछूता है, जगत् ब्रह्म का वास्तविक कार्य है, और श्रीकृष्ण की अनुग्रह-रूप पुष्टि-भक्ति मोक्ष का श्रेष्ठ मार्ग है। यह भाष्य वल्लभाचार्य पूरा नहीं कर सके थे; इसका शेष अंश उनके पुत्र गोस्वामी विट्ठलनाथ ने पूरा किया।

ब्रह्मसूत्र के चार अध्याय हैं — समन्वय, अविरोध, साधन और फल — और भाष्य इन्हीं के क्रम में चलता है। इस संस्करण में अणुभाष्य के साथ गोस्वामी पुरुषोत्तमजी की प्रसिद्ध टीका 'भाष्यप्रकाश' और उस पर 'रश्मि' नाम की उप-टीका भी दी गई है, जिससे शुद्धाद्वैत की पारम्परिक व्याख्या पूरे विस्तार से सामने आती है।

स्कैन किए गए आरम्भिक पृष्ठों के अनुसार इसका सम्पादन और भूमिका मूलचन्द्र तुलसीदास तेलीवाला की है, और गोस्वामी श्री श्याम मनोहरजी महाराज ने नई भूमिका लिखी है। अंग्रेज़ी भूमिका में वल्लभाचार्य के जीवन, उनकी यात्राओं (विजयनगर, काशी, अडैल) और उनके दर्शन का परिचय है। पूरे ग्रन्थ में लगभग २६०० पृष्ठ हैं।

१४२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ४ सू० १६.
मुक्त्वा भक्तिमार्गीयस्यापि तामाह तत्क्रतुश्चेति । 'सर्वं मद्भक्तियोगेने'ति
वाक्यान्न तस्योपासनापेक्षेति न प्रतीकादिसम्भावना । तत्र 'कथञ्चित् यदि
वाञ्छती'ति वाक्यादिच्छामात्रेण तद्भोगकरणानन्तरं प्राचीनभगवद्भजनलक्षण-
क्रतुश्च नीयत इत्यर्थः । वस्तुतस्तु भक्तस्यान्यमानवपुमपेक्षाभावात् स्वयमेव ब्रह्म-
लोकान् प्राप्नोतीति ज्ञापनाय प्रथमान्त उक्तः । ननु ब्रह्मणोऽधिकं न किञ्चिदस्ति ।
'न तत्समश्चाभ्यधिकश्च दृश्यत' इति श्रुतेः । एवं सति छान्दोग्ये सनत्कुमार-
नारदसंवादे 'स यो नाम ब्रह्मेत्युपास्ते' इत्यादिना नामवाङ्मनःसङ्कल्पचित्तध्यान-
विज्ञानादीनां ब्रह्मत्वेनोपासनमुत्तरोत्तरं पूर्वस्मात् पूर्वस्माद् भूयस्त्वं चोच्यते । अतो
न ब्रह्मत्वं सर्वेषामुपास्यानां वक्तुं शक्यमिति चेत् । मैवम् । विभूतिरूपाणां नियत-
फलदातृत्वाद् येन रूपेणाल्पफलदानम्, तत्राधिकगुणप्राकट्ये प्रयोजनाभावात्
तावन्मात्रगुणप्रकटनम्, येन रूपेण ततोधिकफलदानम्, तत्र ततोधिकगुण-
भाष्यप्रकाशः।
इत्यरुच्या प्रकारान्तरमाहुः वस्तुत इत्यादि । तथा च सूत्रे नयतीति कर्तरि लट्प्रयोगात् तत्क्रतु-
रिति प्रथमान्तप्रयोगाच्चैवं ज्ञायते । यो ब्रह्मत्वेनाङ्गोपासनकर्ता, स तत्क्रतुर्भक्तः सन् स्वयमेव
स्वात्मानं भक्तिबलेन नयतीति न प्रयोगव्यत्ययोपीति । एतेन निबन्धे, 'सूर्यादिरूपधृग्ब्रह्मे'-
त्यस्य प्रकाशे भक्तिद्वारा ज्ञानाङ्गत्वं यदङ्गोपासनस्योक्तम्, तत्समर्थितं ज्ञेयम् । उपास्यरूपाणा-
मसत्त्वेन ज्ञानस्य तेष्वब्रह्मज्ञानस्य च यद्दोषत्वमुक्तम्, तत्र शङ्कते ननु ब्रह्मण इत्यादि ।
अतो न ब्रह्मत्वं सर्वेषामुपास्यानामिति । न्यूनत्वरूपाद् बाधकाद् न ब्रह्मत्वं भूमव्यति-
रिक्तानामुपासनानाम् । तथा च तेषां ब्रह्मत्वस्य बाधितत्वात्तेष्वसत्त्वान्नब्रह्मत्वज्ञानयोर्न दोषत्वमिति
पूर्वोक्तः सूत्रार्थोऽसङ्गत इत्यर्थः । तत्र समादधते मै

प्रकटनमिति पूर्वभावाधिक्यमुच्यते । एवमेव सर्वत्र । नियतफलदानं तु स्वतन्त्रे-
च्छत्वाल्लीलारूपमिति नानुपपन्नं किञ्चित् । प्रतिमादिष्वावाहनेन सन्निहिते
विभूतिरूपे तद्भावनं पूजामार्गे । भक्तिमार्गे तु भक्त्या तत्र प्रकटे तथा । गुरौ तु,
‘शाब्दे परे च निष्णातं ब्रह्मणी’ति विशेषणवत्त्वेन भगवदावेशात् तत्र तद्भावन-
मिति सर्वमवदातम् । अपि च बादरिजैमिनिमतोक्त्यनन्तरं स्वमतोक्त्या
तत्समानविषयत्वमत्रापीत्यवगम्यते । तत्र च कार्यब्रह्मलोकप्राप्तिपरब्रह्मप्राप्ति-
विषयत्वमुक्तं पूर्वोत्तरपक्षभेदेन । बादरिमिते सविशेषस्यैवोपास्यत्वाद्विशेषाणां
चाविद्यकत्वादुपासनानां सर्वासां प्रतीकत्वमेव सिध्यति । एवं सति ‘अप्रती-
कालम्बनान्नयती’ति वदता व्यासेन बादरिमतानुसारिण उपासकस्य न कस्यापि
ब्रह्मप्राप्तिरिति ज्ञाप्यते । वस्तुतस्तूपासनायामुपास्यस्वरूपज्ञानस्याप्यङ्गत्वात्त-
न्मतीयानामुक्तरीत्या तदभावेन निरङ्गत्वादर्चिरादिप्राप्तिरपि न सम्भवति, किं पुन-
र्ब्रह्मण इति निगूढाशयो व्यासस्य । एवं सति परप्राप्तावेवोपोलकमुक्तं भवतीति
सैव व्यासाभिमतेति सिद्धम् । ये तु प्रतीकेष्वब्रह्मक्रतुत्वं वदन्तः पञ्चाग्निविद्या-
यास्तथात्वेपि वचनबलात्तद्भूतो ब्रह्मप्राप्तिरिति वदन्ति, तन्नेत्युच्यते । वचनं तु
वस्तुसतः पदार्थस्य बोधकम्, न तु कारकम्, अतस्तच्चेद् बोधयति तदा
भाष्यप्रकाशः।
आहुः प्रतिमादिष्वित्यादि । अत्रादिपदेन ‘सूर्योऽग्निर्ब्राह्मणा गाव’ इत्याद्युक्तानां पूजापदानां
सङ्ग्रहः । आवाहनेन सन्निधानं च ‘अप्सुग्नौ हृदये सूर्ये’ इत्याद्युक्तस्य नित्यसन्निधानस्याप्युप-
लक्षणम् । तथा च प्रतिमादिष्वपि शास्त्रप्रामाण्यात् कथञ्चन तत्तद्रूपसन्निधानमेव तत्तत्फल-
दानादिप्रयोजकम्, न तु बुद्धिमात्रम्, अतः शास्त्रादेव तथा आग्रह इत्यर्थः । अत्रर्षिद्वय-
मतोक्त्यनन्तरं स्वमतकथनस्य तात्पर्यं स्फुटीकुर्वन्ति अपि चेत्यादि । प्रतीकतरूपत्वमिति ।
प्रतीकोपासनारूपत्वम् । एवं सतीत्यादि । ब्रह्मणः प्रतीकालम्बनाप्राप्यत्वे अङ्गरूपालम्बनप्राप्यत्वे
च सति । अप्रतीकालम्बननयनकथनं परप्राप्तावेवोपोलकत्वेन सिद्धयतीति सैव तथेत्यर्थः ।
अत्र शाङ्करमतमनुवदन्ति ये त्वित्यादि । तद्भूत इति पञ्चाग्न्युपासकस्य । तद्दूषयन्ति तन्ने-
त्यादि । तस्मिन् मते वक्ष्यमाणं दूषणमुच्यते । विधिभिन्नं वचनं वस्तुसतः पदार्थस्य बोध-
रश्मिः।
लूकू । अयमात्मा । अप्स्वग्नाविति । इदं धर्मशास्त्रग्रन्थे कस्मिंश्चिल्लिखितं द्रष्टव्यम् । तत्तद्रू-
पेत्यादि । भाष्ये । ननु विभूतिरूपत्वेपि नियतफलदाने अनियतफलदानोपरोधजानन्द-
स्वरूपैकरसत्वविरोधस्तु स्यात्, अत आहुः सर्वत्रे । नियतेति । तद्भावनमिति स्नेहभावनम् ।
भक्त्येति । ‘भक्त्याहमेकया ग्राह्य’ इति वाक्याद्गत्या प्रकटे । तरतमभावो भक्तौ द्रष्टव्यः ।
भक्तिमार्गस्य बहुविधत्वेन भावभेदात् । शाब्द इति । शाब्दे परे च ब्रह्मणि निष्णातं गुरुमित्येवं
विशेषणवत्त्वेनेत्यर्थः । तद्भावनं भगवद्भावनम् । ‘तस्मादात्मज्ञं ह्यर्चयेद्भूतिकाम’ इति श्रुतेः ।
बुद्धिमात्रमिति । अब्रह्मरूपप्रतिमादौ तत्तत्फलदानादिप्रयोजकम् । तथाग्रह इति ब्रह्मरूपत्वा-
ग्रहः । ऋषिद्वयेति जैमिनिबादरिरूपर्षिद्वयमित्यर्थः । स्वमतेति बादरायण इति सौत्रपदाद् बादरा-
यणमतकथनस्य । अपि चेत्यादीति । निगूढेति नितरां गूढा वासना । सैवेति परप्राप्तिरेव ।
१. अत्र परिशिष्टे मुद्रितः शोधो द्रष्टव्यः ।

