सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

कर्माणि विधत्ते ह्यागदं यथे'ति वाक्यात् । अगृह्यत्वगृह्यत्वविरोधापहारस्तु
जीवसामर्थ्येश्वरेच्छाभ्यां पुरैव कृत इति नाधिकमत्र निरूप्यम् । इतिशब्दो
हेत्वर्थे । तथा च भगवानात्मा भवति सर्वेषां जीवानाम् । अतो हेतोरुक्तरीत्या तदनु-
ग्रहेण तमुपगच्छन्ति । ज्ञानमार्गेऽङ्गीकृतास्त्वात्मत्वेनैव ज्ञानादुप समीप एव
गच्छन्ति, उक्तरीत्याक्षरात्मके तत्रैव प्रविष्टा भवन्तीत्यर्थः । भक्तिमार्गेऽङ्गीकृतास्तु
साक्षात् प्रकटे पुरुषोत्तमे सति तद्भजनार्थमुप समीपं गच्छन्तीत्यर्थः ।
भाष्यप्रकाशः ।
ननु विरुद्धधर्माधारत्वादधर्मा एव स्वभावबाधका भवन्त्वित्याशङ्क्य तेषामप्यबाधकत्वमाहुः अगृह्ये-
त्यादि । एतेन ज्ञानादिदौर्बल्यमपि परिहृतम् । एवं बाधकं परिहृत्य सूत्रं व्याकुर्वन्ति । इति-
शब्द इत्यादि । आत्मशब्दार्थस्तु सर्वान्तर्यामित्वादिरूपः पूर्वोक्त एव । एतावान् परं विशेषो
यज्ज्ञानिनां प्रत्यग्रसत्वप्राधान्येन तत्स्फूर्तिर्भक्तानां तु सर्वात्मत्वपरमप्रियत्वानन्दप्राधान्येनेति ।
अत उक्तरीत्या यस्य मार्गस्य या रीतिः क्रमाक्रमादिना व्युत्पादिता, तया रीत्या तं प्राप्नुवन्ती-
त्यर्थः । उपगमनं विभजन्ते । ज्ञानमार्ग इत्यादि । भजनार्थमुप समीपे गच्छन्तीति ।
रश्मिः ।
इति व्युत्पत्तिः । एतेनेति । विरुद्धधर्माधारत्वेन । परिहृतमिति । ईक्षतेर्नाशब्दमित्यत्र यावद्धर्म-
वत्त्वेन ज्ञानस्नेहदौर्बल्यम् । बाधकमिति । आत्मोपगमने आत्मग्रहणे च बाधकमगृह्यत्वादिकम् ।
भाष्ये । पुरैवेति । उभयव्यपदेशाधिकरणे । प्रकृते । सर्वान्तरिति । सर्वान्तर्यामित्वादिर्यस्या
व्यक्तेः सा सर्वान्तर्यामित्वादिः, जातिव्यक्तिभ्यां रूप्यत इति तथा । पूर्वोक्त इति । अत्रैव पूर्व-
मन्तर्यामिब्राह्मणोपन्यासे 'नायं सुखापो भगवान् देहिनां गोपिकासुतः । ज्ञानिनां चात्मपोतानां यथा
भक्तिमतामिहे'त्यनेनोक्तं तारतम्यं सर्वेषां जीवानामिति भाष्य आहुः एतावानिति । प्रत्यग्रसत्वं यद्यपि
प्रतिदेहमात्मा तत्वं तथापि ज्ञानिनां ज्ञानकृते विशेषे प्रतीचो रसत्वं कारणदृष्ट्या शान्तरसत्वं तत्रा-
धान्येनेत्युक्तम् । न तु प्रत्यगात्मत्वेन, 'मुक्तिर्हित्वान्यारूपं स्वरूपेण व्यवस्थिति'रितिवाक्यात् ।
प्रत्यग्रस एवात्मपोतः । संसारसागरे प्रत्यग्रसत्वे तरणमिति 'शान्तो दान्त उपरतस्तितिक्षु'रित्युक्त्वा-
'त्मन्येवात्मानं पश्ये'दिति श्रुतेः । 'ज्ञानी चेद्भजते कृष्णं तस्मान्नास्त्यधिकः परः,' 'तेषां ज्ञानी
नित्ययुक्त एकभक्तिर्विशिष्यते' इति वाक्याभ्यां सर्वात्मत्वं ज्ञानिविषयः । भक्तत्वेऽभेदस्य प्रतिबन्ध-
कत्वेन परमप्रियत्वेन स्फूर्तौ कर्मकर्तृव्यपदेशादत एव फलत्वेन सच्चिदानन्देष्वानन्दप्राधान्येनेति ।
एतावत्पर्यन्तं ज्ञानमार्गे ज्ञानादित्यन्तं भक्तिमार्गे सत्यन्तं भाष्यमपि विवृतम् । उभयोः पङ्क्ति-
कयोरग्रेतनभाष्यार्थमपि वदन्तः प्रकृतस्यातो हेतोरिति भाष्यस्यार्थमाहुः अत उक्तरीत्येति ।
व्याख्येये इमे, यस्येति व्याख्यानम् । क्रमाक्रमेति । क्रमः पापाभावानन्तरं मर्यादाभक्तिक्रमः
पापसत्त्वेऽपि पुष्टिभक्तिरिति । व्युत्पादितेति । तत्रोच्यत इत्यादिभाष्येण । यं धर्मं पुरस्कृत्येत्यत्रानुग्रहं
पुरस्कृत्य भक्तिमार्ग उभयविधे ज्ञानमार्गे तु प्रतिजीवं विचारितफलसाधनेच्छां पुरस्कृत्येत्यर्थात् ।
विभजन्त इति । भक्तिज्ञानभेदेनेत्यर्थः । ज्ञानमार्ग इत्यादीति । अत्रोभयोः पङ्क्तिकयोरुक्तौ
पूर्वपङ्क्तिकार्यकथनावसरे । उप समीप एवेति भाष्यार्थो नोक्तः स उच्यते । ज्ञानेन स्वरूपस्थिता
वास्तविकाणवः महत्त्वार्थमुपसमीप एव गच्छन्ति, यतोक्षरात्मके खमहद्रूपे विभूत्यात्मके प्रतिमादावेव
प्रविष्टा भवन्ति, 'अणोरणीयान् महतो महीया'निति श्रुतेः । उक्तरीत्यात्रैव ज्ञानमार्गे स्थित्याद्युक्तरीत्या ।

एवं श्लेषोक्तिरियमिति ज्ञायते । सम्प्रदायानुवृत्तिरपि भगवदिङ्गितेत्येतादृशाः
स्वयं येन मार्गेण फलं प्राप्ताः, तं मार्गमन्यानपि ग्राहयन्त्युपदेशैः, अत्रोभय-
त्राप्यात्मत्वमेव हेतुः, अन्यथा आत्मारामस्य सर्वनिरपेक्षस्यैवंकरणासम्भवेन
मोक्षमार्गाप्रसिद्धिरेव स्यात् । तस्मात् सर्वथानावृत्तिरेव श्रुत्यभिमतेति ज्ञेयम् ॥ ३॥
भाष्यप्रकाशः।
मुक्तोपसृप्यत्वस्य पूर्वमुक्तत्वात् 'ब्रह्मविदाप्नोति पर'मित्युक्तायाः परप्राप्तेः, 'सोऽश्नुते सर्वान्
कामान् सह ब्रह्मणा विपश्चिते'त्यत्र ब्रह्मसाहित्येन श्रावणाङ्गमविद्यायामात्ममिथुनत्वस्य श्राव-
णाच्च तथेत्यर्थः ।
अत्रेदं सम्पद्यते । भक्ता हि 'पृथगात्मानं प्रेरितारं च मत्वा जुष्टस्ततस्तेन अमृतत्वमेती'ति
श्वेताश्वतरश्रुत्या, 'आत्मेत्येवोपासीते'त्युक्तवाग्रे

