सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

इस ग्रन्थ के बारे में

अणुभाष्य महाप्रभु वल्लभाचार्य (जन्म १४७९ ई.) का ब्रह्मसूत्र पर लिखा भाष्य है, जो शुद्धाद्वैत वेदान्त और पुष्टिमार्ग का आधार-ग्रन्थ है। वल्लभाचार्य के मत में ब्रह्म माया से सर्वथा अछूता है, जगत् ब्रह्म का वास्तविक कार्य है, और श्रीकृष्ण की अनुग्रह-रूप पुष्टि-भक्ति मोक्ष का श्रेष्ठ मार्ग है। यह भाष्य वल्लभाचार्य पूरा नहीं कर सके थे; इसका शेष अंश उनके पुत्र गोस्वामी विट्ठलनाथ ने पूरा किया।

ब्रह्मसूत्र के चार अध्याय हैं — समन्वय, अविरोध, साधन और फल — और भाष्य इन्हीं के क्रम में चलता है। इस संस्करण में अणुभाष्य के साथ गोस्वामी पुरुषोत्तमजी की प्रसिद्ध टीका 'भाष्यप्रकाश' और उस पर 'रश्मि' नाम की उप-टीका भी दी गई है, जिससे शुद्धाद्वैत की पारम्परिक व्याख्या पूरे विस्तार से सामने आती है।

स्कैन किए गए आरम्भिक पृष्ठों के अनुसार इसका सम्पादन और भूमिका मूलचन्द्र तुलसीदास तेलीवाला की है, और गोस्वामी श्री श्याम मनोहरजी महाराज ने नई भूमिका लिखी है। अंग्रेज़ी भूमिका में वल्लभाचार्य के जीवन, उनकी यात्राओं (विजयनगर, काशी, अडैल) और उनके दर्शन का परिचय है। पूरे ग्रन्थ में लगभग २६०० पृष्ठ हैं।

१३६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ३ सू० १४.

क्रममुक्तिभेदेन । 'न तस्मात् प्राणा उत्क्रामन्त्यत्रैव समवनीयन्ते ब्रह्मैव सन्
ब्रह्माप्येती'त्यादिश्रुतिस्तु प्रारब्धरहितविषया । निर्गुणब्रह्मविद्यावतोपि प्रारब्ध-
भोगस्तु त्वयापि वाच्यः, अन्यथा प्रवचनासम्भवेन ज्ञानमार्ग एवोच्छिद्येत ।
'ते ब्रह्मलोके तु परान्तकाले' इति श्रुतिरपि परान्तकाल एव येषां प्रारब्धभोग-
समाप्तिस्तद्विषयिणीति मन्तव्यम् । अन्यथा 'वेदान्तविज्ञाने'त्याद्युक्तधर्मविशि-
ष्टानां मुक्तौ विलम्बो नोपपद्येतेति दिक् ॥ १४ ॥

भाष्यप्रकाशः ।
व्याकोपः । येषां परान्तकाल एव प्रारब्धभोगसमाप्तिस्तेषामेव तत्र सर्वपदेन परामर्शात् । तत्र
सगुणविद्यावत्परामर्शाङ्गीकारे तु तेषां वेदान्तार्थानभिज्ञत्वादविद्यावत्त्वेनाशुद्धसत्त्वत्वाच्च न पूर्वा-
र्धोक्तस्य 'वे

यहाँ प्रस्तुत पृष्ठ का देवनागरी में सटीक, पंक्ति-दर-पंक्ति लिप्यन्तरण है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १५ ॥
अपि च । 'ब्रह्मविदाप्नोति पर' मिति सङ्क्षेपेणोक्त्वा, 'तदेषाभ्युक्तेति'
तद्विवरिकां ऋचं प्रस्तुत्य, सोक्ता, 'सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां
भाष्यप्रकाशः ।
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १५ ॥ एवं प्रासङ्गिकमतान्तरपरिहारेण जैमिनि-
मतस्यैव सिद्धान्तत्वमिति दृढीकृत्य प्रकृतं सूत्रं पठित्वा व्याचक्षते अपि चेत्यादि । सोक्तेति ।
श्रुगुक्ता । उपक्रमानुरोधेनेति । 'आप्नोति पर'मित्युपक्रमानुरोधेन । तथा च 'ब्रह्म गमयती'-
त्यत्र परब्रह्म प्रापयतीत्येवार्थः । यतः परब्रह्मप्राप्तिमेव परमफलत्वेन 'ब्रह्मविदाप्नोति पर'मित्यत्र
श्रावयित्वा, 'सत्यं ज्ञान'मिति तद्विवरणर्चि परेण ब्रह्मणा सह सर्वकामभोगलक्षणा प्रतिपत्तिरुच्यते
इति । अतो हेतोः कार्यरूपे वस्तुमात्रे प्रतिपत्तिः । 'पद गतौ', पदनं पत्तिः, संसारगतिप्रतिकूला-
पत्तिः । गतिर्न क्वापि कार्ये श्रुतेरभिप्रेता, 'प्रजापतेः सभां वेश्म प्रपद्य' इत्यत्रापि पूर्वं 'अश्व इवे'ति
मन्त्रे ब्रह्मलोकस्याकृतत्वं श्रावयित्वा, 'आकाशो वै नामे'त्यत्र 'तद् ब्रह्म तदमृतं स आत्मे'ति
नित्यस्यैव ब्रह्मणः श्रावणात् । पूर्वकाण्डेपि, 'यन्न दुःखेन संभिन्न'मित्यत्रात्मसुखस्यैव स्वर्गस्वेन
श्रावणात् । अतोत्रापि ब्रह्मपदेनाक्षरं परब्रह्मैव गन्तव्यत्वेनोच्यत इत्यर्थः । इदमेव च मतं व्यास-
चरणानां सिद्धान्तीत्येनेनाभिप्रेतम् । एतद्व्यवहितमेवाप्रतीकालम्बननयनविचारात् । अन्यथा तु
वैपरीत्येन मतद्वयमुक्त्वा तत्र नयनं विचारयेदिति ।
अन्ये तु । 'प्रजापतेः सभां वेश्म प्रपद्ये, यशोऽहं भवामि ब्राह्मणानां यशो राज्ञा' मिति
छान्दोग्यसमाप्तिकां श्रुतिमुदाहृत्य, नायं कार्यविषयः प्रतिपत्त्यभिसन्धिः सम्प्राप्तिसङ्कल्पः,
'आकाशो ह वै नामरूपयोर्निर्वहिते'ति परब्रह्मण एव प्रकृतत्वात्, 'यशोऽहं भवामी'ति सर्वात्मत्वा-
नुक्रमणात् , 'न तस्य प्रतिमा अस्ति यस्य नाम महद्यश' इति ब्रह्मनामनिर्देशाच्चेति व्याकुर्वन्ति ।
भास्कराचार्यास्तु 'सगुणब्रह्मविद्याविषयैव गतिर्निर्गुणब्रह्मविदो गतिर्नोपपद्यते, परस्य
सर्वगतत्वेन प्राप्तत्वात्; न हि गतविषया गतिरुपपद्यत' इत्येवं शाङ्करं मतमनूद्य, तदेवं दूष-
यन्ति । तथाहि । यदि निर्गुणविद्यासु गतिरनुपपन्ना, तर्हि सगुणास्वप्यनुपपत्तिस्तुल्या । तत्रापि
सर्वगतस्यैव ब्रह्मण उपास्यत्वात् सर्वगतगुणानामाकाशीयपरममहत्परिमाणपृथक्त्वादिवत् सर्व-
गतत्वात् । किञ्च, अपहतपाप्मत्वादयः संसारविनिर्मुक्तिहेतवो यस्य गुणाः, स परमात्मेत्युच्यते,
यस्यैते न सन्ति स संसारीति तद्भिन्नस्य परमात्मनः पराभिमत्वात् । अथ सत्त्वादिगुण-
रश्मिः ।
न च कार्ये प्रतिपत्त्यभिसन्धिः ॥ १५ ॥ प्रतिपत्तिरिति । सर्वकामभोगलक्षणा ।
योगमाहुः पद गताविति धातुपाठे । संसारगतिप्रतिकूलापत्तिर्गतिर्ब्रह्मणा सह सर्वकामभोगलक्षणा ।
अत्रापीति । 'ब्रह्मविदाप्नोति पर'मित्येवात्र 'स एतान्ब्रह्म गमयती'त्यत्रापि । अन्ये त्विति ।
एकदेशविकृतन्यायेनान्यपदेन अन्याचार्योपादानम् । एवमन्यत्रापि । यशोहमिति । अशूङ् व्याप्तौ ।
अश्नुत इति यशः । अशे युङ्क्वेति युट् असुन्प्रत्ययश्च । व्यापकोहं भवामीति सर्वात्मभावः । एवं
राज्ञां च मध्ये यशो भवामीति । ब्रह्मक्षत्रविशां सर्वात्मभावः । सम्प्राप्तिसङ्कल्प इति । सङ्कल्पेन
लेडादिप्रयोगो नियतः, आधुनिकसङ्कल्पे तथा दर्शनादिति । परब्रह्मण इति । आकाशस्तल्लिङ्गादिति
सूत्रे आकाशपदस्य ब्रह्मणि शक्त्युक्तेः । महद्यश इति यशो व्यापकम् । भास्कराचार्यमते अत्रैकदेश-
विकृतत्वाभावात्यष्टृक् तन्मतमनुवदन्ति स्म भास्कराचार्यास्त्विति । भेदाभेदवादिनः । तन्नि-
१८ प्र० सू० २० २२५५