१४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ४ सू० १६.
'अप्रतीकालम्बनान्नयती'ति व्यासोक्त्यविरोधाय तत्राप्यप्रतीकत्वमूरीकार्यम्,
अन्यथा पञ्चाग्निविद्यानिरूपिकां श्रुतिं पश्यन्नेवं स न वदेत् । न चौत्सर्गिकं पक्ष-
माश्रित्य तथोक्तमिति वाच्यम् । तस्य बाधकापनोद्यत्वाद्वचनस्य चोक्तन्याये-
नाबाधकत्वात् । यन्न वचनस्य बाधकत्वमुच्यते, तन्न बाधबोधकत्वमेव, न तु
तथात्वमित्युपेक्षणीयास्ते । ननु मनःप्रभृतीनां शुद्धब्रह्मत्वे मनो ब्रह्मोपास्त इति
भवेत्, न तु प्रकारवाचीतिशब्दशिरस्कं ब्रह्मपदम्, अत उपासनाप्रकाराव-
च्छेदकत्वमेव ब्रह्मपदस्य, न तु स्वरूपनिरूपकत्वमिति चेत्, हन्तेवं शब्दार्थानवगम-
भाष्यप्रकाशः।
क्यम् । यथा 'ब्रह्मविदाप्नोति पर'मित्यादिवाक्यम् । न तु कारकम् । यथा ज्योतिष्टोमादि-
[L

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४५
भाष्यप्रकाशः।
न वदेत् । न च बाधकापनोद्यस्य नियमसोत्सर्गत्त्वेन तत्क्रतुन्याये तं पक्षमाश्रित्य व्यासेना-
प्रतीकालम्बननयनमुक्तमित्यपोध पक्षबोधकत्वाच्च तद्विरोध इति वाच्यम् । औत्सर्गिकपक्षस्य बाध-
कापनोद्यत्वात् । प्रकृते च तत्क्रतुवाक्यस्य सामान्यतः क्रतुप्रकारफलप्रकारतौल्यनियमबोधकतया
पञ्चाग्निवचनस्यापि ब्रह्माङ्गद्वारा ब्रह्मणो ब्रह्मप्राप्तेश्च बोधकत्वाद् विधिभिन्नवचनान्तरन्यायेन
तत्क्रतुविशेषरूपतया ब्राह्मणश्रमणन्यायेनाबाधकत्वात् । न च विधिभिन्नवाक्यस्थले बाध्यबाधक-
भावानादरणे वाक्ययोर्बाध्यबाधकभावप्रसिद्धिविरोधप्रसङ्ग इति शङ्क्यम् । यत्र वचनस्य बाधक-
त्वमुच्यते, तत्र बाधबोधकत्वमेव, न तु बाधकत्वम् । विधिभिन्नवाक्यस्य कारकत्वाभावात् ।
न चानिवृत्त्यप्रसङ्गः । बाधबोधादेव तत्सिद्धेः । तस्मात्तन्मते तत्क्रतुश्रुतिबाधकल्पनम्, तत्क्रतु-
रश्मिः।
विशेषनयनं न वदेत् । न चौत्सर्गिकमिति भाष्यं विवृण्वन्ति स्म न चेत्यादि । श्रुत्योर्विरोधे विकल्प
इति मनूक्तेः । पञ्चाग्निविद्याश्रुतौ साधारणत्वेनैनान् गमयतीति सकलगतिप्रतिपादिकायामुत्सर्गकः ।
सामान्यतो विशेषो बलीयानिति बाधकापनोद्यस्य नियमसोत्सर्गत्वं सामान्यन्यायत्वं तेनेत्यर्थः । तेन
भाष्ये औत्सर्गिकमित्यत्र स्वार्थ औणादिः प्रत्ययः उत्सर्गेण न भिद्यते इत्यौत्सर्गिकं तं पक्षं तत्क्रतुन्याये
आश्रित्य । अप्रतीकालम्बननयनं विशेषबलीयोरूपमुक्तम् । अपोद्येति पञ्चाग्निविद्यास्थगतिवाक्य
अपोद्यस्य उत्सर्गपक्षस्य बोधनात् । न तद्विरोध इति पञ्चाग्निविद्यावाक्यात्सामान्यतः प्रतिपाद-
कान्न विशेषबलीयसो व्यासवाक्यस्याप्रतीकालम्बननयनस्य विरोधः । औत्सर्गिकपक्षस्येत्यादि ।
भाष्यीयस्य तस्येत्यस्यार्थः । बाधको बलीयान्विशेषस्तदपनोद्यत्वात् तदुक्तरीत्या । तत्क्रतुवाक्य-
स्येति । तत्क्रतुः स्वयमेव ब्रह्मलोकान्नयतीति वाक्यस्य । सामान्यत इति विशेषालोचनरहित-
दशायाम् । फलप्रकारः ब्रह्मलोकानित्युक्तः । सूत्रस्य छन्दस्कत्वान्नियमपदम् । वचनस्येति भाष्यं
विवृण्वन्ति स्म पञ्चाग्नीत्यादि । सामान्यतो बलीयो विशेषो निरूप्यते । चकारोऽनुक्तसमुच्चय इत्याशये-
नोक्तसामान्यतो विशेषमाहुः ब्रह्माङ्गेति । ब्रह्मलोकानित्यत्र गोकुलाष्टकोक्तरीत्या ब्रह्मलोकगोकुल-
स्याङ्गस्य द्वारा ब्रह्मण इत्यर्थः । उक्तन्यायेनेति भाष्यविवरणं विधिभिन्नेत्यादि । अयं न्यायोत्रैव
पूर्वमुक्तः प्रकाशे । तत्क्रत्विति 'स एनान्ब्रह्म गमयती'ति ब्रह्मणः अधोक्षजत्वेन ब्रह्माङ्गद्वारा ब्रह्मणः
तथा ब्रह्मप्राप्तेश्च तत्क्रतुविशेषरूपतया ब्राह्मणश्वेच्छ्रभणः श्रमशीलः अनेन न्यायेन तत्क्रतौ सामान्ये
विशेषस्य ब्रह्माङ्गद्वारा ब्रह्मसम्बन्धित्वस्य ब्रह्मप्राप्तिसम्बन्धित्वस्य च बोधनेनाबाधकत्वात् । न हि दध्ना
जुहोतीति यद्यपि गुणं विदधत् यागे यागबाधकं भवति तद्वत् । यत्र वचनस्येति भाष्यं विवरीतुमाहुः
न च विधीति । अर्थवादस्थले 'श्रुत्योर्विरोधे विकल्प' इति मनूक्तेर्विकल्पादरणेन बाध्यबाधक-
भावानादरगे । विवृण्वन्ति स्म यत्र वचनस्येति । मनूक्तेपि यत्र वचनस्य बाधकत्वमुच्यते, वचनं
बाधकमुच्यते । तत्रेति पयोव्रते न घृतयतीत्यत्र बाधकं वचनमुच्यते पूर्वमीमांसायां अजीर्णि सम्भवे
न घृतयेदिति । बाधकत्वमिति तथात्वमित्यस्य भाष्यस्यार्थः । विधिभिन्नस्येति । विधियाक्यस्य
तु कारकत्वम्, विधिप्रयुक्तो अहं करोमीति प्रत्ययात् । न चेत्यादि । कारकत्वाभावेपि
बाधबोधनानन्तरमजीर्णीसम्भवेपि पयोव्रताच्च्युतादनिवृत्तेरप्रसङ्गः । अनिवृत्तिप्रसङ्गस्य प्रतियोगित्वस्य
विवक्षणात्नञ्द्वयम् । तत्सिद्धेरिति पयोव्रतान्निवृत्तिप्रसङ्गसिद्धेः । उपेक्षणीयत्वे हेतून् वदन्तः
सिद्धमाहुः तस्मादिति । बाध्यबाधकभावप्रसिद्धिविरोधप्रसङ्गाभावात् । तत्क्रत्विति । तत्क्रतुश्रुतेः
सुप्रीयतक्रतुश्रवणस्य निरपेक्षस्वरूपसाम्भक्तौ पञ्चाग्निविद्यायां बाधकल्पनम् । तत्क्रत्विति । तत्क्रतु-
१९ प्र० सू० २०
2263

