अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
इस ग्रन्थ के बारे में
अणुभाष्य महाप्रभु वल्लभाचार्य (जन्म १४७९ ई.) का ब्रह्मसूत्र पर लिखा भाष्य है, जो शुद्धाद्वैत वेदान्त और पुष्टिमार्ग का आधार-ग्रन्थ है। वल्लभाचार्य के मत में ब्रह्म माया से सर्वथा अछूता है, जगत् ब्रह्म का वास्तविक कार्य है, और श्रीकृष्ण की अनुग्रह-रूप पुष्टि-भक्ति मोक्ष का श्रेष्ठ मार्ग है। यह भाष्य वल्लभाचार्य पूरा नहीं कर सके थे; इसका शेष अंश उनके पुत्र गोस्वामी विट्ठलनाथ ने पूरा किया।
ब्रह्मसूत्र के चार अध्याय हैं — समन्वय, अविरोध, साधन और फल — और भाष्य इन्हीं के क्रम में चलता है। इस संस्करण में अणुभाष्य के साथ गोस्वामी पुरुषोत्तमजी की प्रसिद्ध टीका 'भाष्यप्रकाश' और उस पर 'रश्मि' नाम की उप-टीका भी दी गई है, जिससे शुद्धाद्वैत की पारम्परिक व्याख्या पूरे विस्तार से सामने आती है।
स्कैन किए गए आरम्भिक पृष्ठों के अनुसार इसका सम्पादन और भूमिका मूलचन्द्र तुलसीदास तेलीवाला की है, और गोस्वामी श्री श्याम मनोहरजी महाराज ने नई भूमिका लिखी है। अंग्रेज़ी भूमिका में वल्लभाचार्य के जीवन, उनकी यात्राओं (विजयनगर, काशी, अडैल) और उनके दर्शन का परिचय है। पूरे ग्रन्थ में लगभग २६०० पृष्ठ हैं।
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४१
ननूक्तं तस्य तथा साक्षात्कारात् तादृशश्रुतेश्च नैकविधत्वमङ्गीकर्तुं शक्यत
इति । नैष दोषः । प्रकाशश्च कर्मणि । तपःप्रणिधानादिकर्मणि भगवतः प्र-
काशः । तत्र यथा तेषां कामः, तथा प्रकटीभवति । चकारादप्रकाशोऽन्यथाप्र-
काशो । तत्र हेतुः । अभ्यासादावृत्तेः । यद्येकवारं प्रकटः स्यात्, तदा तद्रूपत्व-
मङ्गीक्रियेतापि । प्रतिभक्तं प्रतिकर्म चाविर्भावः । अतः प्रकाशोपि कृत्रिम एव ।
दीपप्रकाशवत् । अन्यथा सर्वदा स्यात् । तस्मान्न भक्तप्रत्यक्षेण निर्णयः ॥ २५ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
फलितमाह । अतः अभ्यासात् । अनन्तेन अनन्तरूपेण आविर्भावः । न
ह्येकं वस्तु प्रतिक्षणमन्यादृशं भवति निमित्तभेदव्यतिरेकेण । क्वचित् भक्तका-
म
' ? No:
ता (1) त्प (2) र्ये (3) नो (4) च्छे (5) दा (6) प (7) त्तेः (8)
Wait, let's look at the characters:
ता (1)
त्प (2)
र्यो (3) - wait, is it र्यो?
No, it has: ता-त्-प-र्यो-च्छे-दा-प-त्-तेः - wait, let's count:
ता त्प र्ये नो?
Wait, there is a letter with 'े' and then 'नो'?
No, look at: "तात्पर्येणोच्छेदापत्तेः"?
Wait! 'णो'? 'नो'? It has a loop on the left: 'नो'.
Wait, why not just read what is visible?
"तात्पर्येनोच्छेदापत्तेः"
धर्माश्रयत्वे तात्पर्यवृत्तेर्ज्ञापनाथमित्यर्थः । श्रौतपदस्वारसिकार्थो व्यर्थः सन् किञ्चिज्ज्ञापयति तात्पर्यवृत्ति-
रस्तीति । श्रुतित्वादेवकारः । श्रुतिज्ञापितं सर्वथादरणीयमिति । तच्चेति । विरुद्धधर्माश्रयत्वम् । निर्णी-
तमिति । शास्त्रे योनिः शास्त्रयोनिः शास्त्रोक्ताभिन्ननिमित्तोपा
यहाँ पृष्ठ की प्रत्येक पंक्ति का देवनागरी में लिप्यन्तरण प्रस्तुत है:
भाष्यप्रकाश-रश्मि-परिवृंहितम्। १४३
तत् कथं स्वरूपशक्त्या निर्णयः। ब्रह्म तूभयरूपम् । उभयव्यपदेशात् । उभय-
रूपेण निर्गुणत्वेनानन्तगुणत्वेन सर्वविरुद्धधर्मेण रूपेण व्यपदेशात् । तर्हि कथ-
मेकं वस्त्वनेकधा भासते । तन्नाह । अहिकुण्डलवत् । यथा सर्प ऋजुरनेकाकारः
भाष्यप्रकाशः।
निर्णय इत्यर्थः । एवं तुशब्दं व्याख्याय शेषं व्याकुर्वन्ति ब्रह्मेत्यादि । न केवलं स्वरूपशक्त्या
निर्णीयते, किन्तु श्रुत्युपष्टम्भ्येत्यतो हेतुं विवृण्वन्ति उभयेत्यादि । उभयोर्विरुद्धधर्मयोर्व्यपदेश
उभयव्यपदेशस्तस्मात् । यत्रैवास्थूलादिवाक्ये निर्गुणत्वेन व्यपदिश्यते, तत्रैव 'आकाश ओतश्च
प्रोतश्चे'ति कथनात् कार्यगुणजनकत्वानन्तगुणवत्तापि बोध्यते । तथा, यत्र शारीरब्राह्मणे 'स एष
नेति नेत्यात्मा, अगृह्यो न हि गृह्यत' इत्युच्यते, तत्रापि 'स वा अयमात्मा सर्वस्य वशी सर्वस्ये-
शान' इत्यादिकं पूर्वमुच्यते । 'स वा एष महानज आत्मा अन्नादो वसुदान' इति चानन्तरम् ।
एवं श्वेताश्वतरेपि 'साक्षी चेता केवलो निर्गुणश्चे'त्युक्त्वा, 'एको वशी निष्क्रियाणां बहूनामेकं
बीजं बहुधा यः करोती'त्यादि । तथा तत्रैव 'ततो यदुत्तरतरं तदरूपमनामय'मित्येतदग्रे, 'सर्वा-
ननशिरोग्रीवः सर्वभूतगुहाशय' इति । एवं तैत्तिरीयेपि 'यदेकमव्यक्तमनन्तरूप'मिति, तथा 'विश्व-
तश्चक्षुरुत विश्वतोमुख' इत्यादि चोक्तम् । 'कृत्स्नः प्रज्ञानघन एवे'त्यस्यार्थस्तु प्रागेवोक्तः । तथा
'अथात आदेश' इत्यस्यापि । एतेष्वेवंविधेष्वन्येष्वपि उभयरूपेण व्यपदेशात् । तथाचास्थूलादिवा-
क्यस्य धर्मनिषेधमुखेनेव 'विश्वतश्चक्षु'रित्यादेर्धर्मविधिमुखेनापि ब्रह्मस्वरूपस्यैव निरूप्यतया धर्म-
विधिद्वारा तन्निषेधद्वारा च निरूपकाणां मध्ये एकस्योपजीव्यत्वमन्तरङ्गत्वम्, अन्यस्योपजीवकत्वं
बहिरङ्गत्वमिति निर्णेतुमशक्यत्वेनोभयवाक्ययोस्तुल्यबलत्वादुभयरूपमेव ब्रह्मेत्यर्थः । दृष्टान्तमव-
तारयन्ति तर्हीत्यादि । यद्युभयलिङ्गं ब्रह्म, तदा संराधनसिद्धानां सर्वेषां तथैव प्रकाशेत, न तु
कञ्चित् प्रति कथञ्चित्, अन्यं प्रत्यन्यथा, अत एकं वस्तु कथमनेकधा भासते, तत्र हेतुर्वक्तव्यः,
रश्मिः।
चेत् । न । तात्पर्यवृत्तिविषयस्य विरुद्धधर्माधारत्वस्य तेन प्रकारेणाज्ञानेऽज्ञानरूपत्वादन्यथाज्ञानरूपत्वा-
चाज्ञानान्यथाज्ञानयोरन्तर्भावात् । तत्कथमिति भाष्यं विवृण्वन्ति स्म अत इति । तच्छक्तेरिति ।
वेदपदशक्तेः । इत्यर्थ इति । निर्णयशब्दान्तभाष्यर्थः । स्वरूपेति । प्रमेयबलेन । उभयव्यपदेशश्रु-
त्युपष्टम्भेन । हेतुमिति । स्वरूपं न यथाश्रुतिप्रतिपाद्यं संज्ञतेः मूर्तामूर्तब्राह्मणवत् । स्वरूपं यथाश्रुति-
प्रतिपाद्यं उभयव्यपदेशात् अहिकुण्डलवदित्यत्र सप्रतिपक्षत्वसाधके हेतुम् । यत्रैवेत्येवकारो विरुद्धधर्मा-
धारत्वेन प्रतिपादनसूचक इत्युक्तम्। यत्रान्यत्र धर्मनिरूपणमन्यत्र निषेधस्तत्रारोपापवादसङ्गतिसन्देहोपी-
त्युक्तम्। कार्येति । 'आकाशशरीरं ब्रह्म'तिश्रुतेः 'आकाशो वै नामरूपयोर्निर्वहिते'ति तथा। बोध्यत इति ।
व्यञ्जनया बोध्यते । पूर्वमिति । स्पष्टम्। अनन्तरमिति । 'स एष नेति नेत्यात्मे' त्यस्या अनन्तरम् । प्रागे-
वेति । 'आह च तन्मात्र'मितिसूत्रभाष्यप्रकाशे 'दर्शयति' चेतिसूत्रभाष्यप्रकाशे च । एवकारश्च पश्चाद्योगव्यव-
च्छेदकः । एवंविधेष्विति । 'अपाणिपादो जवनो ग्रहीते'त्यादिषु । धर्मविधिमुखेनेति । धर्मवि-
धानं तत्कथनं तेनोपादेयेन । एवेति । 'वेदैश्च सर्वैरहमेव वेद्य' इति श्रुतेरेवकारः । एवेति । अवधारणं
यथा भवति तथा । एकरूपत्वयोग्यव्यवच्छेदको वा। तथैवेति । सर्वरूपवत्वेन, नत्वेकेन तत्तत्संराधकं
१. आरोपापवादरूपायाः।
1679
१४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ८ सू० २७.