११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ३ सू० १५.
परमे व्योमन् । सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'ति । अत्रो-
पक्रमानुरोधेन परेणैव ब्रह्मणा सह सर्वकामभोगलक्षणा प्रतिपत्तिरुच्यत इति
भाष्यप्रकाशः।
योगादमी गुणा आरोपिताः, न तु स्वाभाविकाः, तदापि तद्गुणस्योपास्यमानं सगुणं ब्रह्म तु नाब्रह्म
भवति । न ह्यारोपितलौहित्यगुणयोगे स्फटिकोऽस्फटिको भवति । न वा स्वाभाविकस्य प्रकाशस्य
प्रत्याख्यानेऽग्निरनग्निर्भवति । न वा द्रव्यप्रत्याख्याने गुणो नास्ति । वस्तुन उभयात्म-
कत्वात् । 'विज्ञानमानन्दं ब्रह्म,' 'आनन्दो ब्रह्मे'ति श्रुतेः । शतगुणितोत्तरक्रमेणानन्दप्रति-
पादनात् । यदि चैतन्यमात्रं ब्रह्म, तदा आनन्दगुणोपदेशोऽनर्थकः स्यात् । न चाकस्मार्दर्थ-
वादत्वकल्पना युक्ता । यथाश्रुतग्रहणेऽनुपपत्त्यभावात् । अस्थूला

कार्यरूपे वस्तुमात्रे प्रतिपत्तिर्न कापि श्रुतेरभिमता, अतोत्रापि परमेव ब्रह्म-
पदेनोच्यते । श्रुत्यर्थस्त्वानन्दमयाधिकरणे प्रपञ्चित इति नात्रोक्तः ॥ १६ ॥
॥ इति चतुर्थाध्याये तृतीयपादे तृतीयं कार्यं बादरिरित्यधिकरणम् ॥ ३ ॥
भाष्यप्रकाशः।
तपसा ब्रह्मचर्येण श्रद्धया विद्ययात्मानमन्विष्यादित्यमभिजयन्ते, एतद्वै प्राणानामा-
यतनमेतदमृतमभयमेतत् परायणमेतस्मान्न पुनरावर्तन्त' इति प्रश्ने, मुण्डके च, 'सूर्यद्वारेण ते
विरजाः प्रयान्ती'ति । कठवल्लीषु च परविद्याप्रकरणे, 'शतं चैका च हृदयस्य नाड्य' इति ।
परविद्यायामेव चैतरेयके श्रूयते 'असाल्लोकादुत्क्रम्यामूष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वा-
ऽमृतः समभव'दिति । एवं तत्र तत्र गीतासु चावृत्त्यनावृत्ती विभागेनोक्ते । 'अमृतत्वं हि भेजिर'
इति पुराणेषु च । ननु गतिश्रुतौ वाजसनेयके 'इहे'ति विशेषणादिह कल्पेनावृत्तिः कल्पा-
न्तरेष्वावृत्तिरिति चेत् । न । 'श्वोभूत' इतिवदनुवादात् । 'यथा राजसूये ब्रह्मणो ग्रहे महिष्या
ग्रह' इत्येवमादिना 'द्वादश हवींषि प्रत्येकं कर्तव्यानीति विधाय श्वोभूते निर्वपे'दित्युक्तम् ।
तत्रैकस्मिन् कृते पुनरपि श्वोभूत इत्युपतिष्ठते तद्वत् । 'इह कल्प इह कल्प' इति सर्वकल्प-
व्याप्तिराकृतिनिर्देशात् । अपि चेह युगेवान्तरे कल्पे अन्यस्मिन् वेत्यनध्यवसानाद् आकृतिवादो
युक्तः । अर्थवादसमाम्नातानां ग्रहैकत्ववद् वाक्यभेदात् पदानावृत्तिर्विधीयते, युगपत् सर्वकल्पा-
नावृत्तिरेवावतिष्ठते । तत्रास्मिन्नेव कल्पे न कल्पान्तर इति अपरसिद्ध्यर्थं विधीयमाने वाक्यभेदो
दुर्निवारः । यथा ग्रहं संमार्ष्टीति संमार्गे विधीयमाने सर्वग्रहेषु प्राप्तिः । तत्रैकस्येति पुनर्वि-
धीयमाने वाक्यभेदः, तद्वदत्रापि अनावृत्तिर्न विधीयते । तदानीमिहेति पदं किंविशेषणं स्यात् ।
तस्मादिहपदमनुवादः । अत एव काण्वानामिहपदं न पठ्यते । तस्मादर्चिरादिना गत्वा परमा-
त्मनि लिङ्गप्रलयो न प्रागिति श्रुतिसामर्थ्यान्निश्चीयते । विद्याकर्माध्यक्षा च गतिः संसारतरणी
युज्यते । सत्यलोकमतिक्रम्य कारणे ब्रह्मणि सूक्ष्मशरीरस्य कारणात्मना विलयः । तथा
रश्मिः।
अर्चिरादिमार्गेणेति वा । अन्विष्येति ल्यबन्तम् । प्रश्न इति । प्रश्नोपनिषदि । विभागेनेति ।
धूममार्गार्चिरादिमार्गविभागेन । अस्येति । जीवस्य । भाष्यत्वाच्छोभूत इतिवत् पदं व्याख्यायते ।
यथा राजेति । ग्रह इति । पात्रविशेषे । तत्रेति । निर्वपेदित्युक्ते । तद्वदिति । कल्पान्तरेऽसा-
नावृतिरित्यनुवादेनोपस्थितिः, न तु कल्पान्तरेऽस्यावृत्तिरित्यननुवादेन । आकृतीति । आकृतौ शक्तेः
इहेत्यस्य श्रौतस्यैकत्र शक्तेरनुवादः, नत्वननूदितस्य कल्पान्तरेऽस्यानावृत्तिरित्यस्य समर्पकत्वम् ।
आकृतिवाद इति । एकत्राकृतौ शक्तिं गृहीत्वाऽन्यत्रानुवाद इति वादः । अर्थवादसमाम्नायेति ।
अर्थवादसम्भवादिति भास्करभाष्ये पाठः । अर्थवादभूतवेदेन ग्रहैकत्वं यथा । पदानावृत्ति-
रिति । कल्पान्तरेऽस्यावृत्तिरित्यत्र । सर्वकल्पेति । सर्वकल्पेष्वनावृत्तिः सर्वकल्पानावृत्तिः । वाक्यभेद
इति । इह कल्पेऽनावृत्तिर्भवति, कल्पान्तरेऽस्यावृत्तिर्भवतीति वाक्ययोर्भेदः 'अर्थैकत्वादेकं वाक्यं
साकाङ्क्षं चेद्विभागे स्या'दिति मीमांसकोक्तवाक्यभेदः । 'एकतिङ्वाक्य'मिति वैयाकरणाः । सम्मार्ग
इति । सम्मार्गे सम्मार्जने परसवर्णः। तत्रेति । सर्वेषु ग्रहेषु । अनुवाद इति अनुवादार्थम् । विधा-
१. विधीयमाने हविरन्तरे । २. अन्यस्मिन्नपि कल्पे विधीयमानावृतौ सोपि कल्पोवतिष्ठत इत्यर्थः । ३. कल्पत्व-
रूपजातिनिर्देशादित्यर्थः । ४. विधेयविशेषणत्वाभावेन तव मतेनूद्य विशेषणं स्यात् । तथा चानूद्य गतसङ्ख्यायाः
प्रतिषिद्धतत्वेन सर्वकल्पा नामेव प्राप्तिरित्यर्थः । 2257