(ण) or षु?
Wait, look at: "सप्तमी शौण्डैरित्यत्र सप्तमीति योगविभागात्समासः । अर्थादुपासनाप्रकारे विषयतयावच्छेदकत्वम् ।"
Ah! "अर्थादुपासनाप्रकारे विषयतयावच्छेदकत्वम् ।"
Before that: "भाष्ये उपासनाप्रकारेति उपासनाप्रकारे..."
Wait, why would it say:
"उपासनाप्रकारे तु अवच्छेदकत्वम्"?
Let's compare the letter with 'तु' in the same line or nearby:
Look at 'तु' in line 27: "अत्र तु नामवाचौ"
The 'तु' has a loop going down-left: 'तु'.
Here, the letter after 'उपासनाप्रकारे' is:
Wait, does it have 'े'? "उपासनाप्रकारे" - the 'े' is on 'र'.
Then the next letter is:
Wait, is it 'तु'? No, it has a vertical stem and a hook: 'ण'?
Wait, could it be "उपासनाप्रकारेऽवच्छेदकत्वम्"?
Look: is that an avagraha 'ऽ'?
No, it's two letters!
Wait! "उपासनाप्रकारे" then:
Could it be: "उपासनाप्रकारेण अवच्छेदकत्वम्"?
Wait, if it is "उपासनाप्रकारेण", then र has no 'े'?
Look at: प, ्रा,

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४७
विजृम्भितमेव, यतो 'मन उपास्वे'त्युक्त्वा तदुपासनाफलं 'यावन्मनोगतं
तत्रास्य कामचारो भवती'ति वदिष्यंस्तदुपासनाया एतत्फलसाधकत्वे प्रयोजक-
रूपाकाङ्क्षायामाह 'मनो ब्रह्मे'ति । इतिशब्दोत्र हेतुत्ववाची । तथा च यतो मनो
ब्रह्म, अतो हेतोस्तदुपासनं तादृक्फलसाधकमित्यर्थः । अत एव, 'मनो हि ब्रह्म
मन उपास्वे'ति पूर्वमुक्तम् । सर्वत्रैवमेव ज्ञेयम् ॥ १६ ॥
॥ इति चतुर्थाध्याये तृतीयपादे चतुर्थमप्रतीकालम्बनाधिकरणम् ॥ ४ ॥
भाष्यप्रकाशः।
पूयीभावशोषणात्मकदोषदर्शनेन ब्रह्मता निराक्रियते, न तु श्रुत्योपासत्वेनोक्तयोः । तयै-
तयोर्दोषयोः क्वाप्यसिद्धत्वात् । प्रत्युत तैत्तिरीयके, 'अद्यतेत्ति च भूतानी'त्यन्नप्रशंसाश्लोके
प्रसिद्धविरुद्धस्यात्तृत्वस्य प्राणश्लोके, 'तस्मात् सर्वायुषमुच्यत' इति सर्वायष्ट्वस्य, मनःश्लोके,
'आनन्दं ब्रह्मणो विद्वा'निति ब्रह्मानन्दरूपत्वस्य च धर्मस्य श्रावणेन, बृहदारण्यकीये, 'तन्न
तथे'ति वाक्ये तद् अन्नप्राणयोर्ब्रह्मत्वं न तथा, न तदुक्तप्रकारेण, किन्तु श्रुत्युक्तप्रकारेणेत्यर्थस्य
लभ्यमानत्वाच्च । एवं पञ्चाग्निविद्यास्थयोषापुरुषयोरपि भगवद्विभूतिरूपयोरेवोपासत्वं ज्ञेयम् ।
'सर्वयोनिषु कौन्तेय मूर्तयः प्रभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिते'ति गीता-
वाक्ये तासां तत्तदनुरूपाणां मूर्तीनां तत्तत्कारणभावापन्नयोः प्रकृतिपुरुषयोर्मातापितृभावेन
कथनात् । देवकृतरेतोब्जोहोमस्य तत्रैव युक्तत्वाच्च । 'तदभिध्यानादेव तु तल्लिङ्गात् स' इति
सूत्रे तथैव सिद्धत्वात् । अन्तर्यामिब्राह्मणे, 'यः सर्वेषु भूतेषु तिष्ठ'न्नित्यादिश्रावणाच्चेति । तस्मा-
द्भासङ्गतिलेश इति दिक् । तेन यत्रोपास्यविशेषणतया ब्रह्मपदमूच्यते, यत्र वा ब्रह्मप्राप्तिरूपं फलम्,
अन्यद्वा ब्रह्मत्वगमकं तात्पर्यलिङ्गं लभ्यते, तत्र तस्या उपासनाया अप्रतीकत्वमिति बोध्यम् ।
एवमत्र चतुर्भिरधिकरणैः सप्रकारा गच्छद्ब्रह्मविद्व्यवस्थोक्ता । अग्रे तु प्रासङ्गिकमुच्यते ।
ज्ञानिभक्तयोर्गमने प्रकारविशेषदर्शनेनाकाङ्क्षाविशेषोदयादिति ॥ १६ ॥
इति चतुर्थमप्रतीकालम्बनाधिकरणम् ॥ ४ ॥
रश्मिः।
श्रुतेः । श्रुत्येति बृहदारण्यकश्श्रुत्या । उक्तयोरिति तैत्तिरीयोक्तयोः । तत्रेति तैत्तिरीये । दोषयोरिति
शोषक्वेदनयोः । प्रशंसेति । 'अन्नाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते अद्यतेत्ति च भूतानि तस्मादन्नं
तदुच्यत' इति श्लोके । असदुत्कर्षाधायकं गुणवर्णनं प्रशंसा । पूर्वार्धे स्फुटा । उत्तरार्धेन्नपदनि-
र्वचनम् । भूतैरद्यते अदन्ति च भूतानीति । यद्वा उत्पत्तिस्थितिसमभिव्याहारादन्नेन भूतानि
अद्यन्ते अन्नं भूतान्यत्तीति लय उक्तः । तस्माज्जगज्जन्मादिकर्तृत्वात् । अत एव आहुः प्रसिद्धेति ।
प्राणश्लोक इति । 'प्राणं देवा अनुप्राणन्ति, मनुष्याः पशवश्च ये, प्राणो हि भूतानामायुः,
तस्मात्सर्वायुषमुच्यते' इति प्रशंसाश्लोके । मनःश्लोके 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह
आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचने'ति प्रशंसाश्लोके । तदुक्तेति मायावाद्युक्तेन प्रकारेण ।
ननु मायावादिश्श्रुतिविचारे केति चेन्न । 'अनागतमतीतं चे'ति वाक्यात् । असङ्गतीति । मन-
आद्युपासनासु ब्रह्मक्रतुत्वासङ्गतिः तस्या लेशः । उपास्यविशेषणेति । ब्रह्माहमस्मीत्यत्र यथा ।
ब्रह्मप्राप्तिरूपमिति । 'ब्रह्मविदाप्नोति पर'मित्यत्र । ब्रह्मत्वगमकमिति । 'सर्वाणि ह वा भूतानि
आकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ती'त्यत्र ब्रह्मत्वगमकं जगज्जन्मादिकर्तृत्वं आकाशपदस्य
ब्रह्मणि तात्पर्यं लिङ्गम् । अप्रतीकत्वमिति । एतेषां शुद्धब्रह्म ज्ञात्वोपासकत्वेन अप्रतीकालम्बन-
त्वात्तेषामुपासनाया अप्रतीकत्वम् ॥ १६ ॥ इति चतुर्थमप्रतीकालम्बनाधिकरणम् ॥ ४ ॥
2265