१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ ० ४ पा ० १ अ ० २ सू ० ४.
नन्वात्मत्वेनोक्तिरुपासनार्थेति नोक्तं साधीय इत्यत उत्तरं पठति ।
न प्रतीकेन हि सः ॥ ४ ॥
अतद्रूपे तद्भावेनोपासनं हि प्रतीकमित्युच्यते । तथा च तादृशेन तेन स
मोक्षो न भवतीत्यर्थः । श्रुतिसिद्धत्वान्नास्ति मोक्ष इति न वक्तुं शक्यमिति
भावः ।
भाष्यप्रकाशः।
क्रियमाणकर्ममार्ग एवावृत्तिः, फलम्, न तु तात्पर्यज्ञानपूर्वकं भक्तिमार्गीयत्वेन ज्ञानमार्गीयत्वेन
वा क्रियमाणे निवृत्तिरूपे कर्मणीत्यनावृत्तिफलकत्वाज्ज्ञानभक्ती उत्तमे इत्यर्थः ॥ ३ ॥
न प्रतीकेन हि सः ॥ ४ ॥ सूत्रमवतारयन्ति नन्वित्यादि । अयमर्थः । आत्मत्वेन
ज्ञानस्याभेदे तादात्म्ये वा पर्यवसन्नत्वात्तन्मार्गरीत्या आत्मत्वेन ज्ञानात्तन्मार्गीयो मोक्षोना-
वृत्तिरूपः फलमित्युक्तम् ।

अथवा आत्मत्वेनोक्तिरुपासनार्थेति वदन् वादी वक्तव्यः। फलार्थमेव तत्।
फलं च श्रुत्युक्तस्तत्प्रवेश एवेति त्वयापि वाच्यम् । एवं सत्यादौ ज्ञानमार्गेनुप-
भाष्यप्रकाशः ।
एकैकमुपास्ते न स वेदाकृत्स्नो ह्येषोन्त एकैकेन भवती'त्युक्त्वा अकृत्स्नत्ववारणार्थम्, 'आत्मे-
त्येवोपासीते'ति वदन्नग्रे, 'अत्र ह्येते सर्व एकं भवन्ती'त्याह। तेनात्मत्वात् सर्वरूपस्य प्राणादिनै-
कदेशरूपेण यदुपासनं तत्प्रतीकरूपम्, तादृशेन तेन मोक्षो न भवतीति सिध्यति, न त्वात्म-
त्वेन ज्ञानान्मोक्षो न भवतीति । 'अत्र ह्येते सर्व एकं भवन्ती'त्यनेन कृत्स्नत्वरूपस्य फलस्यात्मो-
पासने बोधितत्वात् । कृत्स्नत्वं सर्वभावपूर्वकक्षा, सर्वभावश्च मोक्षपूर्वकक्षेति तत्रैव पुरुषविध-
ब्राह्मणे 'तद्वैतत् पश्यन्नृषिर्वामदेवः प्रतिपेदे' इत्यत्र सिद्धम् । अतो मोक्षपूर्वकक्षाया अत्र बोधना-
दात्मनः परमात्मत्वेनोपासनायां मोक्ष एव फलमिति सिध्यति । तथा च फलस्यापि वाक्यतात्पर्य-
निर्णायकत्वान्मोक्षरूपेण फलेनात्मोपासनबोधकश्रुतितात्पर्यं निर्णीयते । अतः श्रुतिसिद्धत्वान्न
मोक्ष इति न वक्तुं शक्यमिति 'भावोनेन सूत्रेण बोध्यते । अत आत्मनः परमात्मत्वेनो-
पासनं प्रतीकोपासनमिति तवाभिमतमसङ्गतमित्यर्थः ।
अस्मिन् पक्षे आत्मत्वेनोपासनस्याप्रतीकोपासनत्वाज्ज्ञानभक्त्योः फलवत्ता यद्यप्यायाति,
तथापि न हीति पदद्वयं सूत्रे व्यर्थं स्यादित्यतः प्रकारान्तरेण सूत्रं व्याकुर्वन्तोवतारयन्ति । अथवे-
त्यादि । तदिति । उपासनम् । उपासनस्य फलं च 'ब्रह्मैव सन् ब्रह्माप्येती'ति श्रुत्युक्तस्तस्मिन्
ब्रह्मण्युपासकस्य जीवस्य प्रवेश इति त्वयापि वाच्यम् । अन्यथा उपासनविधानस्य वैय-
रश्मिः ।
भवति प्रविष्टोपि । यद्वा । एकैकेनेति तृतीयान्तम्। एकैकेन प्रतीकेन वेदनं न भवतीत्यर्थः । सर्व-
भावेति । कृत्स्नत्वे सर्वभावः सर्वत्वमात्मोपासने भवतीति कृत्स्नत्वं सर्वभावस्य पूर्वकक्षा। भावपदेन
सर्वत्वेन भावो भक्तिर्भवतीत्युक्तम् । पूर्वकक्षेति । सर्वात्मकब्रह्मभवनस्य पूर्वकक्षा । 'तद्यो यो
देवानां प्रत्यबुध्यत स एव तदभवत्तथर्षीणां तथा मनुष्याणा'मिति श्रुतेः । तत् तस्मात् प्रत्यबुध्यत
आत्मानं यथावत् प्रबोधितवान् । तदभवत् सर्वात्मकं ब्रह्माभवत् । अग्रे 'तद्वै तत्पश्यन्नि'ति श्रुतिः
बृहदारण्यके पुरुषविधब्राह्मणे । शाण्डिल्येति । छान्दोग्ये 'असौ वा आदित्यो देवमध्वि'त्यार-
म्भके प्रपाठकेस्ति । ब्रह्मभावरूपमिति । एतमभित इति श्रुतावेतमात्मानं इतः प्रपञ्चात् प्रेत्य सृ-
त्येत्यभिसम्भवितास्मीति श्रुत्यर्थात्। अभिसम्भविता प्राप्ता। अभितः सम्बन्धानवगाहि ज्ञानं ब्रह्म तदपि
प्राप्ता । समिति सम्यक्त्वं सर्वरूपत्वेन, विपरीतं वा । अत उक्तं ब्रह्मभावरूपमिति । ब्रह्मात्मनो-
र्ब्रह्मणो मुख्यत्वप्रसिद्धेः । श्रुतिसिद्धत्वादिति भाष्यं विवृण्वन्तिस्म । अत इति । आरोपितत्वात्
मिथ्यात्वेन मोक्षासाधकत्वात् । परमात्मत्वेनेति । आरोहितेन । असङ्गतं मोक्षाजनकत्वात् । न
चा'सत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहत' इति मोक्षोपपत्तिरिति शङ्क्यम् । 'स्वयमेवात्मनात्मानं
वेत्थे'ति स्मृतिविरोधात् । अतोसत्ये वर्त्मनीत्येकः पक्षो न सर्वथा । अप्रतीकोपासनयेति ।
चित्तशुद्धिद्वारेति ज्ञेयम् । षष्ठ्यन्तपाठे तु ज्ञानविशेषणम् । फलं चेति भाष्यं विवृण्वन्ति स्म ।
उपासनस्येति । 'ब्रह्मैव स'न्निति श्रुतिः शारीरब्राह्मणेस्ति । त्वयापीति । आवरणभङ्गातिरिक्तमन-
ङ्गीकुर्वंस्तोऽभिद्रेन । यद्वा । त्वयाप्यसदाग्रहेण वाच्यम् । उपासनेति । अर्थवादत्वेपि उक्त-
युक्तियुक्तवेदाः प्रमाणमिति । उपपत्तिमिति पाठो व्याकृतः । अनुपपत्तिमितिपाठे तु इति शेष इति भाष्ये