१४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० ३ अ० ४ सू० १६.
अप्रतीकालम्बनान्नयतीति बादरायण उभयथा दोषात्
तत्क्रतुश्च ॥ १५ ॥ ( ४-३-४ )
क्रममुक्त्यधिकारिणः प्रारब्धं भुक्त्वाऽमानवेन पुरुषेण प्रापिताः परमेव
ब्रह्म प्राप्नुवन्तीति सिद्धम् । तत्रेदं सन्दिह्यते अर्चिरादिलोकप्राप्तिर्ह्युपासनाविशेष-
फलम् । एवं सत्यमानवः पुरुषस्तान् सर्वान् ब्रह्म प्रापयति, उत कांश्चिदेवेति ।
किमत्र युक्तम्, सर्वानिवेति । यतोऽर्चिरादिमार्गगतानामन्ते ब्रह्मप्रापणार्थमेव
स नियुक्तः, ततोऽन्यथाकरणे हेत्वभावान्नैव स कर्तेति प्राप्ते, उच्यते । श्रुतौ
ब्रह्मत्वेनैव सर्वोपासनाया उक्तत्वादुपास्येषु भगवद्विभूतिरूपत्वेन शुद्धब्रह्म-
रूपेष्वप्यतथात्वं ज्ञात्वा श्रुतिर्ब्रह्मत्वेनोपासनायाः फलसाधनत्वं वदति, न तूपास्ये
ब्रह्मतामपीति मन्वाना य उपासते, ते प्रतीकालम्बना इत्युच्यन्ते । तथा च
भाष्यप्रकाशः।
प्याह, 'परेऽव्यये सर्व एकीभवन्ती'ति । 'पुरुषायणाः पुरुषं प्राप्यास्तं यन्ती'ति । यदुक्तं ब्रह्मलोके-
ष्विति बहुवचनं नावकल्पत इति । तच्चोद्यं ब्रह्मणि सङ्ख्याभावात् । एकत्वे बहुत्वं च
पाशबहुत्ववदेव द्रष्टव्यम् । 'अदितिः पाशान् प्रमुमोक्ते ता'निति । तत्रैकस्मिन् पाशे बहुवचनं
साधुत्वार्थं प्रयुज्यते । विभक्तेर्हि द्वावर्थौ, सङ्ख्या कर्मादयश्च । तत्राविवक्षितायामपि सङ्ख्यायां
सप्तमी निमित्तमात्रविवक्षयावकल्पते । ब्रह्म सर्वभोगनिमित्तं सर्वप्रपञ्चनिमित्तमिति निमित्तसप्तम्ये-
वेत्यदोष इति ।
एवं भास्कराचार्यमतेऽपि भोगजनकप्रारब्धेनैव गमनम् । ब्रह्मणि भोगस्तु ब्रह्मेच्छयैवेति
फलति । तेन सिद्धान्तवदेवार्थः । गन्तृविचारे तु तन्मते जीवस्य व्यापकत्वादुपाधिगमनादेव
गमनमिति भेदः ॥ १५ ॥ इति तृतीयं कार्यं बादरिरित्यधिकरणम् ॥ ३ ॥
अप्रतीकालम्बनान्नयतीति बादरायण उभयथा दोषात् तत्क्रतुश्च ॥ १५ ॥
पूर्वाधिकरणसिद्धमनुवदन्तः प्रस्तूयमानमवतारयन्ति क्रमेत्यादि । तत्रेति । सिद्धे परप्राप्ति-
रूपेऽर्थे । सर्वानिति । तदुपासनावतः । पूर्वपक्षग्रन्थः स्पष्टः । सिद्धान्तं व्युत्पादयन्तः सूत्रं
व्याकुर्वन्ति उच्यत इत्यादि । अतथात्वं ज्ञात्वेत्यस्यार्थः श्रुतिर्ब्रह्मत्वेनेत्यारभ्य,
मन्वाना इत्यन्तम् । तथा चातस्मिंस्तत्वेनोपासनं प्रतीकमिति पूर्वं 'न प्रतीक' इति सूत्रे उक्तम्,
अतो ये तथोपासते ते तथा, तथा च सत्यपीति, प्रतीकालम्बनत्वे तेषां सत्यपि । तथा च यथा
रश्मिः।
कर्मेति । पूर्वकाण्डेऽपि अन्यकरणात्कर्मेति । आहेति श्रुतिराह । पाशबहुत्ववदिति । अदितिः
पाशानिति वक्ष्यमाणपाशबहुत्वं तद्वत् । विभक्तेरिति । स्वादेः जातिव्यक्ती इति द्वावर्थौ । सङ्ख्येति ।
पञ्चकं प्रातिपदिकार्थः । द्रव्यजातिसङ्ख्यापरिमाणकारकाणि । तत्रेति । ब्रह्मलोकेष्वित्यत्र । अदोष
इति । लोकेष्विति बहुवचनप्रयोगदोषः । ब्रह्मेच्छयैवेति । तन्मते भास्कराचार्यमते । भेद इति
सिद्धान्ताद्भेदः ॥ १५ ॥ इति तृतीयं कार्यं बादरिरित्यधिकरणम् ॥ ३ ॥
अप्रतीकालम्बनान्नयतीति बादरायण उभयथा दोषात् तत्क्रतुश्च ॥ १५ ॥
मन्वाना इत्यन्तमिति । ननु ज्ञात्वेति भावप्रत्ययान्तं मन्वाना इति कर्तृप्रत्ययान्तमिति कथम-
तथात्वं ज्ञात्वेत्यस्यैवार्थ इति चेत्प्रकृत्यर्थपर्यन्तमिति अर्थपदात्पूर्वं पूरणीयम् । मन्वाना इत्यत्र ज्ञाना-
नुकूलव्यापारवन्त इति प्रकृत्यर्थो ज्ञानम् । तथा चेत्यादि । षडङ्गवेदस्य ज्ञेयत्वेन छन्दोवत्सूत्राणि
2258

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २४१
सत्यपि वेदविहितत्वेनोपासनायाः कृतत्वेन सफलत्वात् तत्फलत्वेनोपासकाना-
मर्चिरादिलोकप्राप्तावपि तान् अमानवः पुरुषो ब्रह्म न प्रापयति, किन्तु शुद्धब्रह्मत्वं
ज्ञात्वा य उपासते, तानेव ब्रह्म प्रापयतीति बादरायण आचार्यो मन्यते । तत्र
हेतुमाह उभयथा दोषादिति । वस्तुतो यद् ब्रह्मरूपम्, तत्राब्रह्मत्वनिश्चयः,
उपासनार्थं च ब्रह्मत्वेन भावनम्, एवमुभयथाकरणे दोषः सम्पद्यत इति तस्य
न ब्रह्मप्राप्तावधिकारोस्तीति युक्तं तदनयनमित्यर्थः । तथा च श्रुतिः । 'असन्नेव
स भवति, असद् ब्रह्मेति वेद चे'दिति, 'योऽन्यथा सन्तमात्मानमन्यथा प्रति-
पद्यते, किं तेन न कृतं पापं चोरेणात्मापहारिणे'ति । एवं ज्ञानमार्गीयव्यवस्था-
भाष्यप्रकाशः।
पूर्वकाण्डतात्पर्यं ब्रह्मणीत्यज्ञात्वा कर्मण्येव तात्पर्यमवधार्य तात्पर्यभ्रमेण यजतां स्वर्गाद्यनन्तरं
पुनरावृत्तिः, तथा अत्रापि प्रतीकालम्बनानां तात्पर्यभ्रमेण तथोपासनाच्चतल्लोकभोगोत्तरमावृत्तिः,
अथवा कार्यात्ययावधि तत्र वासः, न तु विद्याबलात् ततः पूर्वं मुक्तिरिति भगवत
आचार्यस्याशय इत्यर्थः । हेतुं व्याकुर्वन्ति वस्तुत इत्यादि । एतयोर्दोषत्वे मानत्वेन यथायथं
श्रुतिद्वयमुदाहरन्ति तथा चेत्यादि । तेनात्रैतावेव दोषावभिप्रेतावित्यर्थः । सूत्रशेषं व्याकर्तुमव-
तारयन्ति एवं ज्ञानेत्यादि । व्याकुर्वन्ति सर्वमित्यादि । अस्मिन् पक्षे लकारार्थव्यत्यय
रश्मिः।
भवन्तीत्यभियुक्तोक्तेः सूत्रेष्वपि षडङ्गैरभिधेयनिर्णयादप्रतिकूलस्मरणालम्बनानित्यर्थो भवति । इण्विका-
वध्युपसर्गं न व्यभिचरत इत्यस्य छन्दसि विकल्पः । पुराणमते तु वक्ष्यमाणगारुडवाक्याद्देवतादीनित्यर्थो
भवति । तथा च श्रौते मते प्रतिकूलत्वं भ्रमविषयत्वमतस्मिंस्तत्त्वेन चोप समीपे स्थित्वा यथायोग्यान्त-
र्गतस्मरणस्य करणमित्यर्थः । एकादशसुबोधिन्यां 'उप समीपे स्थित्वा यथायोग्यकरणमुपासन'मि-
त्युक्तम् । तथेति । अप्रतीकालम्बना इत्युच्यन्त इत्यर्थः । तेषामिति । उपासकानाम् । पूर्वकाण्डे-
त्यादि । ब्रह्मणीति हरौ । अक्षर इति यावत् । 'वेदे रामायणे चैवे'त्युपक्रम्य 'हरिः सर्वत्र गीयत'
इति वाक्यात् । 'अक्षरं ब्रह्म परमं वेदानां स्थानमुत्तम'मिति वाक्याच्च । महानारायणे 'वह्निशिखाया
मध्ये परमात्मा व्यवस्थितः स हरिः सेन्द्रः सोक्षरः परमः स्वरा'डिति श्रुतेः । तथाप्यत्राभिधा-
वृत्तिः, न तात्पर्यमिति ब्रह्मणीत्यस्य स्वःपदास्पदे आत्मसुख इत्यर्थः । स्वर्गपदस्य लोके शक्तिः ।
स्वःपदास्पदे तात्पर्यमिति । तेन हिरण्यगर्भमोक्षरूपे ब्रह्मणीति जैमिनिमते मोक्षः फलं स्मारितम् ।
किं च । भक्तेस्तात्पर्यविषयत्वस्य पुरस्तादुक्तत्वेन तद्विषयस्यापि तात्पर्यविषयत्वम् । 'धर्मो यस्यां
मदात्मक' इत्येकादशस्कन्धात् । अभिधा तु हीदमित्थतया धर्मेषु यागसृष्टादिकर्तृत्वेषु न मदात्मके
धर्मे इति । कर्मण्येवेति 'कर्मैके तत्र दर्शना'दिति जैमिनिसूत्रे एक इति पदात् कर्मण्येव यागादौ
साध्ये तत्प्रतीतीच्छयोच्चरितत्वरूपं तात्पर्यमवधार्येत्यर्थः । कर्मपदं स्वसाध्ये स्वर्गे लाक्षणिकम्,
फलभ्रमेण । स्वर्गादीत्यादिना वृष्टिप्रतिष्ठादि । तथोपासनादिति । प्रतीकत्वेनोपासनात् । तत्रेति ।
ब्रह्मलोके । तत इति । ब्रह्मलोकवासात्पूर्वम् । आचार्यस्येति । व्यासस्य । तेनेति । श्रुतिबलेन
श्रुतिद्वयेन वा । अवतारयन्तीति । न्यूनतारूपनिग्रहस्थानरूपदोषाभावाय तथेत्यर्थः । तेन
तत्क्रतुर्विधा च नयतीति योजना नोक्ता । सर्वमित्यापीति । तस्येति भक्तस्य । एतदिति ।