कुण्डलञ्च भवति, तथा ब्रह्मस्वरूपं सर्वप्रकारं भक्तेच्छया तथा स्फुरति । कल्प-
नाशास्त्रे हीदं बाधकम् । अनेककल्पनागौरवं चेति । न तु केवलं श्रुत्येकसमधिगम्ये ।
न च शास्त्रवैफल्यम् । एवं साधनार्थत्वात् । अत्रैव हि सूरिव्यामोहादन्यशास्त्रो-
त्पत्तिः । अतः सर्वविरुद्धधर्माणामाश्रयो भगवान् । न हि प्रमाणश्रुतदृष्टे अनुप-
पत्तिरस्ति, यदर्थं युक्त्यपेक्षा । लोकेपि शरीरान्तःकरणादीनि परस्परविरुद्ध-
भाष्यप्रकाशः।
नो चेद्दर्शनस्याप्रामाण्यं वक्तव्यम्, ततश्च सर्वमेव शिथिलमिति शङ्कायां दृष्टान्तेन समाधिमाहेत्यर्थः ।
दृष्टान्तं व्याकुर्वन्ति यथेत्यादि । भवतीति । तथा सामर्थ्यस्य विद्यमानत्वात् स्वरूपतस्तथास्ति ।
इदमिति । एकस्यानेकधा भानम् । यद्यपि सर्पः कालभेदेन स्वेच्छया तथा तथा भवति, ब्रह्म
[
यामारकत्वादीनि विषयभेदेनेकस्मिन्नपि क्षणे प्रतीयन्ते । तस्मात् सकलविरुद्धधर्मा
भगवत्येव वर्तन्त इति न कापि श्रुतिरुपचरितार्थेति सिद्धम् ॥ २७ ॥
इति तृतीयाध्याये द्वितीयपादेऽष्टमं प्रकाशादिवच्चेत्यधिकरणम् ॥ ८ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ (३. २. ९.)
धर्मस्वरूपविचारेण पूर्वोक्तपक्षद्वयं स्थापयितुमधिकरणारम्भः ।
ननु धर्मा नाम के, ब्रह्मणो भिन्नास्तत्कार्यरूपाः, आहोस्वित् ब्रह्मैवेति संशयः ।
तत्र लोके कार्यस्यैव पटरूपादेस्तद्धर्मत्वात् समवेतत्वात् तन्नित्यतायां प्रमा-
भाष्यप्रकाशः।
तथात्वम् । एतेन 'तत्तद्वपुः प्रणयस' इत्यत्र प्रणयनं तत्तद्धर्मनोविषये प्रापणमेव, न तु करणमिति
बोधितम्। एतच्च 'श्रुतेस्तु शब्दमूलत्वात्' 'सर्वोपेता च तद्दर्शनात्' 'लोकवत्तु लीलाकैवल्य'मित्या-
दिषु यदुक्तम्, तस्यैवेह निगमनमिति न कोपि शङ्कालेशः । सिद्धमाहुः तस्मादित्यादि । एवञ्च
शब्दबलविचारेण विरुद्धसर्वधर्माश्रयो ब्रह्मेति निर्णयः । श्रुत्युक्तयुक्त्या विचारे तु लौकिकध-
र्मशून्यमलौकिकसर्वधर्मयुक्तमिति निर्णयः । अर्थबलविचारे तु विरुद्धसर्वरूपमिति निर्णय इति
बोधनार्थमत्र त्रेधा विचारितम् ॥ २७ ॥ इत्यष्टमं प्रकाशादिवच्चेत्यधिकरणम् ॥ ८ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ अधिकरणप्रयोजनमाहुः धर्मेत्यादि । पूर्वोक्त-
पक्षद्वयमिति । पूर्वाधिकरणे निर्गुणमनन्तगुणपूर्णं च ब्रह्म सिद्धम् । तत्र ये गुणा धर्मास्तेषां स्वरूप-
विचारेण पूर्वोक्तपक्षद्वयम् । शब्दबलविचारसिद्धः 'प्रपञ्चविलक्षणविरुद्धसर्वधर्माधारं ब्रह्मे'त्येकः ।
अर्थबलविचारसिद्धः 'सर्वरूपं ब्रह्म तत्तत्फलदित्सया तत्तत्कार्यार्थं वा तं तं प्रति तथाविर्भवती'त्यपर
इत्येतत्पक्षद्वयं स्थापयितुं तथेत्यर्थः । विषयसंशयावाहुः नन्वित्यादि । धर्मवत्त्वश्रवणमद्वितीय-
श्रुतिश्च सन्देहबीजम् । पूर्वपक्षमाहुः तत्रेत्यादि । ब्रह्मधर्माणां स्वरूपे विचारणीये लौकिकमेव
प्रमाणमनुसर्तव्यम् । श्रुतौ तन्नित्यत्वस्यानुक्तत्वात् । तत्राप्यनुमानमेवाप्रत्यक्षत्वादार्तव्यम् ।
रश्मिः।
स्पष्टम् । 'यन्मनसा ध्यायति तद्वाचा वदति यद्वदति तत्करोती'ति श्रुतेः । तथात्वमिति । एकस्मिन्क्षणे
प्रतीतिविषयत्वम् । प्रतीतिकर्तृत्वं वा । प्रणयनमिति । यत्तद्वपुर्धर्मनोविषये स्थूलदेहे सृष्टे सूक्ष्मप्रापणं गोवि-
न्दावेश इत्यर्थः । एवेति । 'तत्सृष्ट्वा तदेवानुप्राविश'दिति श्रुतेरेवकारः । पुनरुक्तिं वारयन्ति स्म एतच्चेति ।
यदुक्तमिति । द्वितीयाध्याये यदुक्तम् । तस्यैवेहेति । एवकारोऽन्ययोगव्यवच्छेदकः । इहास्मिन्सूत्रे
निगमनं उभयव्यपदेशादिति हेतुघटितत्वात् । तस्माच्चेति निगमनवत् । तस्मादित्यादीति । उपच-
रितार्थेति । गौणार्था ॥ २७ ॥ इत्यष्टमं प्रकाशादिवच्चेत्यधिकरणम् ॥ ८ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ सर्वकल्पनेति । पूर्वपक्षिमतम् । एवकारो
विरुद्धधर्मरूपान्ययोगव्यवच्छेदकः । विरुद्धेति । सिद्धान्तिमतम् । एवकारः सर्वकल्पनाराहित्यरूपा-
न्ययोगव्यवच्छेदकः । नन्वित्यादीति । ब्रह्मैवेत्येवकारो भिन्नरूपान्ययोगव्यवच्छेदकः । लौकि-
कमेवेति । एवकारेण श्रुतिप्रमाणयोगव्यवच्छेदः । अविनाशीतिश्रुतेरन्योर्थ इति । कार्यस्यैवेति ।
१. सर्वकल्पनारहितमेव ब्रह्म पञ्चाद्धर्मयुक्तं भवतीत्येकः । विरुद्धधर्माधारमेव ब्रह्मोक्तं तत्तत्फलदित्सया तत्तत्कार्यार्थं वा
तं तं प्रति तथा तथाविर्भवतीत्यपर इत्येतत्पक्षद्वयम्-इति मूले पाठः ।
ब्र० सू० २० १९
1681
१४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८.
णाभावात् स्वाभाविकत्वमात्रेण नित्यत्वकल्पनायां गौरवापत्तेः 'एकमेवाद्वितीय'-
मिति श्रुतिविरोधाच्च धर्माः प्रपञ्चवत् कार्याः, तथा सति ब्रह्म सर्वकल्पनारहित-
मेव सेत्स्यतीत्येवं प्राप्ते, इवमुच्यते। प्रकाशाश्रयवद्वा । वाशब्दः पक्षं व्यावर्त-
यति । यथा प्रकाशाश्रयाः सूर्यादयः प्रकाशेन न भिन्नाः । पृथक्स्थित्यभावात् ।
समवेतत्वाच्च । मूलाविच्छेदरूपेण तदाधारतया स्थितत्वाच्च । नापि सूर्य एव ।
भाष्यप्रकाशः ।
लोके च कार्यस्यैव पटरूपादेस्तद्धर्मत्वात् तत्समवेतत्वाच्च धर्मत्वलिङ्गके दृष्टान्ताभावेन, नित्यव-
स्तुसमवेतत्वलिङ्गके चानुमाने आकाशत्वस्य दृष्टान्तस्य सत्त्वेपि शब्दादिदृष्टान्तेन हेतोः
साधारणतया तन्नित्यतायां प्रमाणाभावात् । स्वाभाविकत्वं हेतूकृत्याकाशत्वं दृष्टान्तीकृत्य तन्मात्रेण
साधने यद्यपि तत् सिध्यति, तथापि तत्कल्पनायां नित्यवस्त्वन्तरसिद्ध्या गौरवापत्तेरद्वितीयश्रु-
तिविरोधाच्च गौरवस्थाप्रामाणिकत्वात् तथेति । 'तद्व्यक्तमाह ही'त्यनेनोक्त एव पक्ष आदरणीय
इत्यर्थः । समाधिं व्याकुर्वते इदमित्यादि । प्रकाशाश्रयवदिति । प्रकाशस्याश्रयाः प्रकाशा-
श्रयास्तैस्तुल्यम् । प्रथमार्थे वतिः । सूत्रं व्याकुर्वन्ति वाशब्द इत्यादि । पूर्वाधिकरणेऽहि-
कुण्डलदृष्टान्तेनैकस्य ब्रह्मणः सधर्मकत्वनिर्धर्मकत्वसिद्ध्या धर्मानामपि ब्रह्मरूपत्वमेव सिद्धम्, अत्र
तु धर्मधर्मिणोर्भेदाभेदः साध्यते । अन्यथाैतत्सूत्रवैयर्थ्यमेव स्यात् । भिन्नाभिन्नत्वं कार्यकारण-
भावेन पटतद्रूपयोर्धर्मधर्मिभावेन जातिव्यक्त्योर्दृष्टम् । तत्र वाशब्दः प्रथमं पक्षं व्यावर्तयति ।