२२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० २ सू० ५.
पत्तिमाह । न प्रतीकेनात्मभूते ज्ञानिन उपगमः पूर्वोक्तः प्रवेशः सम्भव-
तीति शेषः । भक्तिमार्गेपि तामाह न हि स इति । न हि प्रतीकोपासने स
लोकवेदप्रसिद्धः पुरुषोत्तमोस्त्युपास्यत्वेन, येन तत्प्राकट्यं स्यात्, तदुपगमनं
वेत्यर्थः । एवं ज्ञानभक्त्योः फलसत्ता साधिता ॥ ४ ॥
ननु 'सर्वं खल्विदं ब्रह्म,' 'आत्मैवेदꣳ सर्व'मित्यादिश्रुतयः सर्वत्र ब्रह्मदृष्टिं
मुक्तिसाधनत्वेनोपदिशन्ति, सा च प्रतीकात्मिकेवेति कथं प्रतीकोपासनस्य न
मोक्षसाधकत्वमिति प्राप्त उत्तरमाह ।
भाष्यप्रकाशः ।
र्ध्यापत्तेः । एवमात्मोपासनस्य फलवत्त्वे सति आदौ पूर्वं ज्ञानमार्गेनुपपत्तिम्, एकदेशोपासनेन
फलाभावबोधिकां युक्तिमाहेत्यर्थः । उपगच्छन्तीति पूर्वसूत्रादनुवृत्त्य न प्रतीक इति सूत्रभाग-
स्यार्थमाहुः । न प्रतीक इत्यादि । प्रतीक इति । अनात्मभूते मनआदौ ब्रह्मत्वेनोपासिते
प्रतीकत्वान्न ब्रह्मणि प्रवेशः फलम्, किन्तु मनआद्युपासनाभूतमेव । अत्र तु ब्रह्मणि प्रवेशस्योप-
पादितत्वान्न प्रतीकत्वमित्यर्थः । शेषमवतार्य व्याकुर्वन्ति भक्तीत्यादि । तथा च यदिदं प्रतीको-
पासनं न स्यात्, अत्रोपास्यः पुरुषोत्तमो न स्यात् । यतोत्र पुरुषोत्तम एवात्मत्वेनोपास्यः, न
त्वात्मा पुरुषोत्तमत्वेन । उपक्रमे सृष्टिकर्तृत्वरूपब्रह्मलिङ्गेन, अग्रे च 'आत्मानं प्रियमुपासीते'ति
विशेषकथनेन, ईश्वरत्वकथनादिना च तथा निश्चयात् । अतो नेदं प्रतीकोपासनमित्यर्थः । सिद्ध-
माहुः एवमित्यादि । तथा च मोक्षफलकं ज्ञानिनामात्मत्वेनोपासनं न प्रतीकम् । अकृतकृत्यवार-
णार्थत्वात् । भक्तानां चात्मत्वेनोपासनं पुरुषोत्तमपर्यवसायीत्यतोपि न प्रतीकम् ।
अतः पूर्वोक्तं तवाभिमतमसङ्गतमित्यर्थः । एवमप्रतीकोपासनेन ज्ञानभक्त्योः फलवत्त्वे
सिद्धे तयोरनावृत्तिफलकत्वेन तदङ्गभूतकर्मणोप्यनावृत्तावेव पर्यवसानमित्यपि बोध्यम् ॥ ४ ॥
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥ सूत्रमवतारयन्ति नन्वित्यादि । मुक्तिसाधनत्वेनेति ।
परम्परया साक्षाच्च तत्साधनत्वेन । सा च प्रतीकात्मिकेवेति । ब्रह्मकार्ये ब्रह्मांशे च ब्रह्म-
दृष्टिरूपत्वात्तथा । तथा चेदं वाक्यद्वयं छान्दोग्यस्थम् । तत्र प्रथमं शाण्डिल्यविद्यास्थम् । तेन
शुद्धान्तःकरणस्याग्रे 'यस्य स्यादद्धे'त्यनेन भगवत्प्राप्तिरूपं फलमुक्तम् । द्वितीयं सनत्कुमारनारद-
संवादस्थम् । तत्रापि, 'न पश्यो मृत्युं पश्यती'त्यादिना 'तमसस्पारं दर्शयती'त्यन्तेन मुक्ति-
रश्मिः ।
अपि तु न सम्भवतीति काकुर्बोध्या । अनुवृत्त्येति । अत्र क्त्वो ल्यपः स्थानिवद्भावेन कित्त्वं स्वीकृतम्,
अतो न गुणः । न प्रतीक इत्यादीति । न प्रतीक इत्येकं पदमित्याशयेनाहुः । अनात्मभूत इति ।
शेषमिति । न हि स इति तत्र शेषम् । भक्तीत्यादीति । तामित्युपपत्तिं, अनुपपत्तिं च
पाठान्तरे । न हीति । भक्तिहंसे स्पष्टम् । पुरुषोत्तमस्य भक्त्येकविषयत्वेनोपास्यत्वाभावात् । उपगमनं
पूर्वसूत्रादनुवृत्तोपगच्छन्तिपदप्रकृत्यर्थः । पर्यवसानमिति । उद्देश्यभेदेन चित्तशुद्ध्यर्थं कृतेन कर्मणा
ज्ञानभक्तिद्वारानावृत्तिरिति तथा ॥ ४ ॥
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥ तेनेत्यादीति । 'सर्वं खल्विदं ब्रह्मे'त्युपासनेन ब्रह्मदृष्टिरूपेण ।
अग्रे श्रुत्यग्रे । भक्तिफलं 'यस्य स्यादद्धा प्रत्यक्ष'मितिवाक्येन प्रत्यक्षे ऽयन्नियमात्, भगव-
त्प्राप्तिरू'मित्यर्थः । अतिमुक्तिः मुक्तिरूपमिति । सर्वात्मभावप्रकरणादतिमुक्तिरूपम् । आत्मनोथोपनि-
2140

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९३
ब्रह्मदृष्टिरुत्कर्षात् ॥ ५ ॥
सर्वत्र ब्रह्मदृष्टिर्न प्रतीकात्मिका । सर्वस्य वस्तुतो ब्रह्मात्मकत्वात् । सा न
नोपदेशसाध्या, अतो नोपदिश्यते, किन्त्वनूद्यते । सा त्वधिकारोत्कर्षात्
भाष्यप्रकाशः ।
रूपमेव फलमुक्तम् । तयोपासनद्वयमपि प्रतीकरूपम् । सर्वरूप आत्मनि प्राणाद्येकदेशदृष्टिवद् ब्रह्म-
कार्यरूपे जगति ब्रह्मांश आत्मनि च ब्रह्मदृष्टिरुपतयातद्रूपे तत्त्वेनोपासनरूपत्वात् । ततश्च मुक्ति-
रुक्तेति प्रतीकेनापि मुक्तिसिद्धौ फलेन विषयेण च निर्णयाभावादात्मत्वेनोक्तेर्मोक्षफलकत्वोक्तेश्च
तादृशप्रतीकनिवारकत्वकथनं न साधीय इत्याशङ्कायामुत्तरमाहेत्यर्थः । सूत्रं व्याकुर्वन्ति सर्वत्रे-
त्यादि । सर्वस्मिन् प्रपञ्चे या ब्रह्मदृष्टिः, सा न प्रतीकात्मिका । कार्यस्य कारणात्मकत्वेन
प्रपञ्चस्य ब्रह्मात्मकतया वस्तुतो ब्रह्मात्मक

स्त एव भवतीति प्रतीकोपासनस्य न मुक्तिसाधनत्वमिति साधूक्तम् । एतद्दे-
वोक्तमनेन सूत्रेण ॥ ५ ॥ २ ॥
इति चतुर्थाध्याये प्रथमपादे द्वितीयमात्माधिकरणम् ॥ २ ॥
भाष्यप्रकाशः ।
तीत्यभिप्रायेण । एवं 'मनो ब्रह्मेत्युपासीते'त्यादावपि मनो ब्रह्म इति हेतोस्तत्रोक्तफलायैवोपासी-
तेत्येवमुपासनाहेतुत्वेनानूद्यते, न तु विषयत्वेनोपदिश्यते । सा त्वेवं ज्ञात्वोपासने क्रियमाणे-
धिकारोत्कर्षात् स्वत एव भवति । अतस्तत्र मुक्तिफलकथनेन तदुक्तेषु प्रतीकेषूपासनेषु न
मुक्तिफलकत्वसिद्धिः, अतः पूर्वोक्तं साध्वेवेत्यर्थः । तथा चोपासनावाक्यगतस्यात्मशब्दस्य प्रती-
कोपासननिवृत्त्यर्थत्वात् सर्वत्रात्मदृष्टेरप्रतीकत्वादात्मशब्दब्रह्मशब्दयोरैकार्थ्यात् सर्वत्र ब्रह्मदृष्टौ
साक्षात्परम्परया च मोक्ष एव फलमिति ज्ञानभक्त्योरनावृत्तिफलकत्वमप्रत्यूहम