१४२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ४ सू० १६.
मुक्त्वा भक्तिमार्गीयस्यापि तामाह तत्क्रतुश्चेति । 'सर्वं मद्भक्तियोगेने'ति
वाक्यान्न तस्योपासनापेक्षेति न प्रतीकादिसम्भावना । तत्र 'कथञ्चित् यदि
वाञ्छती'ति वाक्यादिच्छामात्रेण तद्भोगकरणानन्तरं प्राचीनभगवद्भजनलक्षण-
क्रतुश्च नीयत इत्यर्थः । वस्तुतस्तु भक्तस्यान्यमानवपुमपेक्षाभावात् स्वयमेव ब्रह्म-
लोकान् प्राप्नोतीति ज्ञापनाय प्रथमान्त उक्तः । ननु ब्रह्मणोऽधिकं न किञ्चिदस्ति ।
'न तत्समश्चाभ्यधिकश्च दृश्यत' इति श्रुतेः । एवं सति छान्दोग्ये सनत्कुमार-
नारदसंवादे 'स यो नाम ब्रह्मेत्युपास्ते' इत्यादिना नामवाङ्मनःसङ्कल्पचित्तध्यान-
विज्ञानादीनां ब्रह्मत्वेनोपासनमुत्तरोत्तरं पूर्वस्मात् पूर्वस्माद् भूयस्त्वं चोच्यते । अतो
न ब्रह्मत्वं सर्वेषामुपास्यानां वक्तुं शक्यमिति चेत् । मैवम् । विभूतिरूपाणां नियत-
फलदातृत्वाद् येन रूपेणाल्पफलदानम्, तत्राधिकगुणप्राकट्ये प्रयोजनाभावात्
तावन्मात्रगुणप्रकटनम्, येन रूपेण ततोधिकफलदानम्, तत्र ततोधिकगुण-
भाष्यप्रकाशः।
इत्यरुच्या प्रकारान्तरमाहुः वस्तुत इत्यादि । तथा च सूत्रे नयतीति कर्तरि लट्प्रयोगात् तत्क्रतु-
रिति प्रथमान्तप्रयोगाच्चैवं ज्ञायते । यो ब्रह्मत्वेनाङ्गोपासनकर्ता, स तत्क्रतुर्भक्तः सन् स्वयमेव
स्वात्मानं भक्तिबलेन नयतीति न प्रयोगव्यत्ययोपीति । एतेन निबन्धे, 'सूर्यादिरूपधृग्ब्रह्मे'-
त्यस्य प्रकाशे भक्तिद्वारा ज्ञानाङ्गत्वं यदङ्गोपासनस्योक्तम्, तत्समर्थितं ज्ञेयम् । उपास्यरूपाणा-
मसत्त्वेन ज्ञानस्य तेष्वब्रह्मज्ञानस्य च यद्दोषत्वमुक्तम्, तत्र शङ्कते ननु ब्रह्मण इत्यादि ।
अतो न ब्रह्मत्वं सर्वेषामुपास्यानामिति । न्यूनत्वरूपाद् बाधकाद् न ब्रह्मत्वं भूमव्यति-
रिक्तानामुपासनानाम् । तथा च तेषां ब्रह्मत्वस्य बाधितत्वात्तेष्वसत्त्वान्नब्रह्मत्वज्ञानयोर्न दोषत्वमिति
पूर्वोक्तः सूत्रार्थोऽसङ्गत इत्यर्थः । तत्र समादधते मै

प्रकटनमिति पूर्वभावाधिक्यमुच्यते । एवमेव सर्वत्र । नियतफलदानं तु स्वतन्त्रे-
च्छत्वाल्लीलारूपमिति नानुपपन्नं किञ्चित् । प्रतिमादिष्वावाहनेन सन्निहिते
विभूतिरूपे तद्भावनं पूजामार्गे । भक्तिमार्गे तु भक्त्या तत्र प्रकटे तथा । गुरौ तु,
‘शाब्दे परे च निष्णातं ब्रह्मणी’ति विशेषणवत्त्वेन भगवदावेशात् तत्र तद्भावन-
मिति सर्वमवदातम् । अपि च बादरिजैमिनिमतोक्त्यनन्तरं स्वमतोक्त्या
तत्समानविषयत्वमत्रापीत्यवगम्यते । तत्र च कार्यब्रह्मलोकप्राप्तिपरब्रह्मप्राप्ति-
विषयत्वमुक्तं पूर्वोत्तरपक्षभेदेन । बादरिमिते सविशेषस्यैवोपास्यत्वाद्विशेषाणां
चाविद्यकत्वादुपासनानां सर्वासां प्रतीकत्वमेव सिध्यति । एवं सति ‘अप्रती-
कालम्बनान्नयती’ति वदता व्यासेन बादरिमतानुसारिण उपासकस्य न कस्यापि
ब्रह्मप्राप्तिरिति ज्ञाप्यते । वस्तुतस्तूपासनायामुपास्यस्वरूपज्ञानस्याप्यङ्गत्वात्त-
न्मतीयानामुक्तरीत्या तदभावेन निरङ्गत्वादर्चिरादिप्राप्तिरपि न सम्भवति, किं पुन-
र्ब्रह्मण इति निगूढाशयो व्यासस्य । एवं सति परप्राप्तावेवोपोलकमुक्तं भवतीति
सैव व्यासाभिमतेति सिद्धम् । ये तु प्रतीकेष्वब्रह्मक्रतुत्वं वदन्तः पञ्चाग्निविद्या-
यास्तथात्वेपि वचनबलात्तद्भूतो ब्रह्मप्राप्तिरिति वदन्ति, तन्नेत्युच्यते । वचनं तु
वस्तुसतः पदार्थस्य बोधकम्, न तु कारकम्, अतस्तच्चेद् बोधयति तदा
भाष्यप्रकाशः।
आहुः प्रतिमादिष्वित्यादि । अत्रादिपदेन ‘सूर्योऽग्निर्ब्राह्मणा गाव’ इत्याद्युक्तानां पूजापदानां
सङ्ग्रहः । आवाहनेन सन्निधानं च ‘अप्सुग्नौ हृदये सूर्ये’ इत्याद्युक्तस्य नित्यसन्निधानस्याप्युप-
लक्षणम् । तथा च प्रतिमादिष्वपि शास्त्रप्रामाण्यात् कथञ्चन तत्तद्रूपसन्निधानमेव तत्तत्फल-
दानादिप्रयोजकम्, न तु बुद्धिमात्रम्, अतः शास्त्रादेव तथा आग्रह इत्यर्थः । अत्रर्षिद्वय-
मतोक्त्यनन्तरं स्वमतकथनस्य तात्पर्यं स्फुटीकुर्वन्ति अपि चेत्यादि । प्रतीकतरूपत्वमिति ।
प्रतीकोपासनारूपत्वम् । एवं सतीत्यादि । ब्रह्मणः प्रतीकालम्बनाप्राप्यत्वे अङ्गरूपालम्बनप्राप्यत्वे
च सति । अप्रतीकालम्बननयनकथनं परप्राप्तावेवोपोलकत्वेन सिद्धयतीति सैव तथेत्यर्थः ।
अत्र शाङ्करमतमनुवदन्ति ये त्वित्यादि । तद्भूत इति पञ्चाग्न्युपासकस्य । तद्दूषयन्ति तन्ने-
त्यादि । तस्मिन् मते वक्ष्यमाणं दूषणमुच्यते । विधिभिन्नं वचनं वस्तुसतः पदार्थस्य बोध-
रश्मिः।
लूकू । अयमात्मा । अप्स्वग्नाविति । इदं धर्मशास्त्रग्रन्थे कस्मिंश्चिल्लिखितं द्रष्टव्यम् । तत्तद्रू-
पेत्यादि । भाष्ये । ननु विभूतिरूपत्वेपि नियतफलदाने अनियतफलदानोपरोधजानन्द-
स्वरूपैकरसत्वविरोधस्तु स्यात्, अत आहुः सर्वत्रे । नियतेति । तद्भावनमिति स्नेहभावनम् ।
भक्त्येति । ‘भक्त्याहमेकया ग्राह्य’ इति वाक्याद्गत्या प्रकटे । तरतमभावो भक्तौ द्रष्टव्यः ।
भक्तिमार्गस्य बहुविधत्वेन भावभेदात् । शाब्द इति । शाब्दे परे च ब्रह्मणि निष्णातं गुरुमित्येवं
विशेषणवत्त्वेनेत्यर्थः । तद्भावनं भगवद्भावनम् । ‘तस्मादात्मज्ञं ह्यर्चयेद्भूतिकाम’ इति श्रुतेः ।
बुद्धिमात्रमिति । अब्रह्मरूपप्रतिमादौ तत्तत्फलदानादिप्रयोजकम् । तथाग्रह इति ब्रह्मरूपत्वा-
ग्रहः । ऋषिद्वयेति जैमिनिबादरिरूपर्षिद्वयमित्यर्थः । स्वमतेति बादरायण इति सौत्रपदाद् बादरा-
यणमतकथनस्य । अपि चेत्यादीति । निगूढेति नितरां गूढा वासना । सैवेति परप्राप्तिरेव ।
१. अत्र परिशिष्टे मुद्रितः शोधो द्रष्टव्यः ।