१४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ५ सू० १७.
विशेषं च दर्शयति ॥ १७ ॥ ( ४-३-५ )
सर्वाण्युपास्यानि रूपाणि ब्रह्मरूपाण्येवेति तदुपासकानां परमाप्तिरेवेति
सिद्धम् । तत्रेदं चिन्त्यते । ज्ञानमार्गीयाणां भक्तिमार्गीयाणां चाविशेषेणैव पर-
प्राप्तिः, उत कश्चिद्विशेषोस्तीति । तत्र उभयोरपि ब्रह्मोपासकत्वेनाविशेषेणैव
फलं भवतीति प्राप्ते, प्रत्याह विशेषं च श्रुतिर्दर्शयति । तैत्तिरीयके पठ्यते ।
'ब्रह्मविदाप्नोति पर'मिति गूढाभिसन्धिना सामान्यत एतावदुक्त्वा, गूढं
तमुद्घाटयन्त्यतिगोप्यत्वमसिद्धैर्वक्तुमशक्यत्वं च ज्ञापयन्त्याह 'तदेषाभ्युक्ता
सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान्
कामान् सह ब्रह्मणा विपश्चिते'ति । तत् पूर्वोक्तं प्रतिपाद्यत्वेनाभिमुखीकृत

इहायमाशयो ज्ञेयः । ‘नायमात्मा प्रवचनेने’ति श्रुत्या भगवद्वरणातिरिक्त-
साधननिरासः क्रियते पुरुषोत्तमप्राप्तौ । एवं सत्यक्षरब्रह्मज्ञानस्य तत्साधनत्वे
उच्यमाने तद्विरोधः स्यात् । तेनैवमेतदर्थो निरूप्यते । ज्ञानमार्गीयाणामक्षरज्ञाने-
नाक्षरप्राप्तिः, तेषां तदेकपर्यवसायित्वात्, भक्तानामेव पुरुषोत्तमपर्यवसायित्वात् ।
तदुक्तं भगवद्गीतासु ‘एवं सततयुक्ता य’ इति प्रश्ने, ‘मय्यावेश्य मनो
ये माम्,’ ‘ये त्वक्षरमनिर्देश्यम्’, श्रीभागवते च ‘भक्त्याहमेकया ग्राह्यः,’
‘तस्मान्मद्भक्तियुक्तस्ये’त्युपक्रम्य, ‘न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे’-
त्यादिना । तथा च ब्रह्मविदं चेद् भगवान् वृणुते, तदा भक्तिरुदेति । तत्प्रचुरभावे
सति स्वयं तद्बुवि प्रकटीभविष्णुः स्वस्थानभूतं व्यापिवैकुण्ठं तद्गुहायां हृदयाकाशे
प्र

१५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ५ सू० १७.
गुहायां परमे व्योम्नि निहितं यो वेद, स 'नास्य प्राणा उत्क्रामन्तीहैव समव-
नीयन्ते ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुत्युक्तरीत्या परमाप्नोतीत्यर्थः सम्पद्यते । अथ
शुद्धपुष्टिमार्गीङ्गीकृतस्य व्यवस्थामाह, 'सोऽश्नुत' इत्यादिना । अत्रायमभि-
सन्धिः । यथा स्वयं प्रकटीभूय लोके लीलां करोति, तथात्यनुग्रहवशात् स्वान्तः-
स्थितमपि भक्तं प्रकटीकृत्य तत्स्नेहातिशयेन तद्वशः सन् स्वलीलारसानुभवं
कारयतीति स भक्तो ब्रह्मणा परब्रह्मणा पुरुषोत्तमेन सह सर्वान् कामानश्नुत
इति । चकारादुक्ता श्रुतिः स्मृतयश्च संगृह्यन्ते । एवं सति ज्ञानमार्गीयाणामक्षर-
प्राप्तिरेव, भक्तानामेव पुरुषोत्तमप्राप्तिरिति सिद्धम् ॥ १७ ॥
इति चतुर्थाध्याये तृतीयपादे पञ्चमं विशेषाधिकरणम् ॥ ५ ॥
इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते श्रीमद्ब्रह्मसूत्राणुभाष्ये
चतुर्थाध्यायस्य तृतीयः पादः समाप्तः ॥ ४ ॥ ३ ॥
भाष्यप्रकाशः।
वाक्यस्य । तथा च यः पूर्वकर्ता उक्तः, तस्यैव वरणेन भक्तिप्राप्तौ भगवद्धामत्वेनाक्षराविर्भावे
पुरुषोत्तमप्राप्तिर्मवतीति तेनैव कर्त्राकाङ्क्षापूर्त्तिरिति न कोपि दोष इत्यर्थः । तथा चैवं विहितं
यो वेद, सोऽश्नुते, अर्थात्तमेवाश्नुते प्राप्नोति । नन्वेतावता व्याख्येयस्य यजुषो विवरणे सिद्धे
'सर्वान् कामा'निति शेषस्य किं प्रयोजनमित्यत आहुः अथेत्यादि । तथा चास्मिन् पक्षे 'सोऽश्नुत'
इति क्रियापदस्य सम्बन्ध इति बोधनार्थमवतारेणे 'सोऽश्नुत' इत्यपि संगृहीतम् । तथा चायं
शेषः पुष्टिमार्गीयफलबोधनार्थः । तथा सत्येवं श्रुतियोजना । अत्राश्नुते इति क्रियापदं संयोग-
पृथक्त्वेन त्रिधा सम्बध्यते । सत्यं ज्ञानमनन्तं ब्रह्म यो वेद, सोऽश्नुते । साभिध्यात्तादृशमक्षरं
ब्रह्मैव प्राप्नोतीत्यर्थः । यः पुनर्वरणसहकृतो गुहायां परमे व्योमन् निहितं परं ब्रह्म पुरुषोत्तमं
वेद, सोऽश्नुते, अर्थात् पुरुषोत्तममेवाश्नुते । 'ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुतिबलात् पुरुषोत्तम-
सायुज्यं प्राप्नोतीत्यर्थः । यः पुनः पूर्वमक्षरब्रह्मवित् ततस्तद्भिहितपुरुषोत्तमवित् पुरुषोत्तमे लीनोऽ-
सम्भावितलीलारसानुभवः स चेदतिकृपया शुद्धपुष्टिमार्गे वृतः सन् विपश्चिता ब्रह्मणा पुरुषोत्तमेन
सह सर्वान् कामानश्नुते । तथा चात्र ब्रह्मविदस्ततो वरणसहकृतस्य ततो भक्तिसहकृतस्य क्रमिकैव
व्यवस्था बोध्यते । सूत्रस्य चकारस्य प्रयोजनमाहुः चकारादित्यादि । अतो ज्ञानभक्तिमार्गीय-
योरुक्तविशेषस्य श्रुत्यैव दर्शनान्नैका व्यवस्था, किन्तूक्तरीतिकविशेषदर्शनाद् विशेषवत्येव सेत्यर्थः
सिद्धः । एतेनाहंग्रहोपासकानां सायुज्यम्, पृथग्ग्रहोपासकानां भक्तानामेव परप्राप्तिस्तत्क्रतु-
न्यायादिति सिद्धं ज्ञेयम् ।
रश्मिः ।
मुक्तिमाहुः नास्य प्राणेति । इहैव पुरः प्रकटे ब्रह्मणि । हृदि प्रकटे ब्रह्मणि सति तत्प्रभावाद् ब्रह्मैव
सन् पुरः प्रकटं ब्रह्माप्येतीति । अश्नुत इति अभातीत्यर्थः । उक्तेति अस्याः पूर्वमुक्ता श्रुतिः ।
निहितं गुहायामित्याद्या श्रुतिः, नायमात्मेति श्रुतिर्वा । स्मृतय इति 'एवं सतत युक्ता' इत्याद्याः,
'वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथे'ति, 'निवेदितात्मा विचिकीर्षितो मे' इति च ।
एवं शेषं स्फुटमित्यर्थः । एतेनेति । ज्ञानिभक्तयोः परप्राप्तौ विशेषविचारेण । ब्रह्माहमस्मीत्यहं-
ग्रहोपासना । ब्रह्मण आत्मत्वेन ग्रहः तेनोपासना तत्कर्तॄणाम्, जीवब्रह्मवादेपि भवति । पृथगिति ।
2268