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७५
भाष्यप्रकाशः ।
शास्त्रात् प्रतिमासु विष्णुदृष्टिवत् स्वात्मनस्तत्तादात्म्यदृष्टिः कर्तव्या, न तु संसारिणो मुख्य आत्मा
परमेश्वर एवेति प्रापयितव्यम् । एवं प्राप्ते, उच्यते । आत्मैत्येव परमेश्वरः प्रतिपत्तव्यः । यतः
परमेश्वरप्रक्रियायां जाबाला आत्मत्वेनैवेनमुपगच्छन्ति, 'त्वं वा अहमस्मि भगवो देवते अहं
वै त्वमसि भगवो देवते' इति ।
तथा अन्येपि 'अहं ब्रह्मास्मी'त्येवमादाय आत्मत्वोपगमा द्रष्टव्याः । ग्राहयन्ति चात्म-
त्वेनैवेश्वरं वेदवाक्यानि । 'एष त आत्मा सर्वान्तरः', 'एष त आत्मान्तर्याम्यमृतः', 'तत् सत्यं स
आत्मा तत्त्वमसी'त्येवमादीनि । यदुक्तं प्रतिमान्यायेन प्रतीकं भविष्यतीति । तदयुक्तम् । गौण-
त्वप्रसङ्गात् । 'मनो ब्रह्मेत्यादित्यो ब्रह्मे'त्यादौ सकृदेव तद्वचनेन, इह चाहं त्वं त्वमहमित्यस-
कृद्वचनेन प्रतीकश्रुतिवैरूप्याच्च । 'अथ योन्यां देवतामुपास्तेन्योसावन्योहमिति न स वेद,
मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यती'ति, 'सर्वं तं परादाद्योन्यत्रात्मनः सर्वं वेदे'त्या-
दिषु भेददर्शनापवादाच्च । न च विरुद्धगुणयोरन्योन्यात्मत्वासम्भवः शङ्क्यः । विरुद्धगुणत्वस्य
मिथ्यात्वोपपत्तेः । नापीश्वराभावः शङ्क्यः । शास्त्रप्रामाण्यान्नास्वामीश्वरस्य संसारित्वाप्रतिपादनेन
संसार्यात्मनः संसारित्वापोहेनेश्वरत्वप्रतिपादनस्य क्रियमाणत्वेन तदभावात् । नाप्यधिकार्य-
भावः, प्रत्यक्षविरोघो वा । प्राक्प्रबोधाद्धि व्यवहारे संसारित्वस्य तद्विषयकप्रत्यक्षस्य चाङ्गीकारेण
विरोधाभावात् । 'यत्र त्वस्य सर्वमात्मैवाभूत्तत् केन कं पश्ये'दित्यादिना प्रबोधदशायामेव श्रुत्या
प्रत्यक्षाद्यभावबोधनात्तदानीं च श्रुत्यभावस्यापि, 'अत्र पिता अपिता भवती'त्युपक्रम्य, अग्रे 'वेदा
अवेदा' इति वचनेन वेदाभावस्यापीष्टत्वात् । यदपि कैश्चिदविद्याया ब्रह्मणः सद्वितीयत्वादद्वैतानु-
पपत्तिरिति शङ्क्यते, तदप्येतेनैव प्रत्युक्तम् । तस्मादात्मेत्येवेश्वरे मनो दधीतेति शाङ्करा आहुः ।
तन्न रुचिरम् । परमात्मन्यहङ्ग्रहोपासने साध्ये प्रमाणत्वेनात्मत्वोपगमस्य वक्तुमयुक्तत्वात् ।
परमात्मनि मुख्यवृत्तस्यात्मपदस्य 'सर्वं खल्विदं ब्रह्म,' 'इदं सर्वं यदयमात्मा आत्मैवेदं सर्व'-
मित्यादिश्रुतिभिः सर्वस्य ब्रह्मत्वे बोधिते सर्वसङ्ग्राहक तया स्वप्रत्यग्विचिद्वेद्यवाचकाहमपदतो
रश्मिः ।
वस्तत्तादात्म्यं तस्य दृष्टिः । मुख्य इति । सोपाधिको गौणो मुख्यत्वनिरूपकः । विरुद्धेति । अपहत-
पाप्मत्वापहतपाप्मत्वयोः । तद्भावादिति । ईश्वराभावशङ्काभावात् । प्रबोधाज् ज्ञानात् । तद्वि-
षयकेति । संसारिविषयकप्रत्यक्षस्य । प्रत्यक्षादीति । आदिनाधिकारी । एतेनेति । मिथ्यात्वोप-
पादनेन । परमात्मनीति । जीवे ब्रह्मोपासनानिषेधात् परमात्मनोधिष्ठानत्वमुक्तम् । परमते परमात्म-
विषयके, 'अहमस्मि ब्रह्माहमस्मि' इत्याद्यर्थवादत्वानङ्गीकारादहंग्रहोपासनं तस्मिन् । तत्रापि 'ब्रह्मा-
हमस्मी'ति । ब्रह्मणः प्रसिद्धेः । 'अहं ब्रह्मास्मी'त्यत्र भवन्मये ब्रह्मज्ञानाधीनविद्यासम्बन्धाधीनत्वादस्म-
च्छब्दप्रयोगस्य 'ब्रह्माहमस्मी'ति प्रबोधे सुकरत्वात् । प्रमाणत्वेनेति । अहङ्ग्रहोपासनश्रुतौ ह्यनधि-
गतार्थगन्तृत्वं प्रमाणम् । जीवस्यात्मत्वेनोपगमस्तस्येति, आत्मोपगमस्य प्रमाणत्वं शब्दार्थयोरेात्पत्तिक-
कसम्बन्धात् । सर्वैति । आत्मपदस्यात्मत्वेन सर्वसङ्ग्राहक तया । स्वप्रत्यगिति । स्वमात्मा प्रत्यग् जीव-
स्तस्य वित्तिर्ज्ञानं तद्वेद्यः प्रादेशिकः, 'अङ्गुष्ठमात्रो रवितुल्यरूपः कामाहङ्कारसमन्वितो यः, बुद्धेर्गुणेनात्म-
गुणेन चैव आराग्रमात्रो ह्यपरोपि दृष्टः', इति श्रुतेर्बुद्ध्यादिगुणेषु प्रदेशेषु भवः प्रादेशिको जीवः ।
१. श्रुतौ पश्यतीत्यदाविति शेषः । 2143
४ ब्र० सू० २०

१६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ४ पा० १ अ० २ सू० ५.
भाष्यप्रकाशः ।
भिन्नार्थत्वेऽहम्पदार्थमात्रत्वप्रमित्यजनकत्वात् । अथ 'आत्मैवेदमग्र आसी'दित्यपक्रम्य 'सोहम-
स्मी'त्यग्रे व्याहरत्ततोहंनामा अभव'दिति श्रुतेः पर्यायत्वान्न दोष इत्युच्यताम् । तथा सति तेन
तदहंवित्तिवेद्यत्वगुणकोपासनं सेत्स्यति, न तु तस्य स्वाभेदपर्यवसायित्वाहंवित्तिवेद्यत्वगुणकम् ।
ततश्च किमहमिति ग्रहीतव्यः, किं वा मदन्य इति संशयाकारासङ्गतिः । तत्रासत्पदाभ्यां प्रति-
शरीरं भिन्नस्य स्वाहंवित्तिवेद्यस्यैव बोध्यमानत्वात् । न चोपाधेर्मिथ्यात्वात् तदनादरेण घटाकाश-
महाकाशन्यायात्तयोरभेदस्यैव सिद्धेर्न दोष इति वाच्यम् । मिथ्यात्वेपि यावद्व्यवहारं तत्स-
त्त्वायां भेदाभावस्योपगन्तुमशक्यत्वात् । न च जाबाल