१४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ४ सू० १६.
'अप्रतीकालम्बनान्नयती'ति व्यासोक्त्यविरोधाय तत्राप्यप्रतीकत्वमूरीकार्यम्,
अन्यथा पञ्चाग्निविद्यानिरूपिकां श्रुतिं पश्यन्नेवं स न वदेत् । न चौत्सर्गिकं पक्ष-
माश्रित्य तथोक्तमिति वाच्यम् । तस्य बाधकापनोद्यत्वाद्वचनस्य चोक्तन्याये-
नाबाधकत्वात् । यन्न वचनस्य बाधकत्वमुच्यते, तन्न बाधबोधकत्वमेव, न तु
तथात्वमित्युपेक्षणीयास्ते । ननु मनःप्रभृतीनां शुद्धब्रह्मत्वे मनो ब्रह्मोपास्त इति
भवेत्, न तु प्रकारवाचीतिशब्दशिरस्कं ब्रह्मपदम्, अत उपासनाप्रकाराव-
च्छेदकत्वमेव ब्रह्मपदस्य, न तु स्वरूपनिरूपकत्वमिति चेत्, हन्तेवं शब्दार्थानवगम-
भाष्यप्रकाशः।
क्यम् । यथा 'ब्रह्मविदाप्नोति पर'मित्यादिवाक्यम् । न तु कारकम् । यथा ज्योतिष्टोमादि-
[L

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४५
भाष्यप्रकाशः।
न वदेत् । न च बाधकापनोद्यस्य नियमसोत्सर्गत्त्वेन तत्क्रतुन्याये तं पक्षमाश्रित्य व्यासेना-
प्रतीकालम्बननयनमुक्तमित्यपोध पक्षबोधकत्वाच्च तद्विरोध इति वाच्यम् । औत्सर्गिकपक्षस्य बाध-
कापनोद्यत्वात् । प्रकृते च तत्क्रतुवाक्यस्य सामान्यतः क्रतुप्रकारफलप्रकारतौल्यनियमबोधकतया
पञ्चाग्निवचनस्यापि ब्रह्माङ्गद्वारा ब्रह्मणो ब्रह्मप्राप्तेश्च बोधकत्वाद् विधिभिन्नवचनान्तरन्यायेन
तत्क्रतुविशेषरूपतया ब्राह्मणश्रमणन्यायेनाबाधकत्वात् । न च विधिभिन्नवाक्यस्थले बाध्यबाधक-
भावानादरणे वाक्ययोर्बाध्यबाधकभावप्रसिद्धिविरोधप्रसङ्ग इति शङ्क्यम् । यत्र वचनस्य बाधक-
त्वमुच्यते, तत्र बाधबोधकत्वमेव, न तु बाधकत्वम् । विधिभिन्नवाक्यस्य कारकत्वाभावात् ।
न चानिवृत्त्यप्रसङ्गः । बाधबोधादेव तत्सिद्धेः । तस्मात्तन्मते तत्क्रतुश्रुतिबाधकल्पनम्, तत्क्रतु-
रश्मिः।
विशेषनयनं न वदेत् । न चौत्सर्गिकमिति भाष्यं विवृण्वन्ति स्म न चेत्यादि । श्रुत्योर्विरोधे विकल्प
इति मनूक्तेः । पञ्चाग्निविद्याश्रुतौ साधारणत्वेनैनान् गमयतीति सकलगतिप्रतिपादिकायामुत्सर्गकः ।
सामान्यतो विशेषो बलीयानिति बाधकापनोद्यस्य नियमसोत्सर्गत्वं सामान्यन्यायत्वं तेनेत्यर्थः । तेन
भाष्ये औत्सर्गिकमित्यत्र स्वार्थ औणादिः प्रत्ययः उत्सर्गेण न भिद्यते इत्यौत्सर्गिकं तं पक्षं तत्क्रतुन्याये
आश्रित्य । अप्रतीकालम्बननयनं विशेषबलीयोरूपमुक्तम् । अपोद्येति पञ्चाग्निविद्यास्थगतिवाक्य
अपोद्यस्य उत्सर्गपक्षस्य बोधनात् । न तद्विरोध इति पञ्चाग्निविद्यावाक्यात्सामान्यतः प्रतिपाद-
कान्न विशेषबलीयसो व्यासवाक्यस्याप्रतीकालम्बननयनस्य विरोधः । औत्सर्गिकपक्षस्येत्यादि ।
भाष्यीयस्य तस्येत्यस्यार्थः । बाधको बलीयान्विशेषस्तदपनोद्यत्वात् तदुक्तरीत्या । तत्क्रतुवाक्य-
स्येति । तत्क्रतुः स्वयमेव ब्रह्मलोकान्नयतीति वाक्यस्य । सामान्यत इति विशेषालोचनरहित-
दशायाम् । फलप्रकारः ब्रह्मलोकानित्युक्तः । सूत्रस्य छन्दस्कत्वान्नियमपदम् । वचनस्येति भाष्यं
विवृण्वन्ति स्म पञ्चाग्नीत्यादि । सामान्यतो बलीयो विशेषो निरूप्यते । चकारोऽनुक्तसमुच्चय इत्याशये-
नोक्तसामान्यतो विशेषमाहुः ब्रह्माङ्गेति । ब्रह्मलोकानित्यत्र गोकुलाष्टकोक्तरीत्या ब्रह्मलोकगोकुल-
स्याङ्गस्य द्वारा ब्रह्मण इत्यर्थः । उक्तन्यायेनेति भाष्यविवरणं विधिभिन्नेत्यादि । अयं न्यायोत्रैव
पूर्वमुक्तः प्रकाशे । तत्क्रत्विति 'स एनान्ब्रह्म गमयती'ति ब्रह्मणः अधोक्षजत्वेन ब्रह्माङ्गद्वारा ब्रह्मणः
तथा ब्रह्मप्राप्तेश्च तत्क्रतुविशेषरूपतया ब्राह्मणश्वेच्छ्रभणः श्रमशीलः अनेन न्यायेन तत्क्रतौ सामान्ये
विशेषस्य ब्रह्माङ्गद्वारा ब्रह्मसम्बन्धित्वस्य ब्रह्मप्राप्तिसम्बन्धित्वस्य च बोधनेनाबाधकत्वात् । न हि दध्ना
जुहोतीति यद्यपि गुणं विदधत् यागे यागबाधकं भवति तद्वत् । यत्र वचनस्येति भाष्यं विवरीतुमाहुः
न च विधीति । अर्थवादस्थले 'श्रुत्योर्विरोधे विकल्प' इति मनूक्तेर्विकल्पादरणेन बाध्यबाधक-
भावानादरगे । विवृण्वन्ति स्म यत्र वचनस्येति । मनूक्तेपि यत्र वचनस्य बाधकत्वमुच्यते, वचनं
बाधकमुच्यते । तत्रेति पयोव्रते न घृतयतीत्यत्र बाधकं वचनमुच्यते पूर्वमीमांसायां अजीर्णि सम्भवे
न घृतयेदिति । बाधकत्वमिति तथात्वमित्यस्य भाष्यस्यार्थः । विधिभिन्नस्येति । विधियाक्यस्य
तु कारकत्वम्, विधिप्रयुक्तो अहं करोमीति प्रत्ययात् । न चेत्यादि । कारकत्वाभावेपि
बाधबोधनानन्तरमजीर्णीसम्भवेपि पयोव्रताच्च्युतादनिवृत्तेरप्रसङ्गः । अनिवृत्तिप्रसङ्गस्य प्रतियोगित्वस्य
विवक्षणात्नञ्द्वयम् । तत्सिद्धेरिति पयोव्रतान्निवृत्तिप्रसङ्गसिद्धेः । उपेक्षणीयत्वे हेतून् वदन्तः
सिद्धमाहुः तस्मादिति । बाध्यबाधकभावप्रसिद्धिविरोधप्रसङ्गाभावात् । तत्क्रत्विति । तत्क्रतुश्रुतेः
सुप्रीयतक्रतुश्रवणस्य निरपेक्षस्वरूपसाम्भक्तौ पञ्चाग्निविद्यायां बाधकल्पनम् । तत्क्रत्विति । तत्क्रतु-
१९ प्र० सू० २०
2263

(ण) or षु?
Wait, look at: "सप्तमी शौण्डैरित्यत्र सप्तमीति योगविभागात्समासः । अर्थादुपासनाप्रकारे विषयतयावच्छेदकत्वम् ।"
Ah! "अर्थादुपासनाप्रकारे विषयतयावच्छेदकत्वम् ।"
Before that: "भाष्ये उपासनाप्रकारेति उपासनाप्रकारे..."
Wait, why would it say:
"उपासनाप्रकारे तु अवच्छेदकत्वम्"?
Let's compare the letter with 'तु' in the same line or nearby:
Look at 'तु' in line 27: "अत्र तु नामवाचौ"
The 'तु' has a loop going down-left: 'तु'.
Here, the letter after 'उपासनाप्रकारे' is:
Wait, does it have 'े'? "उपासनाप्रकारे" - the 'े' is on 'र'.
Then the next letter is:
Wait, is it 'तु'? No, it has a vertical stem and a hook: 'ण'?
Wait, could it be "उपासनाप्रकारेऽवच्छेदकत्वम्"?
Look: is that an avagraha 'ऽ'?
No, it's two letters!
Wait! "उपासनाप्रकारे" then:
Could it be: "उपासनाप्रकारेण अवच्छेदकत्वम्"?
Wait, if it is "उपासनाप्रकारेण", then र has no 'े'?
Look at: प, ्रा,