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५१

भाष्यप्रकाशः।

अन्ये तु अप्रतीकालम्बनसूत्रशेषत्वेनेदं सूत्रमङ्गीकुर्वन्ति । अप्रतीकालम्बनसूत्रस्य चैवमर्थ-
माहुः। तत्र प्रतीकालम्बनान् वर्जयित्वा ब्रह्मक्रतूनब्रह्मक्रतूंश्च सर्वानन्यान् विकारालम्बनान्नयतीति
बादरायण आचार्यो मन्यते । उभयथा अदोषात् । अनियमः सर्वेषामिति तार्तीयीके सूत्रे श्रुति-
स्मृतिभ्यां सर्वेषामेव ब्रह्मलोकगत्युपपादनात् । तत्क्रतुश्च । असोभयथाभावस्य समर्थको हेतुर्द्र-
ष्टव्यः । 'यो हि ब्रह्मक्रतुः स ब्रह्माैश्वर्यमासीदेदितीष्यते तं यथायथोपासते तदेव भवती'ति श्रुतेः ।
पञ्चाग्निविद्यायां ब्रह्मप्राप्तिश्रावणं त्वाहृत्य वादत्वाद् उत्सर्गबाधकम् । अतस्तदभावे औत्सर्गिकेन
तत्क्रतुन्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिर्नेतरेषामिति शाङ्करमतम् । तदसङ्गतमिति प्रागेवोक्तम् ।
भास्कराचार्यास्तु, मनआद्युपासनानां प्रतीकत्वमेवाङ्गीकृत्य तदालम्बनव्यतिरिक्तान्
कार्यब्रह्मणो हिरण्यगर्भस्योपासकान् परब्रह्मोपासकांश्च नयति । तत्र हेतुः । उभयथा दोषात् ।
तत्रापि हेतुः । तत्क्रतुश्चेति । तथाचैकत्वभावनया आत्मक्रतुः परमात्मानं प्रति । द्वैतक्रतुश्च कार्यं
ब्रह्मेति । न च द्वैतोपासकानां कथं कार्यब्रह्मप्राप्तिरिति शङ्क्यम् । पञ्चाग्निविद्यायां 'शुद्धः पूतः
पुण्यलोको भवती'ति श्रुतेः। न च 'परं जैमिनि'रिति सूत्रे परब्रह्मण एव ब्रह्मपदार्थत्वेन निश्चितत्वाद्
द्वैतोपासनायां तदनङ्गीकारे पूर्वापरविरोध इति शङ्क्यम् । क्रममुक्तिसद्योमुक्तिभेदेन मुक्तेर्द्वैविध्याद्
द्वैतोपासकानां हिरण्यगर्भप्राप्त्यनन्तरं बहुकालेनोदये परप्राप्तिः, साक्षाद्ब्रह्मोपासकानां तु शीघ्रं

रश्मिः।

श्रीकृष्णः शरणं ममेति शरणमार्गे ममेति भेदे षष्ठ्याः । एवं भक्तिमार्गेपि दासत्वदासीवद्वा प्रभुनिकटे
स्थितौ सत्यां पृथग्ग्रहोपासना भवति तत्कर्तृणाम् । तत्क्रतुन्यायो विवृतः भक्तज्ञानिसाधारण्येन ।
अप्रतीकेति द्विसूत्रमधिकरणम् । उभयथेति ब्रह्मक्रत्वब्रह्मक्रतुभेदेन नयनाभ्युपगमेऽदोषात् ।
गत्यनुपपत्त्यादिदोषाभावात् । सर्वेषामिति ब्रह्मक्रत्वब्रह्मक्रतूनाम् । उभयथाभावस्येति ।
ब्रह्मक्रत्वब्रह्मक्रतुनयनलक्षणभावस्य । हेतुरिति तत्क्रतुर्ब्रह्मक्रतुरेवेति हेतुगर्भं विशेषणम्, तत्क्रतुन्यायो
हि ब्रह्मक्रतुः स ब्रह्माैश्वर्यमासीदितीष्यत इत्यर्थः । ब्रह्मक्रतोर्नीतस्य प्रापणे शेषमाहुः यो हीति ।
ब्रह्मात्मैश्वर्यं आसीदासादेदिति शेषे इष्टिः । यो हि ब्रह्मक्रतुः स ब्रह्मात्मैश्वर्यमासादेदिति शङ्कराचार्य-
भाष्यात् । ब्रह्मात्मैश्वर्यमित्यत्र श्रुतिविरोधं परिहरन्ति स्म पञ्चाग्नीति । 'स एनान्ब्रह्म गमयतीत्यनया
ब्रह्मप्राप्तिः श्रावणम् । आहृत्येति उक्तवचनबलाद्वादात् । उत्सर्गस्य ब्रह्मात्मैश्वर्यासादनलक्षणस्य
बाधकम् । आहृत्य वादाभाव इति तदभाव इत्यस्यार्थः तत्प्राप्तिरिति । ब्रह्मात्मैश्वर्यप्राप्तिः इतरेषां
अब्रह्मक्रतूनाम् । प्रागेवेति । अत्रैव ये तु प्रतीकेष्वब्रह्मक्रतुत्वमित्यादि भाष्ये तत्प्रकाशे च ।
प्रतीकत्वमेवेति । कार्यत्वेन भेदे प्रतीकत्वमवलम्बनवत्त्वमेव । तदालम्बनेति । प्रती-
कालम्बनेत्यर्थः । उभयथेति । कार्यब्रह्मपरब्रह्मोपासकभेदेनादोषात् । तत्रापीति । दोषाभावेपि
हेतुः । तत्क्रतुरात्मक्रतुः परमात्मानं प्रतिपद्यते । द्वैतोपासकानामिति । द्वैतेनोपासकानाम् ।
कथमिति । भेदेनाभेदेन वेति प्रश्नः । कार्यब्रह्मक्रतुः कार्ये द्वैतैकत्वभावनया हिरण्यगर्भो भवि-
ष्यामीत्येवं प्रवृत्तस्तद्भावमेकत्वे एति द्वैते तत्रास्त्यर्थस्य अर्चिर्मार्गः पठ्यते । तदाहुः पञ्चाग्नीति ।
शुद्धः पूतो व्यापकजीवः कारणात्मना अभेदात् पुण्यलोको हिरण्यगर्भः भवति उत्पद्यते । कार्या-
लम्बनाद्भेदात् । ब्रह्मपदार्थत्वेनेति । कार्यब्रह्मपदार्थत्वेन । तदनङ्गीकार इति । कार्यब्रह्मप्राप्तौ
परब्रह्मप्राप्त्यनङ्गीकारे । पूर्वस्य 'परं जैमिनि'रिति सूत्रभाष्यस्य अपरस्य 'अप्रतीकालम्बन'सूत्रभाष्यस्य
विरोधः । परप्राप्तिरिति । क्रममुक्तिः । साक्षादिति । परब्रह्मोपासकानाम् । शीघ्रमिति । सद्यः

2269

तत्राप्तिरित्याविरोध इत्याहुः । अत्र मनआद्युपासनानां प्रतीकत्वमनुपादेयम् ।
रामानुजाचार्यास्तु, इतः पूर्वसूत्रे 'अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्
प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी'ति श्रुत्या सम्भाव्यब्रह्मलोकस्य अकृ-
तत्वभावणात् सर्वबन्धविनिर्मोक्षस्य च साक्षाच्छ्रवणात् परब्रह्मलोकस्य नित्यत्वमङ्गीकृत्य, अस्मिन्
सूत्रे 'उभयथा चे'ति पाठमङ्गीकृत्य मनआद्युपासनानां पूर्ववदेव प्रतीकत्वं चाङ्गीकृत्य, अप्रती-
कालम्बननयनप्रतिज्ञायां हेतुमुभयथादोषमेवं व्याकुर्वते । कार्यब्रह्मोपासकनयनमात्रनियमे 'अस्मा-
च्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्ये'त्यादिकाः श्रुतयः कुप्येयुः । परब्रह्मोपासकनयनमात्र-
नियमे च पञ्चाग्निविदो नयनश्रुतिः कुप्येत्युभयस्मिन् पक्षे दोषः स्यात्

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५३
भाष्यप्रकाशः।
नारायणपदप्रायपाठसंदृष्टत्वेन, 'परात्परतर' इति मन्त्रस्य च सूक्तारम्भे 'येनेदं भूतं भुवनं भविष्य-
त्परिगृहीतममृते सर्वम्, येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्त्वि'ति मनसस्तथात्वं
प्रक्रम्य पठिततया तन्माहात्म्यबोधकत्वेन मनसश्चानन्दवल्ल्यां ब्रह्मानन्दात्मकत्वेन सिद्धतया
तत्र शिवमाहात्म्यबोधकताया अशक्यवचनत्वेन, 'विश्वाधिक' इति श्वेताश्वतरतृतीयाध्याय मन्त्रस्य
च केवलब्रह्मस्वरूपमुपक्रम्य पठितत्वेन त्रिलोचनादिवैशिष्ट्यस्यानुक्तत्वेन तदभिमत रूपाबोधकत्वेन
तदुक्तानां सर्वेषामेव मन्त्राणां तदुक्तार्थानुपष्टम्भकत्वात् । इदं यथा तथा प्रहस्तेऽस्माभि-
र्निपुणतरमुपपादितमिति नात्र प्रपञ्च्यते ।
माध्वास्तु,
'प्र