ब्रह्मतद्धर्मो कार्यकारणभावेनैक्यरूपौ न भवतः, किन्तु यथा प्रकाशाश्रयाः सूर्यादयः प्रकाशेन
सह न भिन्नाः, न विनाभूताः, नित्यसहचारिण इति यावत् । तत्र हेतुः । पृथक्स्थित्यभावात् ।
एवं प्रकाशोपि न सूर्यादिविनाभूत इत्यर्थबलाज्ज्ञातव्यम् । तदेतत् 'समवेतत्वाच्चे'ति चकारेण
समुच्चिन्वन्ति । तत्र हेतुः । समवेतत्वादिति । अयुतसिद्धत्वात् । तज्जन्यधर्मेष्वप्यस्तीति तथा-
त्ववारणाय हेत्वन्तरमाहुः मूलाविच्छेदेति । सर्वेपि भगवद्धर्मा भगवद्विनाभूता भगवदविभक्ता
इत्यर्थः । अत्र यद्यपि पृथक्स्थित्यभावादित्यनेनैव तथात्वसिद्धावपि यद्धेतुद्वयमुक्तम्, तेन प्रपञ्च-
स्याक्षरस्य च भिन्नाभिन्नत्वं निबन्धोक्तं स्मारितम् । एवमभेदे मानमुक्त्वा भेदे मानमाहुः नापी-
त्यादि । प्रकाश इति शेषः । चकार आधाराधेयभावस्य 'परास्य शक्ति'रित्यादिषष्ठीनिर्देशस्य च
रश्मिः ।
एवकारः कारणान्ययोगव्यवच्छेदकः । तद्धर्मत्वादिति । तन्तुमृदादिधर्मत्वात् । तावत्तन्तुकपालादि-
समवेतत्वात् । यद्वा । धर्मी नित्यः धर्मत्वादित्यनुमाने दृष्टान्ताभावेन । धर्मी नित्यः नित्यवस्तुसमवेतत्वात्
आकाशत्ववदित्यत्र । शब्दादीति । एकदेशिमतेन शब्दादि द्रष्टव्यम् । पक्षभिन्ननिश्चितसाध्यवत्त्वं
दृष्टान्तत्वम् । तेन शब्दादिषु पक्षभिन्नेषु निश्चितसाध्यवत्सु । नित्यवस्तुसमवेतत्वरूपहेत्वभावः साध्य-
व्यापकत्वसाधकः । तेनादिशब्दार्थवशे साध्याभाववति नित्यवस्तुसमवेतत्वरूपहेत्वभावात्साधारण्यं साध्या-
भाववद्वृत्तित्वरूपम् । ननु नाकाशदृष्टान्तः निश्चितसाध्यवत्त्वाभावादिति चेन्न । न शब्दादिदृष्टान्ते हेतोः
साधारणता, किन्तु शब्दशब्दस्मारिताकाशहेतोः साधारणता प्रसङ्गः पुरुष इति तथेत्यर्थात् । स्वाभा-
विकत्वेति भाष्यं विवृण्वन्ति स्म स्वाभाविकत्वमिति । धर्मा नित्याः स्वाभाविकत्वात् आकाश-
त्ववत् । नित्यवस्त्विति । जातिसिद्धा । एतादृशत्वम् । भेदे इति सतिसप्तम्यन्तम् ।
भेदसामानाधिकरण्य एतादृशत्वं भिन्ननिष्ठम् । तथेत्यग्रेतनभाष्योक्तम् । अत्रैवकारः विरुद्धधर्माधारत्वकल्प-
1682
भिन्नप्रतीतेर्विद्यमानत्वाच्च । तादृशमेव तद्वस्तूत्पत्तिसिद्धमिति मन्तव्यम् ।
कल्पनायामपि यथा सूर्यप्रकाशयोः कल्पना, एवं ब्रह्मधर्मयोरपि । न ह्यन्यथा
वेदप्रवृत्तिर्निषेधशेषता सत्यज्ञानानन्तानन्दपदानां सामानाधिकरण्यं वा सम्भ-
वति । लक्षणायां तु सुतरामेव धर्मापेक्षा । अतो विशिष्टपदार्थ एव तादृशो वेद-
समुच्चयकः । तेन सिद्धमाहुः तादृशमित्यादि । प्रकाशरूपं वस्तु मूलाद्भिन्नमप्यभिन्नमेवोत्पत्ति-
सिद्धमिति मन्तव्यम् । युक्तिभिरनुचिन्तनीयम् । यथा अमित्रो न मित्रम्, न मित्राभावः, किन्तु
मित्रविरुद्धसम्पत् । यथा चाविद्या न विद्या, न विद्याभावः, किन्तु विद्याविरुद्धं भावरूपमज्ञानम्,
एवं प्रकाशतदाश्रययोरभेदोपि न भेदः, न भेदाभावः, किन्तु भेदविरुद्धसम्पदेव भावरूप इति
विभावनीयम् । सा च सम्पत्, भावरूपत्वे सति स्वाश्रयाविनाभूतत्वं तद्विहायावर्तमानत्वमिति
यावत् । न चेतादृक्त्वमन्योन्याभावरूपे भेदेस्तीति । तथाच कल्पनायामपि यथा सूर्यप्रकाश-
योस्तादात्म्यरूपस्य भेदविरुद्धसम्पदोऽभेदस्य कल्पना, एवं ब्रह्मधर्मयोरपि परबोधनाय कार्ये-
त्यर्थः । नन्वत्र का वा उपपत्तिर्येन धर्माणां सदा सत्तामङ्गीकृत्य तादृशोऽभेदः कल्प्यत इत्यत
आहुः न हीत्यादि । यदि हि स्वाभाविकधर्मसत्तानभ्युपगम्य सर्वविशेषशून्यमेव ब्रह्माङ्गीक्रियते,
तदा केवलचिन्मात्रत्वेन प्रतिपिपादयिषितस्य ब्रह्मणः सकाशात् 'अस्य महतो भूतस्य निःश्वसि-
तमेतद्यदृग्वेद' इत्यादिना श्राविता चेतनधर्मरूपा वेदप्रवृत्तिर्न सम्भवेत् । 'अथात आदेश'
इत्यत्र पराभिमता निषेधशेषतापि न सम्भवेत् । तस्या अपि विशेषत्वात् । 'सत्यं ज्ञानमनन्तं
ब्रह्मे'ति स्वरूपलक्षणश्रुतौ 'विज्ञानमानन्दं ब्रह्म'तिश्रुतौ चोक्तं सत्यादिपदानामेकवस्तुवाचकत्वमपि
नायोगव्यवच्छेदकः । अभिन्नमेवेति । एवेत्यत्र तृतीयालुक् । अवधारणेनेत्यर्थः । नन्वभिन्नमेव
भिन्नमिति कुतो न कल्प्यत इत्यत आहुः नहीति । अभेदे सिद्धं ब्रह्म विरुद्धधर्माश्रयमितिग्रहणात्पृथिवि-
वीवदित्यनुमानेन एतादृशत्वे खण्डब्रह्मवादापत्याखण्डब्रह्मवादो हीयेत । एतां पृथिवीमिव तं पश्यन्ति
भक्ता जनाः । एवमेवान्यस्तु पश्यति इति विवृद्धिकार्ये तादृशं तत्त्वम् । 'त्यदादिषु दृशोऽनालोचने कञ्चे'-
तिसूत्रम् । पूर्वविग्रहास्तु सूत्रस्य सर्वतोमुखत्वाद्यथाकथञ्चिज्ज्ञेयाः । अनालोचनेऽविचारे इत्यर्थमादाय ।
नच वृत्तिविरोधः । श्यालखशोरित्यत्र 'पुमान् स्त्रिये'त्यस्य वृत्त्यनङ्गीकारात् । तथा मनोरमायां तादृशादयस्तु
रूढिशब्दत्वादसत्तार्थावयवार्थेन व्युत्पाद्यन्ते । अतएवाज्ञानार्था दृशेरिति सङ्गच्छत इति । न हि स्वमते
केवलरूढिरस्ति । महाभाष्योक्तयोगेन रूढिशब्दत्वादिति मनोरमाविरोधः । नन्वस्तु विरोध इति चेत् ।
न । 'लोके शब्दार्थसम्बन्धो रूपं तेषां च यादृशम्, न विचारस्तत्र कार्य' इति निषेधात् । तर्हि रूढौ यः
कोपि योगो न भवेदिति चेत् । न । 'लोकसिद्धं प्रस्तुत्य वैदिको बोध्यते यथा,' वैदिकबोधार्थं रूढौ
यथाकथञ्चित् योगोप्यस्तु । आचार्यरोक्तत्वात् । मा भून्महाभाष्योक्तयोग इति रूढ्यभावात् । नच
माध्वानां भेदे एतादृशत्वमस्तीति वाच्यम् । उभयव्यपदेशाधिकरणे चतुःसूत्रे आनन्दादिरूपोपि श्रुतिबला-
दानन्दगुणकोपीति सर्वत्र माहात्म्यमेवोच्यते मत्वर्थमित्यर्थात् । कल्पनायामिति भाष्यं विवृण्वन्ति
स्म तथाचेति । वस्तुनस्तादृशत्वे विरुद्धधर्माश्रयत्वे उत्पत्तिसिद्धे सति । तादृश इति । तादात्म्यरूपः ।
एवेति । विरुद्धधर्माश्रयत्वरूपान्ययोगव्यवच्छेदकः । निषेधेति । मूर्त्तामूर्त्तस्य विवर्त्तत्वेन तथा । तस्या
इति । निषेधशेषतायाः । विशेषत्वं विवर्तत्वं तस्मात् । सत्येत्यादिभाष्यं विवृण्वन्ति स्म सत्यमित्या-
दिना । एकेति । भिन्नप्रवृत्तिनिमित्तत्वे सत्येकार्थबोधकत्वं सामानाधिकरण्यम् । भाष्ये तस्यार्थः ।
१४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८.