भाष्यप्रकाश-रश्मि-परिवृंहितम् । २७
भाष्यप्रकाशः।
अत एव, 'एष त आत्मे'त्यादिषु ग्राहणवाक्येष्वप्यात्मपदमेवोक्तम्, न तु, त्वम्पदमहम्पदं
वेति युज्यते । किञ्च । आत्मनः स्वप्रत्यग्विचित्त्वेद्यस्य च सर्वथा भेदाभावे, 'अथातोऽहङ्कारादेश'
इत्यनन्तरं 'अथात आत्मादेश' इति पुनर्नोपदिश्येत । तस्मात् स्वात्मेश्वरयोर्भेदविरुद्धभावाभेदे-
नैवोपासना युक्ता, न तु भेदाभावरूपेणाभेदेन । एवमेव श्रीभागवतेप्युच्यते । 'आत्मानं
चिन्तयेदेकमभेदेन मया मुनि'रिति, न तु स्वाभेदेन मामिति । 'अथ योन्यां देवतामुपास्तेन्यो-
सावन्योहमिति न स वेद यथा पशुरेवं हि स देवाना'मिति भेदोपासननिन्दापि, न हि
निन्दान्यायेन पूर्वोक्ताभेदोपासनास्तुत्यर्थत्वादुपपन्ना । एवमन्यान्यपि वाक्यानि बोध्यानि ।
एवञ्च प्रतिमाद

Here is the complete, accurate line-by-line transcription in pure Markdown with line markers:

दृष्टिर्न कार्येत्युक्तम् । तत्रापि मनआद्युपासनस्य प्रतीकत्वमेवायुुक्तम् । 'सर्वं तं परादाद्योऽन्यत्रा-
त्मनः सर्वं वेदे'ति सर्वत्राभेददृष्ट्यर्थं भेददृष्टिनिन्दाङ्गीकारेण भवतामपि सिद्धे सर्वस्य ब्रह्मात्मकत्वे
मनआदीनामपि तथात्वात्पुरुषाङ्गे पुरुषबुद्धिवत् प्रतीकत्वाभावात् । अथ, 'अङ्गं प्रतीकोऽवयव'
इति कोशादङ्गोपासनैव प्रतीकोपासनेतीष्यते, तदा तु ॐमिति ब्रूमः ।
रामानुजाचार्यास्तु, तुशब्दोऽवधारणे । उपासितुरात्मत्वेवोपास्यम् । उपासिता प्रत्य-
गात्मा स्वशरीरस्य स्वयं यथात्मा तथा स्वात्मनोऽपि परं ब्रह्मात्मेत्येवोपासीत । कुतः । एवं ह्युप-
गच्छन्त्युपासितारः । 'त्वं वा अहमस्मि भगवो देवते अहं वै त्वमसी'ति । उपासितुरर्थान्तरभूतं
ब्रह्म उपासितारः कथमित्युपगच्छन्तीत्यत्राह । ग्राहयन्ति चेति । इति

"भक्तिमार्गीयस्य"!
भ - क्ति - मा - र्गी - य - स्य!
YES! Look at the letter:
It is NOT 'अङ्किकि'!
It is:
'भ' (bha)
'क्ति' (kti) with hrasva i-matra!
'मा' (mā)
'र्गी' (rgī)
'य' (ya)
'स्य' (sya)!
"भक्तिमार्गीयस्य नेदं युज्यत इत्यरुच्या"!!
WOW, amazing!
"अत्राङ्गोपासनाफलस्योक्तत्वाभावाद् भक्तिमार्गीयस्य नेदं युज्यत इत्यरुच्या विषयवाक्यमन्यदाहुः"
"Because the fruit of anga-upasana is not stated here, this is not appropriate for one belonging to the bhakti-marga, hence dissatisfaction..."
And look at the next lines:
"छान्दोग्ये मधुविद्यायाम् ।"
And look at line 11:
"ज्ञानभक्तिसम्बन्धिनीनामुपासनानां फलमुक्त्वा..."
And line 22-23:
"ज्ञानभक्तीत्यादि । ज्ञानफलं आत्मेति ज्ञानम् । ... भक्तिमार्गफलं पुरुषोत्तमसमीपगमनम् ।"
Yes, absolutely, 100% it is "भक्तिमार्गीयस्य"!
What an excellent catch! It made no sense as "अङ्किकिम

सर्वेषां फलसिद्धेः, पृथक्पृथगुक्तौ गौरवात्, प्रयोजनविशेषाभावाच्च । तादृशाधि-
काराभावात् पृथक् तदुक्तिरिति चेत् । न । सर्वत्र सदा तद्भावनायां तथानुभव-
स्यापि सम्भवात् । एवं सति वस्तुतः सर्वस्य ब्रह्मत्वं नाभिमतम्, किन्तु यथा-
दित्यादीनां तत्तथा, तथा सर्वस्यापीति प्रतीकोपासनत्वमेव सर्वत्र । तेनैव फल-
मिति प्राप्ते प्रतिवदति ।
आदित्यादौ या ब्रह्मत्वमतय उच्यन्ते, तास्तु साकारस्यैव ब्रह्मणो व्यापक-
त्वात् तस्य प्रत्येकमप्यङ्गमुपासितं फलद‌मित्येकैकाङ्गविषयिण्यस्ता विधीयन्ते ।
उपपन्नं चैतत् । न हि साकारव्यापकब्रह्मणोऽङ्गं न ब्रह्म, अतो न प्रतीकोपा-
सनत्वं तत्र ।
भाष्यप्रकाशः ।
प्रयोजनविशेषसत्तामाशङ्कते तादृशेत्यादि । तादृशाधिकाराभावादिति । उत्कृष्टाधिकारा-
भावात् । तथा च येषां न सर्वत्र ब्रह्मत्वेन स्फूर्तिः, तदर्थं पृथगादित्याद्युपासनोक्तिरित्यर्थः ।
समाधत्ते नेत्यादि । सर्वत्र तद्भावनायां तया उपनयेनोपनीतमानरूपस्य ब्रह्मानुभवस्यापि सम्भ-
वात् । एवं सतीति । अधिकाराभावेप्युक्तरीत्या सर्वत्र ब्रह्मदर्शनसम्भवेप्येवं पृथगुपासनो-
पदेशे सति । वस्तुत इत्याद्युक्तरीत्या तत्तथा उपासनं प्रतीकम्, तथा सर्वस्यापि ब्रह्मत्वेनोपा-
सनमपि प्रतीकम् । तेनैव चित्तशुद्धिद्वारा मुक्तिरूपं फलं सम्भवतीति पूर्वसूत्रद्वयोक्तमयुक्तमिति
प्राप्ते प्रतिवदति । आदित्याद्युपासनानामङ्गोपासनत्वेन फलवत्त्वं वदन् तासु तदुक्तप्रतीकरूपत्वं
परिहरतीत्यर्थः । सिद्धान्तं वक्तुं सूत्रं व्याचष्टे । आदित्येत्यादि । एकैकाङ्गविषयिण्य
रश्मिः ।
प्रतियोगिज्ञानरूपप्रयोजनविशेषसत्ताम् । उत्कृष्टेति । ब्रह्मत्वदृष्ट्यधिकारः ह्यादित्यवायुघटपटप्रतिमादिषु
तस्याभावादेकप्रकारेणोपासनस्य पृथगुक्तिः । तेन ह्यादित्यवायुघटपटादिरूपौपमन्यवसत्ययज्ञेन्द्रद्युम्न-
कुलालकुविन्दफलानां तूष्णीकं विचारो ज्ञानमार्गोपयोगी । भक्तिमार्गे तु घटपटादिकार्यस्य ब्रह्मत्व-
मात्मकृतज्ञतासम्पादकम् । कृत्स्नोपासनया तादृशाधिकारे प्रेम, 'श्रेयोभिर्विविधैर्भाक्तैः कृष्णे भक्तिर्हि
साध्यत' इतिवाक्यात् । तदर्थमिति । औपमन्यवसत्ययज्ञेन्द्रद्युम्नार्थम्, न तु वामदेवार्थम् ।
उपनयेनेति । उपनयः समीपानयनं यथा शाब्दं ह्युपनीतं मन्तव्यमितिशङ्कायां श्रोत्रसमीपे शब्दे-
नार्थनयनं श्रावणं प्रत्यक्षमिति । तेनेत्यर्थः । उपनीतस्य ब्रह्मणो मानं तद्रूपस्य । उक्तरीत्येति ।
उपनीतमानरूपत्वेन ब्रह्मदर्शनमिति रीत्या । आदित्यादीनां पृथक् तदनन्तर्गतत्वेनोपासनोपदेशे सति ।
तत्तथेति व्याख्येयम् । उपासनं प्रतीकम् । तथा सर्वस्येतिभाष्यमाहुः तथा सर्वस्येति ।
पूर्वसूत्रेति । 'न प्रतीक' 'ब्रह्मदृष्टि'सूत्रद्वयोक्तं प्रतीकोपासनस्यामुक्तिजनकत्वम् । तास्विति ।
अङ्गोपासनासु । पूर्वपक्ष्युक्तप्रतीकरूपत्वम् । आदित्येत्यादीति । उच्यन्त इति । छान्दोग्ये
उच्यन्त इति । साकारस्येति । विराजः । 'सर्वं खल्विदं ब्रह्म'ति विषयवाक्ये भाष्ये विराज उक्तेः
'सर्वत्र प्रसिद्धोपदेशा'दित्यत्र । ननु 'न हि स' इति भागे भक्तिमार्गे पुरुषोत्तमोक्तेः 'साकारब्रह्म-
वादैकव्यापक' इति श्रीसर्वोत्तमग्रन्थोक्तेर्विराट्सङ्गः साकारत्वं कथमिति चेत् । न । अधोक्षजत्वेपि
'यतो वाच' इतिश्रुतेरिमित्थंतया यावद्धर्मप्रतिपादकत्वेपि परब्रह्मणो जगदभिन्ननिमित्तोपादानत्वेन
ह्याकारजगत्समवायिनः साकारत्वात् । साकाराद्देवदत्ताज्जायमानस्य तत्पुत्रस्य साकारत्वदर्शनात् ।