१५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० ३ अ० ५ सू० १७.
भाष्यप्रकाशः।
विशेषदर्शनसूत्रे च, 'यावन्नाम्नो गतं तत्रास्य कामचारो भवती'त्यादिश्रुतिर्नामादिप्राण-
पर्यन्तेषु प्रतीकोपासनेषु फलविशेषं च दर्शयतीति प्रतीकालम्बनान् वर्जयित्वा नयतीति सिद्धमिति
शङ्करभास्कररामानुजाचार्या आहुः । तत्तु मनोनामाद्युपासनानां प्रतीकतानिराकरणेन
फलविशेषभवनस्य च भगवदिच्छया भगवद्विभूतित्वात् साधनेनैव निरस्तम् ।
यत्तु शैवो विष्णुलोकापेक्षया शिवलोके विशेषं दर्शयतीत्याह । तदपि प्रहस्ते निपुणतया
दूषितमिति ततोऽवधेयम् ।
माध्वास्तु, 'अन्तःप्रकाशाः बहिःप्रकाशाः सर्वप्रकाशाः देवा वा सर्वप्रकाशा ऋषयोऽन्तः-
प्रकाशा मानुषा एव बहिःप्रकाशा' इति काचिच्चतुर्वेदशिखाश्रुतिर्विशेषं दर्शयतीत्याहुः । तत्रापि
श्रुतेरप्रसिद्धत्वादुदासीना वयम् ॥ १७ ॥ इति पञ्चमं विशेषाधिकरणम् ॥ ५ ॥
इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य श्रीपीताम्ब-
रात्मजस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे चतुर्था-
ध्यायस्य तृतीयः पादः ॥ ४ ॥ ३ ॥
रश्मिः।
अणुभाष्ये पूर्वाधिकरणे भाष्यप्रकाशे चाधिकरणसमाप्तौ । साधनेनेति । अप्रतीकालम्बनसूत्रे
साधनेन । विशेषमिति । अन्तःप्रकाशादिषु देवाद्यधिकारिविशेषम् ॥ १७ ॥ इति पञ्चमं विशेषा-
धिकरणम् ॥ ५ ॥
इति श्रीविठ्ठलेश्वरैश्वर्यनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायजित्पौत्रेण
सम्पूर्णवेद्या विठ्ठलरायजिद्भातृव्यगोकुलोत्सवात्मजगोपेश्वरजिता
कृते भाष्यप्रकाशस्य रश्मौ चतुर्थाध्यायस्य
तृतीयः पादः सम्पूर्णतामगमत् ॥ ३ ॥
2272

ति"?
"न तदश्नोति कश्चन, न तदश्नोति कश्चनेति" - actually that's a quote from Katha/Upanishad or similar: "न तदश्नाति कश्चन"? Here it says "न तदश्नोति कश्चन, न तदश्नोति कश्चने'ति श्रुत्या".

Now let's check L29:
तद्भोगनिषेधात्सुधासंवैवलितत्वेन रूपेण तमनुभवतीत्यर्थः । भेदाभावादिति। फलप्रकरणेऽपि तादात्म्या-
Wait, "सुधासंवैवलितत्वेन"?
Let's zoom in on that word in L29:
त-द्भो-ग-नि-षे-धा-त्सु-धा-सं-
Then what?
व-लि-त-त्वे-न?
Wait! Look at the letters:
सु-धा-सं-व-लि-त-त्वे-न?
Wait, between सं and लितत्वेन:
There is: व (va) or वलि (vali)?
Wait! Is it "सुधासंवलितत्वेन"?
Let's look at the matras:
Is there an ai-matra?
Wait, above 'सं': dot (anusvara).
Next: is that 'व'? It has two slant strokes on top? No, that is the repha

प्रतिवदति । सम्पद्य ब्रह्म सम्पद्यापि स्थितस्य जीवस्य प्रभोरत्यनुग्रहवशात्
स्वरूपात्मकभजनानन्ददित्सायां तत्कृत आविर्भावो भवत्येव। आविर्भावस्य भग-
वदधीनत्वज्ञापनायास्य तत्र कर्तृत्वं नोक्तम्। ननूक्तं 'न स पुनरावर्तत' इत्यादिश्रुति-
विरोधः कर्माभावश्च बाधक इत्यत आह स्वेनेति । स्वशब्दोऽत्र भगवद्वाची । तथा च
भगवत्स्वरूपबलेनैवाविर्भावइत्यर्थः। एवं सत्युक्तश्रुतिर्मर्यादामार्गविषयिणीतिनवि-
रोध इति भावः। तेषामिह प्रपञ्चे न पुनरावृत्तिरस्तीति हि श्रुतिराह। लीलायाः प्रपञ्चा-
दन्तरित्येव युक्तमिति प्राप्ते तथेत्यर्थः । सिद्धान्तं व्याकुर्वन्ति सम्पद्येत्यादि । ब्रह्म सम्पद्येति ।
द्वितीयपादोक्तरीत्या वागादीनां प्राणानां ब्रह्मणि लयोत्तरं, 'ब्रह्मवेद ब्रह्मैव भवति', 'ब्रह्मैव
सन् ब्रह्माप्येती'ति श्रुत्या ब्रह्मणा सहैकीभावं प्राप्य । आवि

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५७
तीतत्वात् तत्राविर्भावस्यनिषेधाविषयत्वादपि न विरोधः।अत्र प्रमाणाकाङ्क्षायामाह
शब्दादिति । 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'ति श्रुतिः
पुरुषोत्तमेन सह सर्वकामभोगं वदति । स च न विग्रहं विना सम्भवतीति
श्रुतिबलादेव तथा मन्तव्यमित्यर्थः ॥ १ ॥
हेत्वन्तरमाह ।
मुक्तः प्रतिज्ञानात् ॥ २ ॥
अत्रोपक्रमे 'ब्रह्मविदाप्नोति पर'मिति वाक्येन परप्राप्तिलक्षणां मुक्तिं
प्रतिज्ञाय हि तद्विवृतिरेव 'सोऽश्नुत' इत्यादिना क्रियते । तेन पुष्टिमार्गीयमुक्ति-
रूपत्वमेव तस्याशनस्य सिध्यति, अतोऽपि हेतोस्तदाविर्भावस्य न लौकिकत्वम्,
न चाक्षुषिसरूपत्वमित्यर्थः ॥ २ ॥
भाष्यप्रकाशः ।
त्याशयेन अवतारयन्ति अत्रेत्यादि । व्याकुर्वन्ति सोऽश्नुत इत्यादि । तथा च पुरुषोत्तमे
अक्षरापेक्षया परत्वस्य मुण्डके श्रावितत्वादक्षरे भगवद्धामत्वस्यापि तत्र श्रावणात् तैत्तिरीये
प्रजारूपत्वस्यापि श्रावणाच्च लीलास्यान्तायामत्रोक्तौ भोगोऽक्षरे सिध्यति । भोगश्च विग्रह-
मन्तरेणानुपपद्यमानो विग्रहमाक्षिपति भोगबोधकवाक्यरूपः शब्द एवात्र तदाविर्भावे
प्रमाणमित्यर्थः ॥ १ ॥
मुक्तः प्रतिज्ञानात् ॥ २ ॥ सूत्रमवतारयन्ति हेत्वन्तरमाहेति । ननु ब्रह्मसम्पत्ति-
रेव मुक्तिरिति सम्पन्नो मुक्तः, आविर्भावस्तु विभागे सति व्युच्चारणाद् भवति । तथा सति
सृष्ट्यादाविव बन्ध एव सम्भावित इति कथमाविर्भावस्य मुक्तिकोटौ प्रवेश इत्याकाङ्क्षायां अत्र
भगवतः सकाशाद्विभज्य यो जीवस्याविर्भावस्तस्यालौकिकत्वेऽनाक्षुषिरूपत्वे चैतत्प्रकरणोक्तं
हेत्वन्तरमाहेत्यर्थः । व्याकुर्वन्ति अत्रेत्यादि । परप्राप्तिलक्षणामिति । ब्रह्मविदः परप्राप्ति-
लक्षणाम् । तथा च प्रतिज्ञानादुक्तवाक्ये मुक्तेः प्रतिज्ञानाद् यस्याविर्भावः प्रतिपिपादयिषितः,
स मुक्त इति सूत्रयोजना । तथा सति तस्याविर्भावस्य न लौकिकत्वम्, न चाक्षुषि-
रूपत्वमित्यर्थः ॥ २ ॥
रश्मिः ।
साधकमर्यादामार्गापेक्षया । अत्रेति । इह लोके एवानावृत्तिसिद्धिरित्यर्थः । मुण्डक इति । 'स वेदै-
तत्परमं ब्रह्म धाम यत्र विश्वं निहितं भाति शुभ्रम् उपासते यत्र पुरुषं ये ह्यकामास्ते शुक्रमतिवर्तन्ति
धीराः॥' इत्यत्र यत्रेत्यस्य परमे ब्रह्मणि धाम्नीत्यर्थात् । 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः
अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः पर' इत्यत्र वा । परपदघटितत्वात् । पूर्वे धामत्वश्रावणे ।
तैत्तिरीय इति । महानारायणोपनिषदि । 'अजायमानो बहुधा विजायते' इति श्रुतेः । पूर्वैकवाक्यतया
प्रजारूपः पुरुषः ॥ १ ॥
मुक्तः प्रतिज्ञानात् ॥ २ ॥ हेत्वन्तरमिति । शब्दाद्धेतोरन्यत् । आप्नोति परमिति
प्रतिज्ञारूपं हेतुम् ॥ २ ॥ 2275