भाष्यप्रकाशः।
न सम्भवेत् । तेषां सत्यत्वादिविशिष्टवाचकत्वात् , सत्यत्वादीनां च धर्मत्वात् । नच सत्यादिपदानां
लक्षकत्वमेव । असत्यजडसान्तदुःखव्यावृत्तमेकरूपमेव ब्रह्म लक्ष्यत इति न तेषां सामानाधिकर-
ण्यभङ्ग इति वाच्यम् । लक्षणायां तु सुतरां धर्मापेक्षा । निर्धर्मकस्य क्वापि लक्ष्यत्वादर्शनात् ।
लक्षणायाः शक्यसम्बन्धरूपत्वेन ब्रह्मणि सत्यादिपदशक्यसम्बन्धलक्ष्यत्वयोर्धर्मयोरापाताच्च ।
किञ्च । लक्ष्यत्वे यत्किञ्चिच्छब्दवाच्यत्वमप्यर्थादेवायातम् । लक्ष्यत्वस्य वाच्यत्वव्याप्यत्वात् ।
यत्तु लक्ष्यत्वे सधर्मकत्वस्योपाधित्वान्न व्याप्तिरिति कश्चित् ।
तन्न । लक्ष्यत्वेनैव धर्मेण ब्रह्मणः सधर्मकत्वे सिद्धे सधर्मकत्वस्य साधनव्यापकतयोपा-
धितानिवृत्तौ व्याप्तेः सुस्थिरत्वात् । नच वाङ्निवृत्तिश्रुत्या अवाच्यत्वे ब्रह्मणः सिद्धे सधर्मकत्वस्य
नोपाधितानिवृत्तिरिति वाच्यम् । तस्याः सामस्त्येन वदनासामर्थ्यपरत्वात् । अप्राप्येति प्रपञ्चेन
तथावसायात् । अप्राप्येत्युक्त्यापि तन्निवृत्तिसिद्धेः लक्षण्या वाचः प्राप्त्यापि निवृत्त्यसिद्धेश्च ।
रश्मिः ।
विशिष्टेति । द्वितीयस्कन्धसुबोधिन्याम् । विशिष्टवाचकत्वम् । प्रस्थानरत्नाकरे तु व्यक्तिमात्रवाचकत्व-
मुक्तम् । भावार्थपादभाष्येण जातिमात्रवाचकत्वमुक्तप्रायम् । आकृतौ शक्तेः पूर्वमीमांसायामिति ।
शास्त्रद्वयभेदेन पक्षद्वयम् । व्यक्तिमात्रवाचकत्वपक्षस्तु सूक्ष्मग्रन्थाभिप्रायेण । 'नाहं वेदैर्न तपसा'
'भक्त्या त्वनन्यया' 'आचार्यवान्पुरुषो वेदे'ति 'महतामन्तःकरणं प्रमाण'मिति च । लक्षणायामिति भाष्यं
विवरीतुमाहुः नचेति । एवेति । सविशेषत्वापत्त्या एवकारो वाच्यत्वयोग्यव्यवच्छेदकः । कुत इत्यत
आहुः असत्येति । सत्यत्वमसत्यत्वाभावरूपमधिकरणात्मकं सदसत्त्वव्यावृत्तम् । एवं ज्ञानत्वमज्ञानत्वा-
भावरूपमधिकरणात्मकं सत् जडव्यावृत्तम् । एवमनन्तत्वं अनन्तत्वाभावाभावरूपमधिकरणात्मकं सत् सान्त-
व्यावृत्तम् । एवं आनन्दत्वमानन्दत्वाभावाभावरूपमधिकरणात्मकं सत् दुःखव्यावृत्तम् । प्रतिकूलवेदनीयं
दुःखम्, अनुकूलवेदनीयं सुखम् । आनन्दः सुखम् । एवेति । अस्थूलादिश्रुतेरेवकारः । लक्ष्यत इति ।
सत्यादीनां सत्यत्वाभावाभावे लक्षणा । स्वाभावप्रतियोगित्वसम्बन्धः । तेन सम्बन्धेन सम्बद्धं क्रियते
ज्ञानविषयीक्रियते । भाष्यं विवृण्वन्ति स्म लक्षणायामिति । लक्ष्यत्वेति । लक्ष्यार्थत्वादर्शनात् । सत्या-
दीति । सधर्मकत्वापत्त्या सत्यादिपदशक्यः सत्यत्वादिविशिष्टः सत्यादिः तस्य सम्बन्धः स्वरूपात्मकः ।
लक्ष्यत्वं च उक्तसम्बन्धरूपलक्षणायोग्यं लक्ष्यं तस्य भावो लक्ष्यत्वम् । लक्षयितुं योग्यं लक्ष्यत्वम् । तयो-
रित्यर्थः । यत्किञ्चिदिति । लक्ष्यादिशब्दवाच्यत्वम् । एवेति । अवधारणेनागतम् । लक्ष्यत्वस्येति ।
यथा तीरं वाच्यं लक्ष्यत्वात्, एवं ब्रह्म सत्यादिशब्दवाच्यं लक्ष्यत्वात्, गङ्गातीरवत् । वाच्यत्वेति ।
वाच्यत्वन्यूनदेशवृत्तित्वात् । लक्ष्यत्व इति । हेतौ । उपाधित्वादिति । यत्र वाच्यत्वम्, तत्र सधर्म-
कत्वमिति साध्यव्यापकता । ब्रह्मणोपि यत्किञ्चिच्छब्दवाच्यत्वं लक्ष्यत्वेन सधर्मकत्वम् । यत्र लक्ष्यत्वम्,
तत्र सधर्मकत्वमिति नास्ति । ब्रह्मणि लक्ष्यत्वातिरिक्तधर्माभाववति सधर्मकत्वाभावात् । साध्यव्यापकत्वे
सति साधनाव्यापक उपाधिस्तत्त्वात् । न व्याप्तिरिति । यत्र यत्र लक्ष्यत्वम्, तत्र तत्र वाच्यत्वमिति
व्याप्तिः सा न । एवेति । लक्ष्यत्वेतरधर्मयोग्यव्यवच्छेदकः । साधनेति । यत्र लक्ष्यत्वं तत्र सधर्मकत्वा-
भावाभावान्न । नोपाधितेति । वाच्यत्वाभाववति ब्रह्मणि लक्ष्यत्वेन सधर्मकत्वस्य सत्त्वात्साध्य-
व्यापकत्वाभावात्तयेत्यर्थः । यद्वा । श्रुतिबलेन लक्ष्यत्वेपि लक्ष्यस्यावाच्यत्वे सधर्मकत्वस्य लक्ष्यत्वरूप-
हेतुमति विरहान्नोपाधितानिवृत्तिः । तस्या इति । 'यतो वाच' इति श्रुतेः । ईक्षत्यधिकरणभाष्येण
तथा । अप्राप्येति । श्रौतेन । तन्निवृत्तीति । वाङ्निवृत्तिसिद्धेः । वाच इति । ब्रह्म लक्ष्यमिति
1684
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४९
सिद्ध इति मन्तव्यम् । तत्र हेतुः । तेजस्त्वात् । तेजःशब्दवाच्यत्वात् । बहुहू-
भाषप्रकाशः।
सर्वथा अप्राप्तौ 'यतो वाच' इति यच्छब्दस्यापि ब्रह्माप्राप्त्या तदज्ञाने कुतो निवर्तन्ते वाच इति
ज्ञानानुदयेन वाक्यस्याबोधकताप्रसक्तेरनिरुक्तश्रुतिविरोधप्रसक्तेश्च । किञ्च । सत्यादिपदानां ब्रह्मणि
शक्त्यभावे ब्रह्मातिरिक्तानां चासत्यजडादिरूपत्वात् तेष्वपि तच्छत्त्यभावे तेषां पदानामनर्थकत्वेन
शक्यसम्बन्धरूपा लक्षणा नितरां सिध्येदिति स्वरूपलक्षणमप्यबोधकमेव स्यात् । ततश्च विचार-
शास्त्रस्य मोक्षस्य च तिलाञ्जलिरेव दीयेत । अथ व्यावहारिकं सत्यज्ञानादिकं तेषां शक्यमिति
तत्सम्बन्धस्य ब्रह्मणि भवनान्न कोपि दोष इति विभाव्यते । तदा तु तस्यैव धर्मत्वान्न ब्रह्मणो
यावद्धर्मरहितत्वसिद्धिरिति लक्षणायां सुतरां धर्मापेक्षा । अतो धर्माणामावश्यकत्वादस्य शास्त्रस्य
वेदानुरोधित्वात् वेदवाक्यानां च ब्रह्मबोधकतया सर्वेषां तुल्यबलत्वेन धर्मविशिष्ट एव पदार्थो
( निर्धर्मको ) विरुद्धधर्माश्रयो वेदसिद्ध इति मन्तव्यमित्यर्थः ।
धर्मधर्मिणोरभेदबोधकं रूपं वक्तुं हेतुं व्याकुर्वन्ति तेजःशब्दवाच्यत्वादिति । 'तद्देवा
ज्योतिषां ज्योतिः', 'अथ यदतः परो दिवो ज्योतिर्दीप्यते,' 'भारूपः, तस्य भासा सर्वमिदं विभाति,'
'यदादित्यगतं तेज' इत्यादौ ब्रह्मतद्धर्मयोस्तेजोवाचकशब्दवाच्यत्वात् । तथाच प्रकाशकस्वभा-
वत्वात् सूर्यतत्प्रकाशयोर्यथा भेदविरुद्धसम्पदभेदः, तथा ब्रह्मतद्धर्मयोरपि प्रकाशकत्वाच्चेत्यर्थः ।
ननु पूर्वसूत्रेण ब्रह्मण उभयरूपत्वे विरुद्धधर्माश्रयत्वे तं तं प्रति तथा प्रदर्शने च सिद्धे धर्माणां
रश्मिः।
वाचःप्राप्त्यापि वाङ्निवृत्तिसिद्धेश्च । वाक्यस्येति । अवधिघटितयत इतिवाक्यस्य 'मम माता वन्ध्ये'ति
वाक्यवदनर्थकपद्घटितत्वादबोधकताप्रसक्तेः । अनिरुक्तेति । 'एष ह्येवानन्दयाती'त्युक्त्वाग्रे पठ्यते
'यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने अभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवती'ति ।
न निरुक्ते अनिरुक्ते । अत्र निरुक्तत्वे प्राप्तेऽनिरुक्त इति प्रतिषेधसम्भवात्तथा । यद्यप्यभावज्ञानेन
प्रतियोगिज्ञानं सर्वत्र कारणम् । 'अग्निचयनस्य न देवी'ति श्रुत्या दिवि निषेधात्, तथापि विरुद्धधर्मा-
श्रयप्रकरणादियमेवमुक्ता । अथेति । भिन्नप्रक्रमेऽनिरुक्ते प्रतिष्ठांरूपभक्तिं विन्दते लभते । अथ स
उपासको भिन्नमोक्षविषयं गतो भवतीत्यर्थात् । कस्माद्भिन्नमोक्षविषय इति चेत्, साधनविषयाद्भिन्न-
विषयोऽधोक्षजः । पुष्टिमार्गीयम् । साधनविषयफलयोर्भेदादिति । तत्वायामीत्यत्राप्ययं बोध्यः संध्यायाम् ।
अनर्थकत्वेनेति । तथा शक्यार्थाभावेन शक्यसम्बन्धेत्यादिः । अपीति । अपिना कार्यलक्षणम् ।
उभयलक्षणयोरबोधकत्वादेवकारो बोधकत्वरूपअन्ययोगव्यवच्छेदकः । विचारेति । उत्तरमीमांसा-
शास्त्रस्य । तिलाञ्जलिरेवेति । विचारशास्त्रस्य मोक्षस्य च पदजन्यपदार्थोपस्थितिसाध्यत्वादेवकारः ।
व्यावहारिकमिति । ध्वंसप्रतियोगि । शक्यमिति । शक्यार्थवस्तु । लक्षणायामित्यादिभाष्यार्था-
नुवादपूर्वकमत इत्यादिभाष्यं विवृण्वन्ति स्म तदा त्विति । एवमनूद्य अत इत्यादिभाष्यं विवृण्वन्ति
स्म अत इत्यादि । एव पदार्थ इति । धर्मविशिष्टः पदार्थ एवेत्यन्वयः । पदार्थैकदेशेनान्वयानुपपत्तेः ।
अयमुभयव्यपदेशसूत्रात्निर्धारणेनेत्यर्थक उक्तः । तादृशपदार्थमाहुः निर्धर्मक इति । तथाच श्रुतिः
'स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथे'ति गोपालतापनीयश्रुतेः । अत्र स्वरूपतावच्छेदकं सगुणत्वं
निर्गुणत्वं चोक्तम् । तेजोवाचकेति । 'ज्योतिषां ज्योति'रिति, 'दिवो ज्योति'रिति, 'तस्य भासे'ति
च प्रत्येकं षष्ठ्यवधिघटिताभ्यां तेजोवाचकशब्दाभ्यां वाच्यत्वात् । तथाच सूत्रे तेजःपदं तेजस्त्वेन
शब्दार्थसाधारणमुक्तं तत्तेजोवाचकमतस्तेजःशब्दवाच्यत्वादयमर्थो भवति । उभयसमावेशात् । तं त-
१. अन्तिमावृत्तौ लोपितम् ।
1685
१५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८.