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४७
विजृम्भितमेव, यतो 'मन उपास्वे'त्युक्त्वा तदुपासनाफलं 'यावन्मनोगतं
तत्रास्य कामचारो भवती'ति वदिष्यंस्तदुपासनाया एतत्फलसाधकत्वे प्रयोजक-
रूपाकाङ्क्षायामाह 'मनो ब्रह्मे'ति । इतिशब्दोत्र हेतुत्ववाची । तथा च यतो मनो
ब्रह्म, अतो हेतोस्तदुपासनं तादृक्फलसाधकमित्यर्थः । अत एव, 'मनो हि ब्रह्म
मन उपास्वे'ति पूर्वमुक्तम् । सर्वत्रैवमेव ज्ञेयम् ॥ १६ ॥
॥ इति चतुर्थाध्याये तृतीयपादे चतुर्थमप्रतीकालम्बनाधिकरणम् ॥ ४ ॥
भाष्यप्रकाशः।
पूयीभावशोषणात्मकदोषदर्शनेन ब्रह्मता निराक्रियते, न तु श्रुत्योपासत्वेनोक्तयोः । तयै-
तयोर्दोषयोः क्वाप्यसिद्धत्वात् । प्रत्युत तैत्तिरीयके, 'अद्यतेत्ति च भूतानी'त्यन्नप्रशंसाश्लोके
प्रसिद्धविरुद्धस्यात्तृत्वस्य प्राणश्लोके, 'तस्मात् सर्वायुषमुच्यत' इति सर्वायष्ट्वस्य, मनःश्लोके,
'आनन्दं ब्रह्मणो विद्वा'निति ब्रह्मानन्दरूपत्वस्य च धर्मस्य श्रावणेन, बृहदारण्यकीये, 'तन्न
तथे'ति वाक्ये तद् अन्नप्राणयोर्ब्रह्मत्वं न तथा, न तदुक्तप्रकारेण, किन्तु श्रुत्युक्तप्रकारेणेत्यर्थस्य
लभ्यमानत्वाच्च । एवं पञ्चाग्निविद्यास्थयोषापुरुषयोरपि भगवद्विभूतिरूपयोरेवोपासत्वं ज्ञेयम् ।
'सर्वयोनिषु कौन्तेय मूर्तयः प्रभवन्ति याः । तासां ब्रह्म महद्योनिरहं बीजप्रदः पिते'ति गीता-
वाक्ये तासां तत्तदनुरूपाणां मूर्तीनां तत्तत्कारणभावापन्नयोः प्रकृतिपुरुषयोर्मातापितृभावेन
कथनात् । देवकृतरेतोब्जोहोमस्य तत्रैव युक्तत्वाच्च । 'तदभिध्यानादेव तु तल्लिङ्गात् स' इति
सूत्रे तथैव सिद्धत्वात् । अन्तर्यामिब्राह्मणे, 'यः सर्वेषु भूतेषु तिष्ठ'न्नित्यादिश्रावणाच्चेति । तस्मा-
द्भासङ्गतिलेश इति दिक् । तेन यत्रोपास्यविशेषणतया ब्रह्मपदमूच्यते, यत्र वा ब्रह्मप्राप्तिरूपं फलम्,
अन्यद्वा ब्रह्मत्वगमकं तात्पर्यलिङ्गं लभ्यते, तत्र तस्या उपासनाया अप्रतीकत्वमिति बोध्यम् ।
एवमत्र चतुर्भिरधिकरणैः सप्रकारा गच्छद्ब्रह्मविद्व्यवस्थोक्ता । अग्रे तु प्रासङ्गिकमुच्यते ।
ज्ञानिभक्तयोर्गमने प्रकारविशेषदर्शनेनाकाङ्क्षाविशेषोदयादिति ॥ १६ ॥
इति चतुर्थमप्रतीकालम्बनाधिकरणम् ॥ ४ ॥
रश्मिः।
श्रुतेः । श्रुत्येति बृहदारण्यकश्श्रुत्या । उक्तयोरिति तैत्तिरीयोक्तयोः । तत्रेति तैत्तिरीये । दोषयोरिति
शोषक्वेदनयोः । प्रशंसेति । 'अन्नाद्भूतानि जायन्ते जातान्यन्नेन वर्धन्ते अद्यतेत्ति च भूतानि तस्मादन्नं
तदुच्यत' इति श्लोके । असदुत्कर्षाधायकं गुणवर्णनं प्रशंसा । पूर्वार्धे स्फुटा । उत्तरार्धेन्नपदनि-
र्वचनम् । भूतैरद्यते अदन्ति च भूतानीति । यद्वा उत्पत्तिस्थितिसमभिव्याहारादन्नेन भूतानि
अद्यन्ते अन्नं भूतान्यत्तीति लय उक्तः । तस्माज्जगज्जन्मादिकर्तृत्वात् । अत एव आहुः प्रसिद्धेति ।
प्राणश्लोक इति । 'प्राणं देवा अनुप्राणन्ति, मनुष्याः पशवश्च ये, प्राणो हि भूतानामायुः,
तस्मात्सर्वायुषमुच्यते' इति प्रशंसाश्लोके । मनःश्लोके 'यतो वाचो निवर्तन्ते अप्राप्य मनसा सह
आनन्दं ब्रह्मणो विद्वान् न बिभेति कदाचने'ति प्रशंसाश्लोके । तदुक्तेति मायावाद्युक्तेन प्रकारेण ।
ननु मायावादिश्श्रुतिविचारे केति चेन्न । 'अनागतमतीतं चे'ति वाक्यात् । असङ्गतीति । मन-
आद्युपासनासु ब्रह्मक्रतुत्वासङ्गतिः तस्या लेशः । उपास्यविशेषणेति । ब्रह्माहमस्मीत्यत्र यथा ।
ब्रह्मप्राप्तिरूपमिति । 'ब्रह्मविदाप्नोति पर'मित्यत्र । ब्रह्मत्वगमकमिति । 'सर्वाणि ह वा भूतानि
आकाशादेव समुत्पद्यन्ते आकाशं प्रत्यस्तं यन्ती'त्यत्र ब्रह्मत्वगमकं जगज्जन्मादिकर्तृत्वं आकाशपदस्य
ब्रह्मणि तात्पर्यं लिङ्गम् । अप्रतीकत्वमिति । एतेषां शुद्धब्रह्म ज्ञात्वोपासकत्वेन अप्रतीकालम्बन-
त्वात्तेषामुपासनाया अप्रतीकत्वम् ॥ १६ ॥ इति चतुर्थमप्रतीकालम्बनाधिकरणम् ॥ ४ ॥
2265

१४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ५ सू० १७.
विशेषं च दर्शयति ॥ १७ ॥ ( ४-३-५ )
सर्वाण्युपास्यानि रूपाणि ब्रह्मरूपाण्येवेति तदुपासकानां परमाप्तिरेवेति
सिद्धम् । तत्रेदं चिन्त्यते । ज्ञानमार्गीयाणां भक्तिमार्गीयाणां चाविशेषेणैव पर-
प्राप्तिः, उत कश्चिद्विशेषोस्तीति । तत्र उभयोरपि ब्रह्मोपासकत्वेनाविशेषेणैव
फलं भवतीति प्राप्ते, प्रत्याह विशेषं च श्रुतिर्दर्शयति । तैत्तिरीयके पठ्यते ।
'ब्रह्मविदाप्नोति पर'मिति गूढाभिसन्धिना सामान्यत एतावदुक्त्वा, गूढं
तमुद्घाटयन्त्यतिगोप्यत्वमसिद्धैर्वक्तुमशक्यत्वं च ज्ञापयन्त्याह 'तदेषाभ्युक्ता
सत्यं ज्ञानमनन्तं ब्रह्म यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान्
कामान् सह ब्रह्मणा विपश्चिते'ति । तत् पूर्वोक्तं प्रतिपाद्यत्वेनाभिमुखीकृत

इहायमाशयो ज्ञेयः । ‘नायमात्मा प्रवचनेने’ति श्रुत्या भगवद्वरणातिरिक्त-
साधननिरासः क्रियते पुरुषोत्तमप्राप्तौ । एवं सत्यक्षरब्रह्मज्ञानस्य तत्साधनत्वे
उच्यमाने तद्विरोधः स्यात् । तेनैवमेतदर्थो निरूप्यते । ज्ञानमार्गीयाणामक्षरज्ञाने-
नाक्षरप्राप्तिः, तेषां तदेकपर्यवसायित्वात्, भक्तानामेव पुरुषोत्तमपर्यवसायित्वात् ।
तदुक्तं भगवद्गीतासु ‘एवं सततयुक्ता य’ इति प्रश्ने, ‘मय्यावेश्य मनो
ये माम्,’ ‘ये त्वक्षरमनिर्देश्यम्’, श्रीभागवते च ‘भक्त्याहमेकया ग्राह्यः,’
‘तस्मान्मद्भक्तियुक्तस्ये’त्युपक्रम्य, ‘न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे’-
त्यादिना । तथा च ब्रह्मविदं चेद् भगवान् वृणुते, तदा भक्तिरुदेति । तत्प्रचुरभावे
सति स्वयं तद्बुवि प्रकटीभविष्णुः स्वस्थानभूतं व्यापिवैकुण्ठं तद्गुहायां हृदयाकाशे
प्र