ामेव"?
Look at line 24:
च (ca)
क्षु (kshu)
then: ष् (sh) ?
Wait, look at: "चक्षुषामेव"?
च - क्षु - षा - मे - व (cakṣuṣām eva)!
Not "चक्षुष्पामेवं"! It is:
च (ca)
क्षु (kshu)
षा (shaa)
मे (me)
व (va)
रूपत्वात् (roopatvaat)
"चक्षुषामेव रूपत्वात् ।"
Yes! चक्षुस् in genitive plural = चक्षुषाम्! "चक्षुषामेव रूपत्वात्"!

Let's check line 25:
मिति । 'मनेर्घश्छन्दसी'तिसूत्रेण ज्ञानार्थकस्य मनेर्घप्रत्यय औणादिकः । देवस्य 'अन्तस्तद्धर्मा'धि-
Wait, Panini/Unadi: 'मनेर्घश्छन्दसि' (Uṇādi 4.137 / 4.138: 'मनेर्घश्छन्दसि')
Yes, 'मनेर्घश्छन्दसी'ति सूत्रेण...
Line 26:
करणोक्तस्यादित्यान्तःस्थस्य नारायणस्य मधु ज्ञानकर्तृ द्वादशस्कन्धप्रसिद्धम् । त्रयीरूपत्वाद्वा । अतो
Wait: द्वादशस्कन्धप्रसिद्धम् -> द्वाद

३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० ३ सू० ६.
भाष्यप्रकाशः।
मधुत्वं मधुनाडीत्वम् । 'प्राच्यो मधुनाड्य' इत्यादिश्श्रुतेः । तासां मधुप्रधानत्वान्मधुत्वम् । ऋचां
मधुकृत्त्वम्, ऋग्वेदस्य पुष्पत्वम् । तासामेव ऋचाममृतता ब्रह्मरूपत्वम्, ताभिर्ऋग्वेदतापम्,
रश्मिः।
विवक्षितत्वात्। पूञ्पवने, सम्पदादि क्विप्, अपूपं पाति पिबति वा । आतोनुपेति कः । पिष्टस्य विकारः ।
संज्ञायामिति कन् । 'पिष्टको घृतपूपादौ नेत्ररोगान्तरेपि चे'ति विश्वः । 'पिष्टको नेत्ररोगे स्याद्धा-
न्यादिचमसेपि चे'ति पाठान्तरम् । धान्यादिपानपात्रं नानावृक्षा रसाश्रया अप्यपूपः । तेन 'यथा मधु-
मधुकृतो निस्तिष्ठन्ती'त्यत्रोक्तनानावृक्षरसातृत्वं मधुकृतां न विरुद्धम् । तद्वदन्तरिक्षं तत्रादित्यरश्मी-
रूपोन्तरिक्षसाध्यक्षे वायौ खसमवायिनि समवायेन स्थित्वा 'वायव्या वै पशव'इत्युक्तेः पशून् अश्वान्
रथद्वारा भुङ्क्ते । ऋचोपि भुञ्जते आदित्यद्वारा । 'वायुः शब्दतामापद्यत' इति प्राचां प्रवादात् ।
अत्रेदं प्रतिभाति । अवयवा ऋगादयः न तूष्णीमादित्यमवयविनमारभन्तेपि तु मधुत्वम् ।
आदित्यस्य सिद्धत्वात् । मधुत्वान्तर्गतज्ञानं च किंविषयकमित्यपेक्षायामन्तरिक्षे ये वायव्याः पशवः
राधाकृष्णवराहाः । पञ्चमाष्टके 'आदित्यः पशुरासीत्तेनायजन्त, अग्निः पशुरासीत्तेनायजन्त, वायुः
पशुरासीत्तेनायजन्ते'ति श्रुतावुक्तेः । आदित्यः कृष्णः पशुः पश्यतीति पशुः द्रष्टा अग्निः, निरुक्ते
देवपत्नीनामसु सूर्यपाठाद् राधा । वराहः वायुः । हिरण्यगर्भनस्तो 'वराहतोको निरगा'दिति श्रीभाग-
वते । तथा च मधुत्वान्तर्गतज्ञानं पशुविषयकमिति भावोत्र । अधिकारस्कन्धानन्तरं ज्ञानस्कन्धः ।
तादृशज्ञानविषयत्वेन तृतीयस्कन्धे वराहपशुसर्गपुरःसरं सर्ग उक्तः । ततो राधाकृष्णपशुनिरोधपुरःसरं
सामान्यतो निरोधः प्रपञ्चविस्मृतिपूर्वकभगवदासक्तिलक्षणकनिरोधो व्याख्यात इति । स्कन्धचतुष्टय-
व्याख्याशयः । मरीचयः पुत्रा इति । मधुकृतां पुत्रा अपि मधुकृतस्तद्वन्मरीचयः किरणाः दीप्तयोपि
आदित्यमधुकृतः । तथाहि । आदित्योपां पुष्पं तेजस्तु भगवदीयं पुत्रवत् किरणदीप्तिरूपम् । 'अजा-
यमानो बहुधा विजायत' इति श्रुतेरधिकारिणं 'पुन्नाम्नो नरकात् त्रायत' इति पुत्रपदव्युत्पत्तेः पाल-
कम् । अन्यथा बन्धप्राप्त्या नाधिकारं कुर्यात् । 'देवो वः सविता प्रार्पयतु श्रेष्ठतमाय कर्मण' इति
संहितोक्तम्, तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाड्यः । अत्रत्यं प्रतीकमाहुः । प्राच्य
इत्यादि । तस्यादित्यस्यावयवरूपरसाश्रयस्य सवितुर्ये प्राञ्चः पूर्वदिग्गता रश्मयः । ता एवास्यादित्यस्य
प्राच्यो मधुनाड्यः । प्रसिद्धमधुरूपार्णवादित्यमधुरूपच्छिद्राणि । ऋचामिति । ऋच एव मधुकृत इति
श्रुत्यर्थः । भ्रमरा इवर्षः समवायित्वं मधुनि भ्रमराणां आदित्ये ऋचाम् । 'एषा त्रय्येव विद्या तपती'-
तिश्रुतेः । 'ऋग्वेद एव पुष्प'मितिश्रुत्यर्थमाहुः ऋग्वेदस्येति । नारायणविशिष्टादित्यस्य पुष्टिद्वारोपासन-
फलत्वं सूचितमित्यादित्यमधुनरूपेण वेद ऋग्वेदः पुष्पं अर्थरूपफलसत्ताविशिष्टम् । वेदयति साधनफले
अलौकिके इति वेदः । 'ता अमृता आप' इति श्रुत्यर्थमाहुः तासामेवेति । प्रसिद्धमधुनः द्रव्यभूय-
स्करस्वरूपापां लक्षणवत्त्वात् प्रकृते आप उक्ताः । ता इति विधेयलिङ्गम् । पुष्पं फलसत्ताकमिति ।
आदित्यमधुपीता आपः अमृताः अमृतपदवाच्या मुख्यफलजनकत्वात् । एवं च तासामपामेव या रुचो
दीप्तयः तासाममृता आपः इतीति शेषः । इति हेतोर्ब्रह्मरूपत्वम् । ऋग्वेदस्य शब्दस्यार्थरूपत्वम् । 'अथ
वेद' इति शब्दरूपत्वं वा । 'ता वा एता ऋच एतमृग्वेदम्भ्यतपं'न्निति श्रुत्यर्थमाहुः ताभिरिति ।
ता वै मधुकृतः वै निश्चयेन एताः पुष्परूपाः कार्यकारणाभेदात् । ऋग्वेदं स्वं रूपं गहनार्थवत्त्वेन
तापयुक्तमकरोत् । आधिदैविके तापः सम्भवति । 'मृदब्रवी'दितिवत् । 'तस्याभितप्तस्य यशस्तेज
2150