व्याप्यावर्यमेव हेतुरुक्तः । आतपादैर्धर्मत्वेन धर्मित्वेन च प्रतीतेः । अपूर्ववदेव
दृष्टत्वाच्छुतत्वाच्च न धर्मेष्वपि युक्त्यपेक्षा । तस्मात् सिद्धं यथाश्रुतमेव
ब्रह्मेति ॥ २८ ॥
भाष्यप्रकाशः।
ब्रह्मणा सह भिन्नाभिन्नत्वमात्रं साधनीयम्, तत्तु प्रकृतदृष्टान्तमात्रेणैव सिद्ध्यतीति हेतूक्तेः किं
प्रयोजनमित्याकाङ्क्षायां तत्प्रयोजनमाहुः बहुदूरेत्यादि । अवतारदशायां सृष्टिदशायां च ब्रह्मणो
व्यापकत्वतिरोभावे धर्माणां स्वभावतो बहुदूरव्याप्त्यर्थमेव तद्व्यापकस्तेजःस्वरूपो हेतुरुक्त
इत्यर्थः । तेजसि तथात्वस्य दृष्टत्वादिति । तथाचोक्तं विष्णुपुराणे प्रथमांशसमाप्तौ 'एकदे-
शस्थितस्येन्दोर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथैदमखिलं जगत् । तत्राप्यास-
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५१
पूर्ववद्वा ॥ २९ ॥
एकदेशिमतेनापि सर्वसमाधानमाह । अथवा । 'अरूपवदेव ही'त्यादिपञ्च-
सूत्र्या यः सिद्धान्तः कथितः, तादृशं वा ब्रह्म प्रतिपत्तव्यम् ।
अयमाशयः । वेदस्थापनार्थं हि प्रवृत्तिः । तत्र यथा अक्षरमात्रस्यापि
बाधो न भवति, तथा वक्तव्यम् । यदर्थमुभयरूपता अङ्गीकृता, तत्र धर्माणां
भाष्यप्रकाशः।
पूर्ववद्वा ॥२९॥ सूत्रमवतारयन्ति व्याकुर्वन्ति च एकेत्यादि । अथेत्यादि च । वाश-
ब्दः पक्षान्तरे । पूर्ववत् । 'अरूपवदेव ही'ति पञ्चसूत्र्या यः सिद्धान्तः कथितः, प्रपञ्चविलक्षणं
तत्समवायित्वेपि न तत्प्रकारकम्, नापि समवायिमात्रम्, किन्तु ततोप्यतिरिक्तं कृत्स्नं चिन्मात्र-
स्वरूपं यदा आविर्भवति, तदा व्यवहार्यं भवति । तत्र जडजीवधर्मा औपचारिक इत्येवंरूपः ।
तादृशं कारणरूपं ब्रह्म प्रतिपत्तव्यमित्यर्थः । एतन्मताभ्युपगमे बीजं व्युत्पादयन्ति अयमित्यादि ।
तथाच यत् पूर्वोपगमे बीजम्, तदेवात्रापीत्यर्थः । बीजमुक्त्वा पञ्चसूत्रीसिद्धस्य प्रकृते यथा
विवक्षितत्वम्, तयोपपादयन्ति तत्र धर्माणामित्यादि । तस्मिन् पक्ष एकदेशिप्रतिपन्नमौप-
चारिकत्वं दूषयित्वा नित्यप्राप्तत्वेन स्थापितानां धर्माणां स्वरूपस्य वृत्तिमत्त्वस्य निर्वाहार्थं सविशे-
षनिर्विशेषभेदेन ब्रह्मवैलक्षण्यमङ्गीकर्तव्यम् । ततो वैलक्षण्येन भेदे सत्यद्वितीयत्वश्रुतिर्बाध्येत ।
तथाच तदभावायोत्पत्त्या विचारः कर्तव्यः । यो यथा यथा परिणमते, स तत्तद्भावानपि पूर्वमव्यक्तः
घटपटदध्यादिरूपेण परिणममानमृत्तन्तुदुग्धादिवदिति । एवमुत्पत्त्या विचारे कारणभूतं निर्धर्म-
कमेव ब्रह्म सेत्स्यतीति पूर्वं तादृशमेव प्रतिपत्तव्यम् । ततश्च ब्रह्माहिकुण्डलवदुभयरूपम्, तद्धर्माः
प्रकाशाश्रयवद्भिन्नाभिन्ना इत्युपपत्त्या विचारोपि कारणरूपानुरोधेनैव कर्तव्यः । तत्र कथं
कर्तव्य इत्याकाङ्क्षायां कारणविचारे श्रुतावेकविज्ञानेन सर्वविज्ञानस्य प्रतिज्ञातत्वाद्धर्माणामपि ब्रह्म-
रूपत्वं वक्तव्यम् । तदैव तदुपपद्यते, न तु धर्माणां नित्यभिन्नत्व आविद्यकत्वे वा । आद्ये भिन्न-
त्वेन, द्वितीये मिथ्यात्वेन च तत्प्रतिबन्धात् । नचाविद्यकत्वेप्यसत्यव्यावृत्तत्वेन सत्यरूपब्रह्मज्ञाने
[L2
१५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २९.
स्वरूपनिर्वाहार्थमवश्यं ब्रह्मवैलक्षण्यमङ्गीकर्तव्यम् । तथा सति 'एकमेवाद्वितीय'-
मिति बाधः प्रसज्येत । तथाचोत्पत्त्या विचारे निर्धर्मकमेव पूर्वं ब्रह्मेति
प्रतिपत्तव्यम् । उपपत्त्यापि विचारः पूर्वानुरोधेनैव कर्तव्यः । तत्र धर्मा-
णामपि ब्रह्मत्वे एकविज्ञानेन सर्वविज्ञानमुपपद्यते, नान्यथा । ततश्च प्रथमं
ब्रह्म स्वधर्मरूपेण भवति । तदनु क्रियादिरूपेण प्रपञ्चरूपेण च । तावतैव
सर्ववेदार्थसिद्धेः । नच लौकिकी युक्तिस्तत्रापेक्ष्यते, येन तादृशस्य कथं
सर्वभाव इति पर्यनुयोगो भवेत् । धर्मकल्पनायामपि 'नैषा तर्केण मतिरापनेये'ति
भाष्यप्रकाशः ।
एकविज्ञानेन सर्वविज्ञानं भवत्येवेति शङ्क्यम् । मृत्पिण्डादिदृष्टान्तोपरोधेन जायमानस्य तस्याप्रयो-
जकत्वात् । अतो धर्माणां ब्रह्मत्व एवैकविज्ञानेन सर्वविज्ञानोपपत्तिः, नान्यथा । तस्मात् तत्तथेत्या-
युक्तप्रकारेण धर्माणां ब्रह्मकार्यत्वात् ब्रह्मरूपत्वमङ्गीकर्तव्यम् । तावतैव सर्ववेदार्थाविरोधसिद्धेः ।
नच पूर्वमव्यक्तस्य पश्चात् व्यक्तत्वं लोके हेत्वन्तरसमवधानादेव दृष्टमितीतरासद्भावे निर्धर्मकस्य
कथं धर्मरूपेण भवनमिति शङ्क्यम् । ब्रह्मणो वेदैकसमधि
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५३
समानम् । उत्पत्त्या चोपपत्त्या च विचारद्वयम् । उपपत्त्या पूर्वनयनं स्वसिद्धान्तः ।
भाष्यप्रकाशः।
ॠव्याख्योक्तप्रकारिकया उत्पत्त्या, पूर्वसूत्रव्याख्योक्तप्रकारिकया उपपत्त्या च अस्मिन्नधिकरणे
विचारद्वयम् । तयोर्मध्य उपपत्त्या पूर्वनयनम् । मैत्रेयीब्राह्मणे 'स यथा सैन्धवघन' इत्यादिना
चिन्मात्रत्वेन प्रतिपादितस्यैवात्मनः 'अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मे'त्यनेन स्वरूपा-
विनाशधर्मानुच्छित्त्योः कथनेन स्वरूपधर्मयोर्नित्यत्वबोधनात् । 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति स्वरूप-
लक्षणस्ये सत्यपदेपि 'सत्यस्य सत्य'मिति नामधेयतन्निर्वचनयोरनुरोधेन मूलसद्रूपत्वमूलत्यरूपत्व-
योरपि बोधनात् । नृसिंहोत्तरतापनीये तुरीयनिरूपणे तुरीयस्य प्रपञ्चोपशमत्वमुक्त्वा, 'ईश्वरग्रासः
खराट् स्वयमीश्वर' इति ईश्वरत्वश्रावणात् । तैत्तिरीये 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः
परस्ता'दिति प्रपञ्चात् परस्य कारणस्य ऐकत्वादिसप्रपञ्चधर्मवत्त्वश्रावणात्, द्वितीयस्कन्धे भगवता
'पश्चादह'मिति, तृतीयस्कन्धे मैत्रेयेण 'यथेदानीं तथाचाग्रे पश्चादप्येतदीदृश'मिति, विष्णुपुराणे
प्रथमेंशे 'तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पव'दिति
रश्मिः।
तौल्यात् । यथा विरुद्धधर्मकल्पनायां 'नैषा तर्केणे'ति श्रुतिः, तथासन्मतेपीति तौल्यात् । एकदेशिमते-
ऽरूपवत उत्पत्तिर्नैयायिकयुक्तिविरुद्धेति 'नैषा तर्केणे'ति श्रुतेर्विरुद्धधर्माश्रयत्व इव प्रवृत्तेः तस्यैकदे-
शिमतस्याप्यादरणम् । श्रुत्यर्थस्तु । बहुभिरन्याचार्यग्रन्थैरपि । आश्चर्य इति । आश्चर्य सति वक्तति
वचनप्रयोजक आश्चर्य एव वक्ता आश्चर्यवसो वा ब्रह्मरूपः तत्र प्रविष्टः । अर्शाआद्यजन्तो वा । अनुशिष्टः