१५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० ३ अ० ५ सू० १७.
गुहायां परमे व्योम्नि निहितं यो वेद, स 'नास्य प्राणा उत्क्रामन्तीहैव समव-
नीयन्ते ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुत्युक्तरीत्या परमाप्नोतीत्यर्थः सम्पद्यते । अथ
शुद्धपुष्टिमार्गीङ्गीकृतस्य व्यवस्थामाह, 'सोऽश्नुत' इत्यादिना । अत्रायमभि-
सन्धिः । यथा स्वयं प्रकटीभूय लोके लीलां करोति, तथात्यनुग्रहवशात् स्वान्तः-
स्थितमपि भक्तं प्रकटीकृत्य तत्स्नेहातिशयेन तद्वशः सन् स्वलीलारसानुभवं
कारयतीति स भक्तो ब्रह्मणा परब्रह्मणा पुरुषोत्तमेन सह सर्वान् कामानश्नुत
इति । चकारादुक्ता श्रुतिः स्मृतयश्च संगृह्यन्ते । एवं सति ज्ञानमार्गीयाणामक्षर-
प्राप्तिरेव, भक्तानामेव पुरुषोत्तमप्राप्तिरिति सिद्धम् ॥ १७ ॥
इति चतुर्थाध्याये तृतीयपादे पञ्चमं विशेषाधिकरणम् ॥ ५ ॥
इति श्रीवेदव्यासमतवर्तिश्रीवल्लभाचार्यविरचिते श्रीमद्ब्रह्मसूत्राणुभाष्ये
चतुर्थाध्यायस्य तृतीयः पादः समाप्तः ॥ ४ ॥ ३ ॥
भाष्यप्रकाशः।
वाक्यस्य । तथा च यः पूर्वकर्ता उक्तः, तस्यैव वरणेन भक्तिप्राप्तौ भगवद्धामत्वेनाक्षराविर्भावे
पुरुषोत्तमप्राप्तिर्मवतीति तेनैव कर्त्राकाङ्क्षापूर्त्तिरिति न कोपि दोष इत्यर्थः । तथा चैवं विहितं
यो वेद, सोऽश्नुते, अर्थात्तमेवाश्नुते प्राप्नोति । नन्वेतावता व्याख्येयस्य यजुषो विवरणे सिद्धे
'सर्वान् कामा'निति शेषस्य किं प्रयोजनमित्यत आहुः अथेत्यादि । तथा चास्मिन् पक्षे 'सोऽश्नुत'
इति क्रियापदस्य सम्बन्ध इति बोधनार्थमवतारेणे 'सोऽश्नुत' इत्यपि संगृहीतम् । तथा चायं
शेषः पुष्टिमार्गीयफलबोधनार्थः । तथा सत्येवं श्रुतियोजना । अत्राश्नुते इति क्रियापदं संयोग-
पृथक्त्वेन त्रिधा सम्बध्यते । सत्यं ज्ञानमनन्तं ब्रह्म यो वेद, सोऽश्नुते । साभिध्यात्तादृशमक्षरं
ब्रह्मैव प्राप्नोतीत्यर्थः । यः पुनर्वरणसहकृतो गुहायां परमे व्योमन् निहितं परं ब्रह्म पुरुषोत्तमं
वेद, सोऽश्नुते, अर्थात् पुरुषोत्तममेवाश्नुते । 'ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुतिबलात् पुरुषोत्तम-
सायुज्यं प्राप्नोतीत्यर्थः । यः पुनः पूर्वमक्षरब्रह्मवित् ततस्तद्भिहितपुरुषोत्तमवित् पुरुषोत्तमे लीनोऽ-
सम्भावितलीलारसानुभवः स चेदतिकृपया शुद्धपुष्टिमार्गे वृतः सन् विपश्चिता ब्रह्मणा पुरुषोत्तमेन
सह सर्वान् कामानश्नुते । तथा चात्र ब्रह्मविदस्ततो वरणसहकृतस्य ततो भक्तिसहकृतस्य क्रमिकैव
व्यवस्था बोध्यते । सूत्रस्य चकारस्य प्रयोजनमाहुः चकारादित्यादि । अतो ज्ञानभक्तिमार्गीय-
योरुक्तविशेषस्य श्रुत्यैव दर्शनान्नैका व्यवस्था, किन्तूक्तरीतिकविशेषदर्शनाद् विशेषवत्येव सेत्यर्थः
सिद्धः । एतेनाहंग्रहोपासकानां सायुज्यम्, पृथग्ग्रहोपासकानां भक्तानामेव परप्राप्तिस्तत्क्रतु-
न्यायादिति सिद्धं ज्ञेयम् ।
रश्मिः ।
मुक्तिमाहुः नास्य प्राणेति । इहैव पुरः प्रकटे ब्रह्मणि । हृदि प्रकटे ब्रह्मणि सति तत्प्रभावाद् ब्रह्मैव
सन् पुरः प्रकटं ब्रह्माप्येतीति । अश्नुत इति अभातीत्यर्थः । उक्तेति अस्याः पूर्वमुक्ता श्रुतिः ।
निहितं गुहायामित्याद्या श्रुतिः, नायमात्मेति श्रुतिर्वा । स्मृतय इति 'एवं सतत युक्ता' इत्याद्याः,
'वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथे'ति, 'निवेदितात्मा विचिकीर्षितो मे' इति च ।
एवं शेषं स्फुटमित्यर्थः । एतेनेति । ज्ञानिभक्तयोः परप्राप्तौ विशेषविचारेण । ब्रह्माहमस्मीत्यहं-
ग्रहोपासना । ब्रह्मण आत्मत्वेन ग्रहः तेनोपासना तत्कर्तॄणाम्, जीवब्रह्मवादेपि भवति । पृथगिति ।
2268

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५१

भाष्यप्रकाशः।

अन्ये तु अप्रतीकालम्बनसूत्रशेषत्वेनेदं सूत्रमङ्गीकुर्वन्ति । अप्रतीकालम्बनसूत्रस्य चैवमर्थ-
माहुः। तत्र प्रतीकालम्बनान् वर्जयित्वा ब्रह्मक्रतूनब्रह्मक्रतूंश्च सर्वानन्यान् विकारालम्बनान्नयतीति
बादरायण आचार्यो मन्यते । उभयथा अदोषात् । अनियमः सर्वेषामिति तार्तीयीके सूत्रे श्रुति-
स्मृतिभ्यां सर्वेषामेव ब्रह्मलोकगत्युपपादनात् । तत्क्रतुश्च । असोभयथाभावस्य समर्थको हेतुर्द्र-
ष्टव्यः । 'यो हि ब्रह्मक्रतुः स ब्रह्माैश्वर्यमासीदेदितीष्यते तं यथायथोपासते तदेव भवती'ति श्रुतेः ।
पञ्चाग्निविद्यायां ब्रह्मप्राप्तिश्रावणं त्वाहृत्य वादत्वाद् उत्सर्गबाधकम् । अतस्तदभावे औत्सर्गिकेन
तत्क्रतुन्यायेन ब्रह्मक्रतूनामेव तत्प्राप्तिर्नेतरेषामिति शाङ्करमतम् । तदसङ्गतमिति प्रागेवोक्तम् ।
भास्कराचार्यास्तु, मनआद्युपासनानां प्रतीकत्वमेवाङ्गीकृत्य तदालम्बनव्यतिरिक्तान्
कार्यब्रह्मणो हिरण्यगर्भस्योपासकान् परब्रह्मोपासकांश्च नयति । तत्र हेतुः । उभयथा दोषात् ।
तत्रापि हेतुः । तत्क्रतुश्चेति । तथाचैकत्वभावनया आत्मक्रतुः परमात्मानं प्रति । द्वैतक्रतुश्च कार्यं
ब्रह्मेति । न च द्वैतोपासकानां कथं कार्यब्रह्मप्राप्तिरिति शङ्क्यम् । पञ्चाग्निविद्यायां 'शुद्धः पूतः
पुण्यलोको भवती'ति श्रुतेः। न च 'परं जैमिनि'रिति सूत्रे परब्रह्मण एव ब्रह्मपदार्थत्वेन निश्चितत्वाद्
द्वैतोपासनायां तदनङ्गीकारे पूर्वापरविरोध इति शङ्क्यम् । क्रममुक्तिसद्योमुक्तिभेदेन मुक्तेर्द्वैविध्याद्
द्वैतोपासकानां हिरण्यगर्भप्राप्त्यनन्तरं बहुकालेनोदये परप्राप्तिः, साक्षाद्ब्रह्मोपासकानां तु शीघ्रं