+त+रा=तत्रात्तेतराभावादाह! Wait, why would it be त्तेतरा? Wait, could it be तत्रास्तेतरा? No. Wait! What if the letter is NOT त? What if it is: तत्रात्रेतरभावादाह? No. What if it is: तत्रानेतराभावादाह? Wait, could it be तत्रान्नेतराभावादाह? Wait! In Chhandogya, the prior discussion: The gods don't eat or drink. Why? Because they only see the amrita and are satisfied! "अन्नाद्यं रसः" was discussed earlier! "तत्र अन्नेतराभावात्" -> there, since there is no food other than this amrita, he says... Wait, "तत्रान्नेतराभावादाह"? Let's look at न्ने: न्+न+े. Yes! In old fonts, न्+नoften looks like a double-decker or ligature that resemblesत्त! Wait, look at line 23: नन्दाद्याःLook at line 14:गृह्णन्तिLook at line 28:तात्पर्यार्थविषयेणLook at line 32: afterदाह: नैतन्नश्नन्तिor

अन्यधर्मनिवृत्तिः, तस्यैव स्वतन्त्रपुरुषार्थत्वेन ज्ञानमतिशयितस्नेहजविगाढभावेन
तत्रैव लयः, पुनस्तद्दर्शनानन्दानुभवार्थं भगवानेव कृपया पुनः पूर्वभावं सम्पा-
दयतीति तस्माद्रूपाद्युदयश्च । एतत्सर्वं भगवदङ्गत्वे एवोपपद्यत इत्यपि हेत्वभि-
प्रेतोऽर्थो ज्ञेयः। न हि प्रतीकत्व इदं सर्वं सम्भवति । भक्तिमार्गीयत्वादस्यार्थस्येति-
भावः । अङ्गानां भगवत्स्वरूपात्मकत्वेनैक्यमिति ज्ञापनायैकवचनम् । एतेन
स्वरूपस्यैव फलत्वमुक्तं भवतीति मुख्यः सिद्धान्तः सूचितो भवति ॥ ६ ॥
भाष्यप्रकाशः।
तथा चेत्यादि । अन्यधर्मनिवृत्तिरिति । प्राणधर्मरूपक्षुदादिनिवृत्तिः । हेत्वभिप्रेतोर्थ
इति । हेतुबोधके उपपत्तिपदेऽभिप्रायगोचरोऽर्थः । तदुपपादयन्ति न हीत्यादि। ज्ञानमार्ग एवा-
न्धत्वादिदोषः, न भक्तिमार्ग इत्यपि सूचितम् । शेष

भाष्यप्रकाश-रश्मि-परिवृंहितम्। ३६
आसीनः सम्भवात् ॥ ७ ॥
पूर्वसूत्रेण धर्ममात्रस्य फलत्वमुक्त्वा, अधुना धर्मिणः फलत्वं तत्साधनं
चाह सम्भवात् । उत्कटस्नेहात्मकसाधनस्य सम्भवात् तदधीनः सस्तदग्रे
आसीनो भगवान् भवति । एतेन भक्तवश्यतोक्ता ॥ ७ ॥
एवं बहिःप्राकट्यमुक्त्वा आन्तरं तदाह ।
ध्यानाच्च ॥ ८ ॥
भावानौत्सुक्यदशायां व्यभिचारिभावात्मकसततस्मृतिरूपध्यानादपि हृदि
प्रकटः सन्नासीनो भवतीत्यर्थः। तेन स्थैर्यमुक्तं भवति ॥ ८ ॥
एवं भक्तेच्छयैव स्वरूपप्राकट्यमित्युक्त्वा लीलानाविष्करणमाविष्करणं
चापि तदिच्छयैवेत्याह ।
अचलत्वं चापेक्ष्य ॥ ९ ॥
भक्तेच्छामपेक्ष्याचलत्वम्, चकाराच्चलत्वमपीत्यर्थः ॥ ९ ॥
भाष्यप्रकाशः।
आसीनः सम्भवात् ॥ ७ ॥ सूत्रमवतारयन्ति पूर्वसूत्र इत्यादि । पूर्वसूत्रे चक्षुरादि-
रूपस्यादित्यादेर्धर्मस्य प्राप्यत्वेन फलत्वमुक्त्वास्मिन् सूत्रे धर्मिणो भगवत एव तदुपासनफलत्वं
तत्प्राप्तिसाधनं चाहेत्यर्थः । व्याकुर्वन्ति सम्भवादित्यादि । भगवदङ्गत्वज्ञानपूर्वकयादित्याद्यु-
पासनया उत्कटस्नेहसम्भवात् तथा, न तु तदभावेपीत्यर्थः । एतेन ज्ञानमार्गेणामीदृशस्नेहाभावा-
न्नासीनो भवति, किन्तु परोक्षज्ञानविषयो भवतीत्यपि बोधितम् । सिद्धमाहुरेतेनेत्यादि ॥ ७ ॥
ध्यानाच्च ॥ ८ ॥ सूत्रमवतारयन्ति एवमित्यादि । तदिति । प्राकट्यम् । व्याकुर्वन्ति
भावेत्यादि। स्थैर्यमुक्तं भवतीति। एतेन ज्ञानमार्गे एतादृशस्यापि भावस्याभावादस्थैर्यमित्यपि
बोधितम् ॥ ८ ॥
अचलत्वं चापेक्ष्य ॥ ९ ॥ सूत्रमवतारयन्ति एवं भक्तेत्यादि । अस्मिन्नपि सूत्रे अपे-
क्ष्येति कथनाज्ज्ञानमार्गीयस्योपासनामपेक्ष्य वाऽचलत्वादिकं बोध्यम् ॥ ९ ॥
रश्मिः।
आसीनः सम्भवात् ॥ ७ ॥ उक्त्वेति । अभिधायोक्त्वा, व्यञ्जनया तु धर्म्यप्युक्त
एव । आहेति । अभिधायाहेत्यर्थः । परोक्षेति । 'भक्त्याहमेकया ग्राह्य' इतिवाक्यात् तथा ॥ ७ ॥
ध्यानाच्च ॥ ८ ॥ भावेत्यादीति । भावना न सन्न्यासनिर्णयोक्तत्वाद्विप्रयोग एव, संयोग-
व्यभिचारिभावसततस्मृतिरूपत्वस्य वक्ष्यमाणत्वात् । ऐकाग्र्ये मनोनिवेशस्य ध्यानस्य साधनदशायां
सत्त्वम् । फले तन्न निविष्टम् । अत एव सततपदम् । एतादृशस्येति । भक्तिरसे व्यभिचारिभावा-
त्मकस्यान्तर्बहिःस्थित्या स्थैर्ययुक्तस्य । किन्त्वक्षरविषयकं ज्ञानं सोहमिति तस्य 'कृष्णोऽहं पश्यत गति'-
मित्यत्रोक्तसदृशस्य । अस्थैर्यमिति । तादृशे स्थैर्यभिन्नो धर्म उक्तः, आन्तरमात्रत्वात् ॥ ८ ॥
अचलत्वं चापेक्ष्य ॥ ९ ॥ उपासनमपेक्ष्येति । यावदुपासनं तावदित्यर्थः ।
अचलत्वेति । आदिना चलत्वम् ॥ ९ ॥
2153