दत्तात्रेयवद्धूर्वनुशिष्टः । अवरः जगद्रूपः न सुविज्ञेयः, किन्तु भगवान् सुविज्ञेयः । जगत्तु तज्जलान्त्वेन ।
अनन्येति । अपृथग्दर्शनेनाचार्येण प्रोक्ते आत्मगतिरन्यत्र परब्रह्मणि नास्ति । यतोऽणीयान् 'अणुः
पन्था विततः पुराणः' इति द्वितीयाध्याये चिन्तितम् । नहि अतर्क्यम् । 'अलौकिको हि वेदार्थो न
युक्त्या प्रतिपद्यते । तपसा वेद्युत्त्या तु प्रसादात्परमात्मनः' इति श्रुतेर्नहि अतर्क्यम् । अणु ब्रह्म प्रमाणं
प्रमाणप्रेरकत्वेन मुख्यत्वात् । अन्येनेति । आगमाभिज्ञेनाचार्येण गतिम् । त्वादिति । त्वत्सदृशः । शं
कल्याणम् । सोः शेः । इतिहेतोः । अध्रुवैः साधनैरिति । अयमिति । विरुद्धधर्माश्रयपक्षः । पश्चात्
एकदेशिमतात्पश्चात् । पूर्वत्रेति । एकदेशिमते । उत्पत्त्येति । विरुद्धधर्मोत्पत्त्या । पूर्वसूत्रे
प्रकाशाश्रयवत्सूत्रे । व्याख्योक्तेति । कल्पनायामपीत्यादिव्याख्योक्तप्रकारिकया । उपपत्येतिभाष्यं
विवृण्वन्ति स्म तयोरिति । पूर्वनयनमिति । पूर्वस्य पक्षस्य नयनम् । एवेति । अन्ययोगव्यवच्छेदकः ।
कथनेनेति । अनुच्छित्तिर्धर्मो यस्येति विग्रहे पुनरुक्तिरतो न उच्छित्तिर्नाशो येषां तेऽनुच्छित्तयः अनु-
च्छित्तयो धर्मा यस्येति विग्रहात्तथा । स्वरूपेति । स्वरूपं च धर्मश्च तयोः । एतदादयो हेतवः । स्वसिद्धान्त
इति भाष्यविवरणस्य व्यासचरणानां सिद्धान्त इति ग्रन्थस्य । सत्यपदेपीति । अपिना मूर्तामूर्तब्राह्मणीय-
'प्राणा वै सत्यं तेषामेष सत्य' मित्युक्तसत्यपदे । 'सत्यस्य सत्य' मिति ब्रह्मस्तुतौ । नामधेयं स्वरूपलक्ष-
णस्थम्, निर्वचनं ब्रह्मस्तुतिरूपम्। यद्यपि नामधेयं त्रैकालिकाबाधविषयम्, तथापि विरुद्धधर्माधारत्वायाहुः
मूलेति । मूलसद्रूपपदत्वं मूलत्यरूपपदत्वं तयोः । सन्मूर्तं त्यममूर्तं मूर्तामूर्तब्राह्मणे स्फुटं । ईश्वरत्वेति ।
श्रुत्यर्थस्तु प्रपञ्चस्योपशमो यत्रेति निर्धर्मकम्। पूर्वोक्तं प्राज्ञं ईश्वरं ग्रसतीतीश्वरग्रासः कर्मण्यण् । ओतत्वे-
नेश्वरग्रासत्वमनुज्ञातृत्वेन स्वराट्त्वमनुज्ञात्वेन स्वयमीश्वरत्वमिति सधर्मकम् । अनन्तरूपमिति । व्यक्तम् ।
श्रुतीरुक्त्वोपबृंहणमाहुः द्वितीयस्कन्ध इति । भगवदिति । आदिनैकरूपत्वालक्ष्यत्वाविर्भावतिरोभा-
१. आदर्शेषु एतत्त्वादिसप्रधर्मेति पाठः, काशीपुस्तके प्रपञ्चधर्मेति पाठः, मूलपुस्तके इदं नास्ति, अतोपेक्षितपाठो
रक्षितः । मूलेऽभावाद्भ्रमो न विस्मृत इति ।
२० ब्र० सू० २०
1689
एकदेशिनस्तद्विपरीतम् । उभयमपि सूत्रकारस्य संमतमिति ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥
एकदेशिमते उपपत्त्यन्तरमाह । 'एकमेवे'त्युक्त्वा पुनः 'अद्वितीय'मिति
भाष्यप्रकाशः ।
पराशरेण च भगवद्रूपत्वादिनैव तदुपबृंहणाच्च विरुद्धधर्माधारत्वलौकिकयुक्त्यगम्यत्वविदिताविदित-
परत्वानिरुक्तस्वरूपाणां श्रुत्युक्तयुक्तीनां अनन्तगुणपूर्णत्वपक्षेपि तुल्यत्वात् युक्त्या कारणरूपस्यैवम-
विरोधानुकूल्यप्रापणं व्यासचरणानां सिद्धान्तः । द्वितीयस्कन्धे 'नास्य कर्माणि जन्मादौ परस्यानु-
विधीयत' इति मुख्याधिकारिणामर्थे जन्मकर्मनिषेधकथनेन सद्रूपत्वबोधनात् । एकदेशिन-
स्तु पूर्वोक्तरीत्या कालभेदेनाविरोधप्रापणमिति व्यासोक्तपक्षाद्विपरीतम् । तस्य पक्षस्य द्वितीय-
स्कन्ध एव 'इत्थं भावेन कथितो भगवान् भगवत्तमः । नेत्थं भावेन हि परं द्रष्टुमर्हन्ति
सूरय' इति मध्यमाधिकारिपरतयोक्तत्वेन इतो न्यूनत्वात् । एतावान् परं विशेषः, यत्पुराणे माया-
द्वारकं कर्तृत्वादि, श्रौते मते तु तन्नेत्येकदेशिमतं तत उत्तमम् । तथापि 'अनुच्छित्तिधर्मे'त्यादि-
श्रुतीनां 'पश्चादह'मित्याद्युपबृंहणानां चाज्ञास्याभावेन न तथोपपन्नम् । एवमपि सत्येकविज्ञानेन
सर्वविज्ञानप्रतिज्ञायाः कर्तृत्वादिश्रुतीनां च नासामञ्जस्यमित्यल्पदोषदुष्टत्वेन सूत्रकारादृतम् । अत
उभयमपि सूत्रकारस्य संमतमित्यर्थः ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥ सूत्रमवतारयन्ति एकदेशीत्यादि । भगवन्माहात्म्यबोधकत्वेपि
किञ्चिद्दोषपादनादरो मा भूदित्यत एकदेशिमते उपपत्त्यन्तरमाहेत्यर्थः । व्याकुर्वन्ति एकमेवे-
रश्मिः ।
वजन्मनाशविकल्पवत्त्वानि । अत्र उपपत्त्यापि विचारः पूर्वानुरोधेनैव कर्तव्य इति भाष्यानुरोधात्पूर्वानय-
नमाहुः विरुद्धधर्मेत्यादि । विरुद्धधर्माधारत्वं उभयव्यपदेशसूत्रात् 'सकलविरुद्धधर्मा भगवत्येव वर्तन्त'
इति भाष्यात् । लौकिकयुक्त्यगम्यत्वं 'तादृशमेव तद्वस्तुतत्सिद्धि'मिति भाष्यात् 'न धर्मेष्वपि युक्त्य-
पेक्षे'ति भाष्याच्च । विदितेत्यादि । विदितं वर्तमानं अविदितं मृतं भविष्यच्च तयोः परत्वम् । 'अन्य-
देव तद्विदितादथोऽविदितादधी'ति श्रुतेः । अनिरुक्तत्वं तैत्तिरीये । अभिधेयानामित्युक्ते एकदेशिमतवा-
दकवलिता स्यादत आहुः श्रुत्युक्तयुक्तीनामिति । विरुद्धधर्माधारत्वं नित्यं न भवेन्नित्यानित्यसंयोग-
धिया श्रुत्यभिधेयं न भवेत् । लौकिकयुक्त्यगम्यत्वं नित्यं न भवेत्, श्रुत्यभिधेयं न भवेत् । 'आसीनो
दूरं व्रजति शयानो याति सर्वतः' । 'अपाणिपादो जवनो ग्रहीते'ति श्रुत्यभिधेयं नित्यानित्यसंयोगधिया
न भवेत् । विदिताविदितपरत्वं नित्यं न भवेत् । नित्यानित्यसंयोगधिया श्रुतिरभिधेयं न वदेत् । अनि-
रुक्तत्वं नित्यं न भवेत् । नित्यानित्यसंयोगधिया श्रुत्यभिधेयं न भवेदित्येवं युक्तीनाम् । नास्येति ।
अस्य परस्य आदौ कर्माणि जन्म नानुविधीयते इति । मुख्याधिकारिणामिति । एकदेशिन इति
भाष्यं विवृण्वन्ति स्म एकदेशिन इति । पूर्वोक्तेति । अत्रैव पूर्वोक्तरीत्या सृष्टिकालस्य भेदेन ।
सिद्धान्ते तु सृष्टिकालपूर्वकालेपि धर्माः । मायाद्वारकमिति । 'बुभुत्सुम्पावदे' इति वाक्यात् ।
तत इति । पुराणमतात् । आज्ञास्येति । सिद्धान्तरीत्या नयनाभावेन । स्वार्थे ष्यञ् । न
तथेति । सिद्धान्तत्वेन नोपपन्नम् । अल्पदोषेति । अपसिद्धान्तत्वदोषदुष्टत्वेन । सूत्रकारादृतं मत
इति पदच्छेदः ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥ किञ्चिदिति । अपसिद्धान्तदोषात् । प्रतीति । धर्मप्रतिषेधयुक्ता
1690
भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५५
द्वितीयं प्रतिषेधति । स एवकारेणैव सिद्धो व्यर्थः सन् धर्मनिषेधमपि सूचयति ।
'ऐक्षते'ति वचनात् तदुत्पत्तिः । चकारादेकविज्ञानेन सर्वविज्ञानोपक्रमः परिगृ-