१६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० २ सू० ५.
ब्राह्मेण ब्रह्मसम्बन्धिना ब्रह्मणा भगवतैव स्वभोगानुरूपतया सम्पादितेन
सल्लज्ञानानन्दात्मकेन शरीरेण पूर्वोक्तानश्नुत इति जैमिनिराचार्यो मनुते । तत्र
हेतुः, उपन्यासादिभ्य इति । 'ब्रह्मविदाप्नोति पर'मिति ब्रह्मविदः परप्राप्तिं
प्रतिज्ञाय तदर्थस्यैवोपन्यासोऽग्रिमयर्चा क्रियते, 'सोऽश्नुत' इत्यादिना । तथा च
परप्राप्तेर्मुक्तिरूपत्वात् पुष्टिमार्गीयायास्तस्या एवंरूपत्वादक्षरब्रह्मणः पुरुषोत्तमाय-
तनरूपत्वात्तदात्मकमेव शरीरं तस्य वक्तुमुचितम्, न तु प्राकृतम् । एतद्बोधनायै-
वाग्रेऽन्नमयादीनि विभूतिरूपाण्युक्तानि । भक्तशरीरे प्रतीयमानानामर्थानां
भाष्यप्रकाशः ।
वक्ष्यमाणविचार आरभ्यते इत्यर्थः । पूर्वपक्षार्थः स्फुटः । सिद्धान्तं व्याकुर्वन्ति ब्राह्मेणेत्यादि ।
ब्रह्मसम्बन्धिनैत्यस्य विवरणं ब्रह्मणेत्यादि शरीरेणेत्यन्तम् । उपन्यासादिभ्य इति ।
उप समीपे न्यासः कथनं विवरणमिति यावत् स आदिर्येषाम्, तद्गुणसंविज्ञानः, ते उप-
न्यासादयस्तेभ्यः । तदेतद्विवृण्वन्ति ब्रह्मविदित्यादि । एवंरूपत्वादिति । सर्वकामानश्न-
न्नरूपत्वात् । ननु ब्रह्मभावं विना मुक्त्यभावाज्ज्ञाते च तस्मिन् व्यापकत्वादिवदानन्दाविर्भाववच्च
पूर्वसिद्धाकारस्याप्याविर्भाव उपन्यासश्रुतेरप्युपपत्तौ भोगार्थं ब्राह्मशरीरस्याङ्गीकारो न प्रामाणिक
इत्यत आहुः एतदित्यादि । शरीरस्याक्षरात्मकत्वबोधनायैव श्रुत्युक्तोपन्यासानन्तरमन्नमयादीनि
विभूतिरूपाणि पुरुषविधत्वेन ब्रह्मत्वेनोपास्यत्वेन चोक्तानि । तस्य फलं भक्तशरीरे
प्रतीयमानानामर्थानां पृथिव्यादीनां गन्धादीनां च विभूतिरूपत्वेन ब्रह्मात्मकत्वं तेन कथनेन
रश्मिः ।
सम्पादयतीति ब्राह्मं शरीरम् । अन्येभ्योपीति डः । यावदिति । नितरां क्षेपः विवरणस्यैवेतिभावः ।
तद्गुणेति । उपन्यासादिभ्य आक्षिप्तेन ब्राह्मेण शरीरेण पुरुषोत्तमेनैव सर्वान्कामानश्नुत इति
सूत्रार्थादाक्षेपे विशेष्यान्वयिन्युपन्यासस्याप्यन्वयाद्धेतुत्वेन विशेष्यान्वय्यन्वयित्वरूपतद्गुणसंविज्ञान-
लक्षणादिना तद्गुणसंविज्ञानो बहुव्रीहिः । त इति । विवरणर्चि परप्राप्तिलक्षणार्थस्योपन्यासः ।
आदिपदोक्तं ब्रह्मणो निर्गुणत्वं विवर्यविवरकविभागश्च उपन्यासप्रतिपादक 'मुक्त' इति
सूत्रादग्रिमसूत्रद्वयाच्चोक्तास्ते उपन्यासब्रह्मनिर्गुणत्वविवर्यविवरकविभागा इत्यर्थः । यद्वात्रायमुप-
लक्षितोर्थः ते उपन्यासाऽन्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इत्यर्थः । ब्रह्मविदितीति ।
ब्रह्मविदित्यादीति वक्तव्ये तत्पर्यायोपन्यासोऽयम् । तेन शरीरप्राप्तेरित्यादिभाष्यस्य आक्षेपलभ्यत्वेपि
शरीरप्राप्तेः मुक्तौ रूपं यस्या इत्येवं मुक्तिरूपत्वं तस्मादित्यर्थः । पूर्वसिद्धेति । 'अविप्रणाशः सर्वेषां
कर्मणामिति निश्चयः । कर्मजानि शरीराणि तथैवाकृतयो नृपे'ति वाक्यात् सूक्ष्मस्य । उपन्यासश्रुतेर्ब्रह्म-
विदाप्नोतीति श्रुतेः । ब्राह्मशरीरस्येति । सच्चिदानन्दात्मकस्य । उक्तानीति । ब्रह्मवित्पाठके ।
भक्तशरीरइत्यादिभाष्यं विवृण्वन्ति स्म तस्य फलमिति । ब्रह्मात्मकत्वमिति । जगतो
ब्रह्मात्मकत्वेपि पुनर्ब्रह्मात्मकत्वविधानमलौकिकेपि देहे 'आश्चर्यो वक्ते'ति काठकात्पृथिव्यादीनां
तन्मात्राणां गन्धादीनां कथनम् । आश्चर्य आश्चर्यवान् आश्चर्यशब्दादर्शआद्यच् । 'आश्चर्यवत्पश्यति
2278

" in L28, and L29 starts:
"हितानन्दस्य सच्चित्सामतिरहितानन्दस्य ।"
Wait, could it be "सच्चित्सामग्रितिरोहितानन्दस्य"?
Wait, let's look at the letter: is that 'म'?
Could it be 'भ'? No.
Let's not over-speculate, let's look at each character carefully:
स (sa) च्छि/च्चि (cci) त् (t) सा (sā) म (ma) ति (ti) र (ra) हि (hi) ता (tā) न (na) न्द (nda) स्य (sya)
Wait, look at "तिरोहितानन्दस्य" vs "तिरहितानन्दस्य":
Wait, is there an o-matra? Look above: there is an anusvara or top stroke?
No, above that space is 'भूतानि जायन्त' from line 28.
Wait, let's look at line 29 again:
"हितानन्दस्य सच्चित्सामतिरहितानन्दस्य ।" or "सच्चित्सामतिरोहितानन्दस्य ।"
Let's look at: "सच्चित्सामतिरहितानन्दस्य" vs "सच्चित्सामतिरोहितानन्दस्य".
Actually, look at "सच्चित्सामतिरोहितानन्दस्य": 'रो' has a slant stroke at the top? Yes