३६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ४ पा० १ अ० ३ सू० १०.
स्मरन्ति च ॥ १० ॥
केचन भक्ताः स्वरूपनिरपेक्षास्तत्स्मरणजनितानन्देनैव विस्मृतापवर्गान्तफला
भवन्ति । चकाराच्छ्रवणकीर्तनादयोपि समुच्चीयन्ते । तदुक्तं 'अथ ह वा व तव
महिमामृतसमुद्रविप्रुषा सकृल्लीढया स्वमनसि निष्यन्दमानानवरतसुखेन विस्मा-
रितदृष्टश्रुतसुखलेशाभासाः परमभागवता' इति । अथवा । 'अहं भक्तपराधीन'
इत्यादिसमृतिः पूर्वोक्ते प्रमाणत्वेनोक्ता ॥ १० ॥
इति चतुर्थाध्याये प्रथमपादे तृतीयमादित्याद्यधिकरणम् ॥ ३ ॥
भाष्यप्रकाशः
स्मरन्ति च ॥ १० ॥ अनेन साधनानन्तरमुक्तमित्याहुः केचनेत्यादि । अत्र भाष्यमति-
रोहितार्थम् ।
एवञ्चात्रादित्यसूत्रोक्ते मनने आसीनसूत्रेण विशेष उक्तः, ध्यानसूत्रोक्तनिदिध्यासने
चाचलत्वसूत्रेणेति ज्ञेयम् । अनेनाधिकरणेन आदित्याद्यङ्गविषयिणीनामुपासनानां जघन्याधिकारिषु
फलदानद्वारा भगवन्माहात्म्यप्रतिपादनेन तत्र भक्तिजननद्वारा सर्वात्मभावरूपज्ञानाङ्गत्त्वमपि
प्रतिपादितम् । तेन तासामपि परम्परया तदेव फलमिति सिद्धम् ।
अन्ये तु, आदित्यादिमतिसूत्रमधिकरणान्तरत्वेनोक्त्वा तत्र 'य एवासौ तपति तमुद्गीथ-
मुपासीते'त्यादिषु कर्माङ्गोपासनेषु किमादित्यादिषूद्गीथदृष्टिः कार्या, किं वोद्गीथादिष्वादित्या-
दिदृष्टिः, दृष्टेरनियमो वेति संशये, उद्गीथादिष्वङ्गेष्वेवादित्यादिदृष्टयः कार्या इति सिद्धान्तयन्ति ।
आसीन इत्यादिकं चतुःसूत्रमधिकरणान्तरमुक्त्वा तेष्वेवासननियमोस्ति न वेति संशये, आसीन
एवोपासीतेति नियमं सिद्धान्तयन्ति । तत्रोदासीना वयम् ॥ १० ॥
इति तृतीयमादित्याद्यधिकरणम् ॥ ३ ॥
रश्मिः।
स्मरन्ति च ॥ १० ॥ अनेनेत्यादि सूत्रेण । साधनं भक्तेच्छालीलाविष्करणे तदन्यत्
साधनं 'अहं भक्तपराधीन' इति भगवत्सङ्कल्पस्तद्रूपं साधनानन्तरम् । आदित्येति । मतिपदेनादित्य-
सूत्रोक्ते । विशेष इति । आसीनत्वविषयकमनने विशेषः । निदिध्यासन इति । सततस्मृति-
रूपे । ध्यानधारणयोः स्मृतौ सातत्याभावात् । अचलत्वेनेति । भक्तेच्छापेक्षत्वरूपो विशेषो भगव-
त्युक्तः । लीलाः पूर्वं नित्यलीलास्थानामनूदितास्तत्र प्रवेशस्तु व्रजभक्तभावेन भजने भवति, तत्र
तु सर्वात्मभावोपीति तमाहुरनानेनेति । फलदानेति । तत्तद्देवतासायुज्यफलदानद्वारा । तत्रेति ।
भगवति । सर्वात्मभावेति । प्रदानसिद्धसर्वात्मभावेत्यादि । ज्ञानत्वं तु । सर्वात्मभावरूपं ज्ञान-
मिति 'लिङ्गभूयस्त्वा'धिकरणग्रन्थात् । न च 'प्रदानवदेव'तिसूत्रात् प्रदानमात्रात् साध्यत्वं सर्वात्मभाव-
सेति शङ्क्यम् । पूर्वसाधनवते दानस्याविरुद्धत्वात् । तदेवेति । सर्वात्मभाव एव फलम् । तदिति
विधेयलिङ्गात् । कर्माङ्गेति । 'यदेव विद्यया करोति' इतिश्रुतेर्विद्योपासनकृतिं करोति । कृतिः कर्म ।
तेषु कर्माङ्गोपासनेषु । अनियम इति । अभितः पक्षद्वयेपि यमो नियमः । इति संशये त्रिकोटि-
कसंशये । अङ्गेष्वेवेति । उद्गीथाद्यङ्गेषु । 'रसाना ५ रसतमः परमः पराद्ध्योऽर्ह्योऽयमुद्गीथ' इत्यादिष्व-
ङ्गिनः । तेष्वेवेति । उपासनेष्वेव, एवकारेण योगयोग्यव्यवच्छेदः । उदासीना इति । योगं विनासन-
विचाराप्रसङ्गादसङ्गतो विचार इति तथेत्यर्थः ॥१०॥ इति तृतीयमादित्याद्यधिकरणम् ॥३॥
१. अभिनयम इति रश्मिपाठः ।
2154

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७

यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥ (४-१-४.)
अथैवं विचार्यते । बहिराविर्भावो येभ्यो, येभ्यश्चान्तस्तेषां तेषां च
मिथस्तारतम्यमस्ति, न वेति । तत्र निर्णयमाह । यत्र भक्तेषु एकाग्रता
भगवत्स्वरूपे प्रकट एवैकस्मिन् ग्राहकचित्तधारा, न त्वन्तर्बहिर्विज्ञानम्, तत्रो-
भयोर्न्तःपश्यतो बहिःपश्यतश्च भावे भगवत्स्वरूपे च विशेषाभावान्न तारतम्य-
मस्तीत्यर्थः ॥ ११ ॥
इति चतुर्थाध्याये प्रथमपादे चतुर्थं यत्रैकाग्रताधिकरणम् ॥ ४ ॥
आप्रायणात्तत्रापि हि दृष्टम् ॥ १२ ॥ (४-१-५.)
उक्तेऽर्थ एवायं संशयः । अन्तःप्राकट्यवतो यदा बहिःसंवेदने सत्यपि
पूर्वानुभूतभगवत्स्वरूपानुभवः, तदा पूर्वमन्तरन्वभूवम्, अधुना बहिरनुभवामी-
त्यनुव्यवसायो भवति, न वेति । तत्र वैलक्षण्याद्भवितुमर्हतीति पूर्वः पक्षः ।
तत्र सिद्धान्तमाह आप्रायणादिति । श्रीभागवते, 'प्रायणं हि सतामह'मिति
भाष्यप्रकाशः।
यत्रैकाग्रता तत्राविशेषात् ॥ ११ ॥ एतत्स सूत्रसाधिकरणत्व