हीतः । तस्मान्न ब्रह्मणि कश्चिद्विरोध इति सिद्धम् ॥ ३० ॥
इति तृतीयाध्याये द्वितीयपादे नवमं प्रकाशाश्रयवद्भेत्यधिकरणम् ॥ ९ ॥
भाष्यप्रकाशः।
त्यादि । स इति । द्वितीयनिषेधः । नन्वनुच्छित्तिधर्मेत्यादिना तन्नित्यत्वे कुतो निषेध इत्यत आहुः
ऐक्षतेत्यादि । तथाचोक्तश्रुत्यनुरोधेन धर्मनित्यताबोधकश्रुतिरनुच्छित्तिर्धर्मो यस्येतिसमासेनावि-
नाशिपदव्याख्यानपरतया नेयेत्यर्थः । स्फुटमन्यत् ।
नचैकदेशिमतस्य युक्त्यन्तरेणोपष्टम्भात् पूर्वमततुल्यत्वमस्य सूत्रकाराभिप्रेतमिति शङ्क्यम् ।
प्रतिषेधश्रुतेर्द्वित्वसंख्यापूरकनिषेधपरतायाः प्रागुपपादितत्वेन, 'सूर्य एकाकी चरती'तिश्रुतौ सप-
रिकरे एव सूर्ये एकाकित्ववत् 'गेहे देवदत्त एवास्ति, न द्वितीय' इति लौकिकप्रयोगे करचरणा-
दियुक्तदेवदत्ताद्वितीयत्ववच्चापि निषेधगतेः शक्यवचनत्वेन, अनुच्छित्तिधर्मपदस्याविनाशिप-
दव्याख्यानताया अपि मानान्तरविरहादगतिकगतित्वेन च तस्य शैथिल्यात् । अत एकविज्ञानेन
सर्वविज्ञानप्रतिज्ञानुरोध एवैतत्संग्रहे बीजम् । एतस्योपष्टम्भकं च नैतस्मादन्यदिति बोधनायैवैतद्यु-
क्तिकथनमिति बोध्यम् । तस्मान्न कोपि शङ्कालेशः ।
(ननु मतद्वयस्यापि सूत्रकारसम्मतत्वे स्वसिद्धान्त इति भाष्यस्थस्य स्वशब्दस्य सूत्रकार-
परत्वेन व्याख्यानमनुचितम् । एकदेशिपदे च व्यासैकदेशित्वव्याख्यानमपि तथा । व्यासैस्तन्ना-
मानुल्लेखादिति चेत् ।
मैवम् । एकदेशिपदेत्र व्यासस्यैकदेशी ग्राह्यः । अन्यथाम्बुवत्सूत्रेण 'अत एव'तिसूत्रसिद्धं
दृष्टान्तं न दूषयेत् । वृद्धिह्रासादि Barclay सूत्रद्वये युक्त्यन्तरं च न वदेत् । एकदेशिनामानुल्लेखस्तु जैमिन्या-
दिवदप्रसिद्धत्वात् । 'जीवमुख्यप्राणलिङ्गा'दित्यादिपूर्वपक्षिनामवत् । अस्मिन् सूत्रे जघन्यानामर्थेऽस्य
सद्भावाद्वा । अथवा । जीवप्रसङ्गे 'अवस्थितेरिति काशकृत्स्न' इति काशकृत्स्नेन जीवस्य
ब्रह्मावस्थाविशेषत्वेनाङ्गीकारात् तस्य न्यायस्यापि तुल्यत्वात् स एवैकदेशी ग्राह्यः । अत एव द्विती-
यस्कन्धपञ्चमाध्याये सृष्टिप्रकरणे 'सत्त्वं रजस्तम' इत्यस्य सुबोधिन्यां 'काशकृत्स्नमतमत्र सिद्धं
भविष्यती'त्याचार्यैरपि तथाङ्गीकारः कृत उत्पत्त्या विमर्शविचारे इति नात्र शङ्कालेशः । एवमेक-
देशिनि निर्णीते स्वशब्दो व्यासपर एव युक्त इत्यत्राप्यदोषः । नचास्य पश्चात् कथनेनास्यैव मुख्य-
त्वमिति शङ्क्यम् । द्वितीयस्कन्धे 'इत्थंभावेन कथितो भगवान् भगवत्समाः । नेत्थं भावेन हि
परं ब्रह्मार्हन्ति सूरय' इत्यादिभिरेतदसमुख्यतयाः शुकवाक्ये व्यासचरणैरेवोक्तत्वात् । एतस्य
रश्मिः।
श्रुतिरद्वितीयमितिश्रुतिस्तस्याः । द्वित्वेति । द्वितीयमित्यत्र पूरणार्थकप्रत्यय इति भावः । प्रागिति ।
सपरीति । चरणादिः परिकरः । श्रौतत्वादेवकारः । एवेति । अन्ययोगव्यवच्छेदकः । निषेधगते-
रिति । अद्वितीयश्रुत्युक्तायाः । तस्येति । एकदेशिमतस्य । एवेति । अन्ययोगव्यवच्छेदकः । एतत्संग्रहे
एकदेशिमतसंग्रहे । एतस्मादिति । प्रतिषेधसूत्रादित्यर्थः । एवकारोऽन्ययोगव्यवच्छेदकः । (ए)तद्युक्तीति ।
एकदेशिमतयुक्तिकथनपनेन सूत्रेणेत्यर्थः । शङ्केति । एकदेशिमतोपपत्त्यनावश्यकत्वशङ्का तस्या लेशः ।
१. अधिकरणादिसार्थः ।
1691
भाष्यप्रकाशः।
सम्मतत्वं तु जघन्याधिकारिणामर्थे एतस्यैव सुबोधत्वेनोपयोगात् । अत एवेदं मतं पूर्वमुक्तम् ।
यथा द्वितीयस्कन्धे राजार्थम् । किञ्च, भाववृत्तसूक्ते 'नासदासी'दित्यादिभिः सृष्टिं पूर्वमुक्त्वा,
समाप्तौ 'इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न योऽस्या अध्यक्षः परमे व्योमन्
सोऽङ्ग वेद यदि वा न वेदे'ति सृष्ट्याधानानाधानात्भकं पक्षद्वयमुक्त्वा तस्य ज्ञानाज्ञाने आह ।
तेन विसृष्टिं कदाचिदाधत्ते, कदाचित् स्वतःसिद्धामेव प्रकटयति । अथवा सामान्यां करोति ।
लीलासृष्टिं तु स्वतःसिद्धामेवाविष्करोतीति ज्ञानाज्ञाने उभये अपि युक्ते । एतज्ज्ञापनाय सन्देह-
वचनम् । अन्यथा वेदस्य ब्रह्मणश्च सन्देहाभावादेवं न वदेत् । अतो लीलासृष्टिमनुसन्धाय व्यासः
स्वमतं वक्ति । एकदेशिनस्तु तन्न जानन्तीति ब्रह्मणो निर्विशेषादुत्पत्तिं वदन्ति । तस्मादुपपत्ति-
पक्ष एव व्यासाशयगोचरः, इतर इतरस्येति दिक् ।)
शङ्कराचार्यास्तु । 'न स्थानतोपी'त्यारभ्यैकादशसूत्रमेकमधिकरणं कल्पयन्ति । 'प्रकृतै-
तावत्त्वे'त्यारभ्य नवसूत्रमपरम् ।
तत्र प्रथमे, सुषुप्त्यादिषूपाध्युपशमाज्जीवो यत् सम्पद्यते तद् ब्रह्म । 'सर्वकर्मे'त्यादिभिः सवि-
शेषत्वश्रावणादस्थूलमित्यादिभिर्निर्विशेषत्वश्रावणाच्च किमुभयलिङ्गं ब्रह्म प्रतिपत्तव्यम्, उतान्यतर-
लिङ्गम् । यद्यन्यतरलिङ्गम्, तदापि किं सविशेषम्, उत निर्विशेषमिति सन्देहे, उभयलिङ्गश्रुत्यनुग्रहा-
दुभयलिङ्गं ब्रह्मेति प्राप्ते, अभिधीयते । न स्थानत इत्यादि । परस्य ब्रह्मण उभयचिह्नत्वं स्वत उपा-
धितश्च न । कुतः । सर्वत्र हि । ब्रह्मस्वरूपप्रतिपादनपरेषु 'अशब्दमस्पर्शमरूपमव्यय'मित्यादिषु
निर्विशेषस्यैवोपदेशादिति । 'न भेदा'दिति द्वितीये च प्रतिविद्यं ब्रह्मण आकारभेदश्रावणान्निर्वि-
शेषाङ्गीकारे च तस्य शास्त्रस्य निर्विषयत्वापत्तेरौपाधिक आकार आदर्तव्य इत्याशङ्क्य, मधुविद्यायां
प्रत्युपाधिभेदं ब्रह्मणोऽभेदश्रावणान्न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति । 'अपिचैवमेके' इति
तृतीये च, 'मनसैवेदमाप्तव्यम्' 'नेह नानास्ति किञ्चने'ति भेददर्शननिन्दापूर्वकमभेदमेके, तथान्ये
भोक्तृभोग्यादिप्रपञ्चस्य 'त्रिविधं ब्रह्ममेत'दिति ब्रह्मैकस्वभावत्वमामनन्तीति व्याख्याय, ननूभय-
लिङ्गासु श्रुतिषु सतीषु कथमेनाकारमेव ब्रह्मावधार्यते, न पुनः साकारमिति शङ्कायाम्, चतुर्थस्या-
रूपवत्सूत्रस्य प्रवृत्तिमुक्त्वा, अरूपवदेव ब्रह्मावधारयितव्यम्, न रूपादिमत् । कुतः । तत्प्रधानत्वात् ।
'अस्थूलमनणु', 'अशब्दमस्पर्शमरूपमव्ययम्,' 'आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा
तद् ब्रह्म,' 'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः,' 'तदेतत् ब्रह्मापूर्वमनपरमनन्तरमबाह्य-
मयमात्मा ब्रह्म सर्वानुभू'रित्यादीनां निर्विशेषब्रह्मप्रधानत्वात्, आकारलिङ्गानां चोपासनाप्रधान-
रश्मिः।
सुषुप्त्यादिष्विति । आदिना संपत्तिसमाधी । एवेति । सविशेषव्यवच्छेदक एवकारः । आकारेति ।