रश्मिः।

श्रीकृष्णः शरणं ममेति शरणमार्गे ममेति भेदे षष्ठ्याः । एवं भक्तिमार्गेपि दासत्वदासीवद्वा प्रभुनिकटे
स्थितौ सत्यां पृथग्ग्रहोपासना भवति तत्कर्तृणाम् । तत्क्रतुन्यायो विवृतः भक्तज्ञानिसाधारण्येन ।
अप्रतीकेति द्विसूत्रमधिकरणम् । उभयथेति ब्रह्मक्रत्वब्रह्मक्रतुभेदेन नयनाभ्युपगमेऽदोषात् ।
गत्यनुपपत्त्यादिदोषाभावात् । सर्वेषामिति ब्रह्मक्रत्वब्रह्मक्रतूनाम् । उभयथाभावस्येति ।
ब्रह्मक्रत्वब्रह्मक्रतुनयनलक्षणभावस्य । हेतुरिति तत्क्रतुर्ब्रह्मक्रतुरेवेति हेतुगर्भं विशेषणम्, तत्क्रतुन्यायो
हि ब्रह्मक्रतुः स ब्रह्माैश्वर्यमासीदितीष्यत इत्यर्थः । ब्रह्मक्रतोर्नीतस्य प्रापणे शेषमाहुः यो हीति ।
ब्रह्मात्मैश्वर्यं आसीदासादेदिति शेषे इष्टिः । यो हि ब्रह्मक्रतुः स ब्रह्मात्मैश्वर्यमासादेदिति शङ्कराचार्य-
भाष्यात् । ब्रह्मात्मैश्वर्यमित्यत्र श्रुतिविरोधं परिहरन्ति स्म पञ्चाग्नीति । 'स एनान्ब्रह्म गमयतीत्यनया
ब्रह्मप्राप्तिः श्रावणम् । आहृत्येति उक्तवचनबलाद्वादात् । उत्सर्गस्य ब्रह्मात्मैश्वर्यासादनलक्षणस्य
बाधकम् । आहृत्य वादाभाव इति तदभाव इत्यस्यार्थः तत्प्राप्तिरिति । ब्रह्मात्मैश्वर्यप्राप्तिः इतरेषां
अब्रह्मक्रतूनाम् । प्रागेवेति । अत्रैव ये तु प्रतीकेष्वब्रह्मक्रतुत्वमित्यादि भाष्ये तत्प्रकाशे च ।
प्रतीकत्वमेवेति । कार्यत्वेन भेदे प्रतीकत्वमवलम्बनवत्त्वमेव । तदालम्बनेति । प्रती-
कालम्बनेत्यर्थः । उभयथेति । कार्यब्रह्मपरब्रह्मोपासकभेदेनादोषात् । तत्रापीति । दोषाभावेपि
हेतुः । तत्क्रतुरात्मक्रतुः परमात्मानं प्रतिपद्यते । द्वैतोपासकानामिति । द्वैतेनोपासकानाम् ।
कथमिति । भेदेनाभेदेन वेति प्रश्नः । कार्यब्रह्मक्रतुः कार्ये द्वैतैकत्वभावनया हिरण्यगर्भो भवि-
ष्यामीत्येवं प्रवृत्तस्तद्भावमेकत्वे एति द्वैते तत्रास्त्यर्थस्य अर्चिर्मार्गः पठ्यते । तदाहुः पञ्चाग्नीति ।
शुद्धः पूतो व्यापकजीवः कारणात्मना अभेदात् पुण्यलोको हिरण्यगर्भः भवति उत्पद्यते । कार्या-
लम्बनाद्भेदात् । ब्रह्मपदार्थत्वेनेति । कार्यब्रह्मपदार्थत्वेन । तदनङ्गीकार इति । कार्यब्रह्मप्राप्तौ
परब्रह्मप्राप्त्यनङ्गीकारे । पूर्वस्य 'परं जैमिनि'रिति सूत्रभाष्यस्य अपरस्य 'अप्रतीकालम्बन'सूत्रभाष्यस्य
विरोधः । परप्राप्तिरिति । क्रममुक्तिः । साक्षादिति । परब्रह्मोपासकानाम् । शीघ्रमिति । सद्यः

2269

तत्राप्तिरित्याविरोध इत्याहुः । अत्र मनआद्युपासनानां प्रतीकत्वमनुपादेयम् ।
रामानुजाचार्यास्तु, इतः पूर्वसूत्रे 'अश्व इव रोमाणि विधूय पापं चन्द्र इव राहोर्मुखात्
प्रमुच्य धूत्वा शरीरमकृतं कृतात्मा ब्रह्मलोकमभिसम्भवानी'ति श्रुत्या सम्भाव्यब्रह्मलोकस्य अकृ-
तत्वभावणात् सर्वबन्धविनिर्मोक्षस्य च साक्षाच्छ्रवणात् परब्रह्मलोकस्य नित्यत्वमङ्गीकृत्य, अस्मिन्
सूत्रे 'उभयथा चे'ति पाठमङ्गीकृत्य मनआद्युपासनानां पूर्ववदेव प्रतीकत्वं चाङ्गीकृत्य, अप्रती-
कालम्बननयनप्रतिज्ञायां हेतुमुभयथादोषमेवं व्याकुर्वते । कार्यब्रह्मोपासकनयनमात्रनियमे 'अस्मा-
च्छरीरात् समुत्थाय परं ज्योतिरुपसम्पद्ये'त्यादिकाः श्रुतयः कुप्येयुः । परब्रह्मोपासकनयनमात्र-
नियमे च पञ्चाग्निविदो नयनश्रुतिः कुप्येत्युभयस्मिन् पक्षे दोषः स्यात्

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५३
भाष्यप्रकाशः।
नारायणपदप्रायपाठसंदृष्टत्वेन, 'परात्परतर' इति मन्त्रस्य च सूक्तारम्भे 'येनेदं भूतं भुवनं भविष्य-
त्परिगृहीतममृते सर्वम्, येन यज्ञस्तायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्त्वि'ति मनसस्तथात्वं
प्रक्रम्य पठिततया तन्माहात्म्यबोधकत्वेन मनसश्चानन्दवल्ल्यां ब्रह्मानन्दात्मकत्वेन सिद्धतया
तत्र शिवमाहात्म्यबोधकताया अशक्यवचनत्वेन, 'विश्वाधिक' इति श्वेताश्वतरतृतीयाध्याय मन्त्रस्य
च केवलब्रह्मस्वरूपमुपक्रम्य पठितत्वेन त्रिलोचनादिवैशिष्ट्यस्यानुक्तत्वेन तदभिमत रूपाबोधकत्वेन
तदुक्तानां सर्वेषामेव मन्त्राणां तदुक्तार्थानुपष्टम्भकत्वात् । इदं यथा तथा प्रहस्तेऽस्माभि-
र्निपुणतरमुपपादितमिति नात्र प्रपञ्च्यते ।
माध्वास्तु,
'प्र

१५४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० ३ अ० ५ सू० १७.
भाष्यप्रकाशः।
विशेषदर्शनसूत्रे च, 'यावन्नाम्नो गतं तत्रास्य कामचारो भवती'त्यादिश्रुतिर्नामादिप्राण-
पर्यन्तेषु प्रतीकोपासनेषु फलविशेषं च दर्शयतीति प्रतीकालम्बनान् वर्जयित्वा नयतीति सिद्धमिति
शङ्करभास्कररामानुजाचार्या आहुः । तत्तु मनोनामाद्युपासनानां प्रतीकतानिराकरणेन
फलविशेषभवनस्य च भगवदिच्छया भगवद्विभूतित्वात् साधनेनैव निरस्तम् ।
यत्तु शैवो विष्णुलोकापेक्षया शिवलोके विशेषं दर्शयतीत्याह । तदपि प्रहस्ते निपुणतया
दूषितमिति ततोऽवधेयम् ।
माध्वास्तु, 'अन्तःप्रकाशाः बहिःप्रकाशाः सर्वप्रकाशाः देवा वा सर्वप्रकाशा ऋषयोऽन्तः-
प्रकाशा मानुषा एव बहिःप्रकाशा' इति काचिच्चतुर्वेदशिखाश्रुतिर्विशेषं दर्शयतीत्याहुः । तत्रापि
श्रुतेरप्रसिद्धत्वादुदासीना वयम् ॥ १७ ॥ इति पञ्चमं विशेषाधिकरणम् ॥ ५ ॥
इति श्रीमद्वल्लभाचार्यचरणनखचन्द्रनिरस्तहृदयध्वान्तस्य श्रीपीताम्ब-
रात्मजस्य पुरुषोत्तमस्य कृतौ भाष्यप्रकाशे चतुर्था-
ध्यायस्य तृतीयः पादः ॥ ४ ॥ ३ ॥
रश्मिः।
अणुभाष्ये पूर्वाधिकरणे भाष्यप्रकाशे चाधिकरणसमाप्तौ । साधनेनेति । अप्रतीकालम्बनसूत्रे
साधनेन । विशेषमिति । अन्तःप्रकाशादिषु देवाद्यधिकारिविशेषम् ॥ १७ ॥ इति पञ्चमं विशेषा-
धिकरणम् ॥ ५ ॥
इति श्रीविठ्ठलेश्वरैश्वर्यनिरस्तसमस्तान्तरायेण श्रीगोविन्दरायजित्पौत्रेण
सम्पूर्णवेद्या विठ्ठलरायजिद्भातृव्यगोकुलोत्सवात्मजगोपेश्वरजिता
कृते भाष्यप्रकाशस्य रश्मौ चतुर्थाध्यायस्य
तृतीयः पादः सम्पूर्णतामगमत् ॥ ३ ॥
2272

ति"?
"न तदश्नोति कश्चन, न तदश्नोति कश्चनेति" - actually that's a quote from Katha/Upanishad or similar: "न तदश्नाति कश्चन"? Here it says "न तदश्नोति कश्चन, न तदश्नोति कश्चने'ति श्रुत्या".

Now let's check L29:
तद्भोगनिषेधात्सुधासंवैवलितत्वेन रूपेण तमनुभवतीत्यर्थः । भेदाभावादिति। फलप्रकरणेऽपि तादात्म्या-
Wait, "सुधासंवैवलितत्वेन"?
Let's zoom in on that word in L29:
त-द्भो-ग-नि-षे-धा-त्सु-धा-सं-
Then what?
व-लि-त-त्वे-न?
Wait! Look at the letters:
सु-धा-सं-व-लि-त-त्वे-न?
Wait, between सं and लितत्वेन:
There is: व (va) or वलि (vali)?
Wait! Is it "सुधासंवलितत्वेन"?
Let's look at the matras:
Is there an ai-matra?
Wait, above 'सं': dot (anusvara).
Next: is that 'व'? It has two slant strokes on top? No, that is the repha