१६२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ४ अ० २ सू० ६.
चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥
'स यथा सैन्धवघनोऽनन्तरोऽबाह्यः कृत्स्नो रसघन एवं वा अरे अयमात्मा-
ऽनन्तरोऽबाह्यः कृत्स्नः प्रज्ञानघन' इति श्रुतौ घनपदेन ज्ञानात्मकविग्रहात्मत्वं
ब्रह्मणो बोध्यते, अन्यथा न वदेत्, प्रयोजनाभावात् । तथा च तादृशेन सह
भोगकर्त्रा तादृशेनैव भाव्यमिति, चिति चिद्रूपे ब्रह्मणि, तन्मात्रेण चिन्मात्रेण
रूपेण कामान् भुङ्क्ते, न तु विग्रहेण । श्रुतौ जीवस्य तथात्वस्यानुक्तेः । पूर्णा-
नन्दत्वाद्भगवतस्तत्सम्बन्धेन तदानन्दाननुभवतीत्यर्थः सम्पद्यते । चिदात्मत्वं
जीवस्य यतो नैसर्गिकमित्यौडुलोमिराचार्यों मनुते 'अशरीरं वा वे'तिश्रुतिरेता-
दृशान्यविषयिणीति ज्ञेयम् । मुक्तिदशायां तदनुभवस्य भगवदिच्छाविषयत्वा-
भावान्न तथा । तथा चैतदेतज्जातीयकानन्दानुभवोऽस्य भवत्विति भगवदिच्छैव
श्रुतौ कामशब्देनोच्यते ॥ ६ ॥
भाष्यप्रकाशः ।
चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥ व्याकुर्वन्ति स इत्यादि । न
वदेदिति । घनपदं न वदेत् । तथात्वस्येति । विग्रहवत्त्वस्य ।
अन्ये तु चितितन्मात्रेणेत्येकं पदमङ्गीकुर्वन्तश्चिन्मात्रेणाविर्भवतीत्यर्थमाहुः । तन्मते
इक्प्रत्ययान्तस्य चितिपदस्य धातौ शक्तेस्तदर्थे लाक्षणिकत्वं तत्पदव्यर्थता च ।
भास्कराचार्यास्तु चैतन्यसन्मात्रेणेत्यर्थमाहुः । तन्मते तत्पदवैयर्थ्यं न भवतीति पूर्वा-
पेक्षया तत्सम्यगिति बोध्यम् ।
नन्वशरीरस्य प्रियाप्रियभोगः श्रुत्या निषिध्यते, न तु सशरीरस्य, 'न वै सशरीरस्य सतः
प्रियाप्रिययोरपहतिरस्ती'ति श्रुतेस्तस्य का गतिरित्यत आहुः अशरीरमित्यादि । 'अशरीरं वा व
सन्तं प्रियाप्रिये न स्पृशत' इति श्रुतिस्तु प्रियपदस्याप्रियपदसमभिव्याहा रादेतादृशान्यविष-
यिणी एतादृशभगवदानन्दादन्यो यो दुःखसम्भिन्न आनन्दस्तद्विषयिणीति न तद्विरोध इत्यर्थः ।
तत्र हेतुमाहुः मुक्तीत्यादि । तदनुभवस्येति । दुःखसम्भिन्नसुखानुभवस्य । तर्हि सुखे वैजात्या-
भावात् 'कामानि'ति बहुवचनस्य का गतिरित्यत आहुः तथा चेत्यादि । तथा च तादृगि-
च्छानुरूपे तदिच्छाविषयस्यानन्दस्याप्यनुभवश्चिन्मात्रेणैव रूपेण, न तु तत्र विग्रहस्याप्यपेक्षेति
औडुलोमेर्मतमित्यर्थः । एतेन 'चैत्यस्य तस्वममलं मणिमस्य कण्ठ'इत्यादि स्मारितं ज्ञेयम् ॥६॥
रश्मिः ।
चिति तन्मात्रेण तदात्मकत्वादित्यौडुलोमिः ॥ ६ ॥ इक्प्रत्ययान्तस्येति ।
इक्श्तिपौ धातुनिर्देश इति सूत्रविहितेक्प्रत्ययान्तस्य । तदर्थे इति । धात्वर्थे संज्ञाने । चिती संज्ञाने
संज्ञानं धात्वर्थः । दुःखसम्भिन्नति । दुःखमिश्रः । भाष्ये । तथेति । एतादृशान्यविषयिणी ।
कामानिति । 'सोऽश्नुते सर्वान्कामा'निति श्रुतौ । तादृगिति । कर्मपदवाच्येच्छानुभवे । इच्छावानह-
मित्याकारके । इच्छायाः सविषयत्वनियमादाहुः तदिच्छेति । अनुभव इति आनन्दविषयकेच्छावा-
नहमिति । चिन्मात्रेणेति । एवकारोऽप्यर्थे । अपिगर्हायाम् । सच्चिदानन्दत्वाद्ब्रह्मणः अंशद्वयत्यागाद्
गर्हा । व्यासगृहीतत्वाद्गर्हितस्य प्रयोजनमाहुः एतेन चैत्यस्येति । प्रकृते द्वादशस्कन्धीयम् । तथा च
[

एवंमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥ ७ ॥
परमाचार्यो बादरायणस्तु नैवं मनुते । 'ब्रह्मविदाप्नोति पर'मित्यस्योपन्यास
एवमपि विग्रहवत्त्वेनापि कृतो यतः । तथाहि । 'यो वेद निहितं गुहाया'मित्यत्र
गुहाया उक्तत्वात्तस्या विग्रह एव सम्भवात् । किञ्च । प्रथमान्तोपस्थितत्वेन
'प्राप्नोती'त्युक्त्या च ब्रह्मविदः परप्राप्तौ स्वातन्त्र्यं ज्ञाप्यते । तदेव 'ब्रह्मणा सहे'ति
भाष्यप्रकाशः।
एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥ ७ ॥ सिद्धान्तं व्याकुर्वन्ति
परमेत्यादि । एवमिति । औडुलोम्युक्तरीत्या । उपन्यासादिति हेतुं व्याकुर्वन्ति ब्रह्मेत्यादि ।
तथा च यदि तन्मात्रेणैव भोगः श्रुत्यभिप्रेतः स्यात्, तदा विग्रहवत्त्वेनोपन्यासो न क्रियेत ।
यत एवमतो न चिन्मात्रमतं साधीय इत्यर्थः । नन्वत्र विग्रहाश्रवणात् कथं तथोपन्यासोऽ-
ङ्गीक्रियत इत्यतस्तदुपपादयन्ति तथाहीत्यादि । तस्या इति । गुहायाः । तथा चात्र ब्रह्म-
वित्पदेनापरोक्षब्रह्मज्ञानवानुच्यते, तस्याशरीरत्वे तद्व्याख्यानभूतऋक्पूर्वार्धे गुहापदं न वदेत् ।
न च तत्र साधनदशापन्नस्यैव विग्रह उच्यत इति वाच्यम् । 'यथाक्रतुरस्मिन् लोके पुरुषो भवति
तथेतः प्रेत्येव भवती'तिवदवस्थाभेदगमकपदाद्यभावात् । 'वेदे'ति 'अश्नुत' इति च समान-
कालबोधकपद्विरोधापातात् कामभोगस्य विग्रहवत्त्वात्तदभावे, 'सोऽश्नुत' इत्यादिनाक्तस्य
फलस्य विरोधापत्तेश्च । अतो गुहापदव्याकोपात्तदुक्तो भक्तविग्रहाभावपक्षोऽसङ्गत इत्यर्थः ।
उत्तरार्धमादाय युक्त्यन्तरमाहुः किञ्च प्रथमेत्यादि । तथा चौडुलोमिमते कामपदव्याकोपाऽ-
रश्मिः।
एवमप्युपन्यासात् पूर्वभावादविरोधं बादरायणः ॥ ७ ॥ ब्रह्मेत्यादीति ।
यत इति । यत्तदोर्नित्यसम्बन्धात्तस्मादुपन्यासादित्यर्थः । विग्रहवत्त्वाक्षेपलभ्यस्यास्पष्टत्वात्स्पष्टयन्ति
स्म तथाहीत्यादि । अतो विग्रहवत्त्वमाक्षिप्यत इति भावः । तथा चात्रेति । अत्र श्रुतौ ।
ब्रह्मवित्पद इति सप्तम्यन्तम् । अपरोक्षब्रह्मज्ञानवान्नोच्यत इति नञ्शब्दान्वयः । तस्य शरीरत्व इति ।
तस्य ब्रह्मविदः । 'तस्यैष आत्मा वृणुते तनुं स्वा'मिति पाठे वृणुतेः प्रकाशार्थत्वादात्तस्य वृतभक्तस्य
एष आत्मनोप्यात्मा तं स्वां स्वीयां तनुं तनुत्वेन वृणुते सम्भजते इत्यर्थाच्छरीरत्वे । न वदेदिति ।
शरीरे नित्यलीलायां निहितत्वादधिकरणान्तरं न वदेत् । तस्याशरीरत्व इति पाठे अतो
ब्रह्मवित्पदेऽपरोक्षज्ञानवान्नोच्यत इति भावः । तत्रेति । 'ब्रह्मविदाप्नोति पर' मित्यादिश्रुतौ । एवेति ।
फलदशायोग्यव्यवच्छेदक एवकारः । अवस्थाभेदेति । जीवदवस्थामरणवस्थाभेदगमके भवति
प्रेत्यपदे दृष्टान्ते तद्दार्ष्टान्तिके साधनदशाफलदशाभेदबोधकपदाद्यभावात् । आदिना वाक्यम् ।
समानकालेति । वर्तमानकालत्वेन समानकालस्य बोधकपदयोर्विरोधस्यापातात् । विरोधापातस्तु
साधनदशापन्नस्यैव ब्रह्मविदो ग्रहणे भवति । तदुक्त इति । औडुलोम्युक्तः । उत्तरार्धमिति ।
ऋगुत्तरार्ध सोऽश्नुत इत्यादि । युक्त्यन्तरमिति । युक्तिर्विग्रहवत्त्वे । यदि विग्रहो न स्यात्सहोक्तिर्न
स्यादिति । अन्या युक्तिः । यदि विग्रहो न स्यात्कामा न स्युरिति । इदं युक्त्यन्तरम् । किञ्च ।
प्रथमेत्यादीति । प्रथमान्तं ब्रह्मवित्पदं तेनोपस्थितत्वम् । ब्रह्मविदोर्थस्य तेनेत्यर्थः । स्वातन्त्र्यमिति ।
स्वतन्त्रः कर्तेति सूत्रात् । तदेवेति । स्वातन्त्र्यमेव ब्रह्मणा सह स कर्ता स्वतन्त्रः । पूर्वोक्त इति