'चतुष्पाद्ब्रह्म' 'षोडशकलं ब्रह्म', वामनीत्वभामनीत्वलक्षणं ब्रह्म, त्रैलोक्यशरीरं वैश्वानरशब्दोदितं
ब्रह्म, 'सर्वं खल्विदं ब्रह्मे'ति, चतुर्दशभुवनात्मकं ब्रह्मेत्येवमाकारभेदश्रावणात् । मधुविद्यायामिति ।
'यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव
स योऽयमात्मे'त्यादिरूपायाम् । अभेदेति । पृथिव्यादीनामुपाधित्वाच्चेति भावः । भोक्तृभोग्या-
द्येति । आदिना प्रेरिता । 'भोक्ता भोग्यं प्रेरितारं च मत्वे'ति श्रुतेः । अनाकारमेवेति । साकार-
योग्यव्यवच्छेदक एवकारः । ते यदिति । ते नामरूपे यस्यान्तरा मध्ये व्यवधायके वर्तेते तद्ब्रह्मेत्यर्थः ।
१. प्रकाशमूलपुस्तके सुषुप्तादिषु, रश्मौ च सुषुप्त्यादिषु । २. ज्ञाप्य ।
त्वेन ततो निर्बलत्वादिति व्याख्यातवन्तः। ततो, ननु तर्हि आकारवद्विषयाणां का गतिरित्या-
शङ्कायां पञ्चमं 'प्रकाशवच्चावैयर्थ्या'दिति सूत्रमवतार्य, यथा सौर्यश्चान्द्रो वा प्रकाशो वियद् व्याप्या-
वतिष्ठमानोङ्गुल्याद्युपाधिसंसर्गादृजुवक्रादिभावं प्रतिपद्यमानेषु संसर्गिषु तदाकारतामिव प्रतिपद्यते,
तथा ब्रह्मापि पृथिव्याद्युपाधिसम्बन्धात् तदाकारतामिव प्रतिपद्यते, तदालम्बनं ब्रह्मण आकार-
विशेषोपदेश उपासनाय ना विरुध्यते, एवमाकारवद्ब्रह्मविषयाणामवैयर्थ्यात्। नच नोपाधियो-
गादप्युभयलिङ्गमिवि प्रतिज्ञाहानिः। उपाधिनिमित्तस्य वस्तुधर्मत्वानुपपत्तेः। उपाधीनामाविद्य-
कत्वाद्वेति व्याख्याय, 'आह च तन्मात्र'मिति सूत्रं च यथावद्व्याख्याय, 'दर्शयति' सूत्रे च
'अथात आदेशो नेति नेति', 'अन्यदेव तद्विदितादथो अविदितात्', 'यतो वाचो निवर्तन्ते,
'अवचनेनैवोवाचे'ति श्रुतीः, 'ज्ञेयं यत् तत् प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते। अनादिमत्परं ब्रह्म'
न सत्तन्नासदुच्यत' इति गीतावाक्यम्, 'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद। सर्वभूत-
गुणैर्युक्तं नैवं मां द्रष्टुमर्हसी'ति स्मृती उपन्यस्य परप्रतिषेधेनैव निर्विशेषं ब्रह्म प्रतिपाद्यत इत्युक्त्वा,
'अत एवे' 'त्यम्बुव'दिति सूत्रद्वयं च यथावद्व्याख्याय, 'वृद्धिह्रास'सूत्रे जलसूर्यकादिदृष्टान्तं साधितुं
जलगतं सूर्यप्रतिबिम्बं जलवृद्धौ वर्धते, तद्ध्रासे ह्रसति, तच्चलने चलति, तद्भेदे भिद्यत इत्येवं जल-
धर्मानुविधायि भवति, न तु सूर्यस्य तथात्वमस्ति, एवं परमार्थतोऽविकृतमेकरूपमपि सद्रह्म देहा-
द्युपाध्यन्तर्भावाद्बुद्धिह्रासादीनुपाधिधर्मान् भजत इत्येवमुक्त्वा, 'दर्शनाच्चे'ति सूत्रे, 'पुरश्चक्रे द्विपदः,'
'अनेन जीवेनात्मनानुप्रविश्ये'ति श्रुतिभ्यामुपाधिप्रवेशं ब्रह्मणो दर्शयित्वा, युक्त एवातः सूर्यकादिदृ-
ष्टान्त इत्युक्त्वा, तस्मान्निर्विकल्पकलिङ्गमेव ब्रह्म,नोभयलिङ्गम्, न विपरीतलिङ्गं चेति सिद्धान्तमाहुः।
तत्र प्रथमसूत्रव्याख्यानमयुक्तम्। 'सर्वत्र ही'ति हेतुबोधके पदे निर्विशेषस्यैवोपदेशादित्य-
स्यार्थस्यासौत्रत्वेन तृतीयाध्याये वा शास्त्रे वा ईदृशस्य शब्दस्यार्थस्य च काप्यनुक्ततया अनुवृत्तेरपि
कर्तुमशक्यत्वेनाभ्युपगमैकशरणत्वात्। 'अशब्दमस्पर्श'मिति विषयवाक्योत्तरार्धेऽपि, 'अनाद्यनन्तं
महतः परं ध्रुवं निचाय्य त'मित्यनेन 'महतः पर'मित्यादिना पूर्वोक्तस्य ध्रुवस्य पुरुषस्य परामर्शन
प्राप्तायाः सविशेषताया अनादरेण तद्विरुद्धत्वात्। निर्विशेषमेव ब्रह्मेति सिद्धान्तस्तत्रैव सिद्धाव-
निर्बलत्वादिति । उपासनायाः कल्पिताकारपरत्वादिति भावः। संसर्गिषु प्रकाशेषु। इति प्रतिज्ञेति।
'न स्थानत उभयलिङ्ग'मितिसूत्रभाष्ये इति प्रतिज्ञा। यथावदिति । निराकारपरत्वेपि सिद्धान्तानुसारि-
त्वाद्यथावत् । तेषां सिद्धान्ते यथावदिति वा। परप्रतीति। चिन्मात्रतापरप्रतिषेधेन। नेतिनेती-
त्यादिना । 'मत् परं ब्रह्मे'त्यत्र मत् मत्तः ब्रह्म परमित्यर्थायोगव्यवच्छेदक एवकारः । यथावदिति।
व्याख्यातम् । वृद्धिह्रासादीनिति । आदिनोक्तचलनादयः। एवकारव्यावर्त्यमाहुः नोभयेति।
विपरीतेति। साकारलिङ्गमेव, न तु निराकारमित्येवम्। निर्विशेषस्यैवेति। परसोभयलिङ्गमिवि
प्रतियोगिनिर्वचनेन सर्वत्र प्रतियोगिस्फूर्तेर्नेतिनेतीत्यादौ नञा निषेध इति तथा। ईदृशस्येति ।
निर्विशेषमात्रस्य । अनुक्ततयेति । किन्तु 'अस्थूलमनण्वि'त्यादिवाक्यैः प्रापञ्चिकसर्वधर्मवैलक्षण्यस्य
सर्वत्र कारणत्वाद्भगवानस्तीत्यर्थस्य चोक्ततया । निचाय्य तमिति । तं पुरुषं निचाय्य ज्ञानकाण्डत्वा-
ज्ज्ञात्वा। अत्र परामर्शमाहुः महतः परमिति । काठके 'महतः परमव्यक्तमव्यक्तात्पुरुषः परः । पुरुषान्न
परं किञ्चित्सा काष्ठा सा परा गति'रित्यनेन पूर्वोक्तस्य । ध्रुवपदसामानाधिकरण्यायाहुः ध्रुवस्येति ।
'सा काष्ठा सा परा गति'रित्यस्यार्थः । तद्धीति । उत्तरार्धविरुद्धत्वात् । अत्रैवेति । अस्मिन्सूत्रे एव
१५८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०.
भाष्यप्रकाशः।
ग्रिमस्यारूपवत्सूत्रस्य वैयर्थ्यप्रसक्तेः। तत्र साध्यमानत्वान्न सिद्धवन्निर्देशाङ्गीकार इत्यस्याप्युक्त-
त्वाच्च । तथा, अरूपवत्सूत्रे 'तत्प्रधानत्वा'दित्यस्य निर्विशेषप्रधानत्वादिति व्याख्यानमप्ययुक्तम् ।
तदुपन्यस्तानां विषयवाक्यानामुपक्रमादिविचारे तथात्वस्यालाभात् । तथाहि । प्रथमं तत्रास्थूल-
वाक्यम् । तच्च 'कस्मिन् वा आकाश ओतश्चे'ति गार्गीप्रश्नात् प्रवृत्तम्, स्थूलत्वादीन् लौकिकान्
धर्मान्निषेधत् प्रशासितृत्वाम्बरान्तधारकत्वद्रष्टृत्वादीनाकाशोपादानत्वान्तानलौकिकान् दर्शयति ।
अशब्दवाक्यं तु प्राग्व्याख्यातम् । आकाशवाक्यं च नामरूपनिर्वाहकत्वम् । 'दिव्यो ह्यमूर्तः' इति
वाक्यं चेयत्तावच्छिन्नं परिमाणं निषेधत् पुरुषं बाह्याभ्यन्तरसाहित्यं बाह्याभ्यन्तररूपत्वं वा दर्शय-
दक्षरात् परत्वमग्रे श्रावयति । 'तदेतद् ब्रह्मे'ति मधुविद्योपसंहारस्थमपि मधुविद्यायामुपक्रमे, 'अय-
मेव स योऽयमात्मेदममृतमिदं ब्रह्मेदं सर्व' मित्येवं चतुर्दशपर्यायैरभ्यस्तं सर्वत्वं मध्य उक्तं सर्व-
भूताधिपतित्वादिकं 'रूपं रूप'मिति मन्त्रव्याख्यानोक्तं 'अयं हरयोऽयं वै दश च सहस्राणि च
बहूनि चानन्तानि चे'त्यनन्तरूपतां श्रावयतीति निर्विशेषब्रह्मप्रधानतया वक्तुमयुक्तत्वात् । नच
'तदेतद् ब्रह्मे'ति भिन्नं वाक्यं पूर्वेभ्य इति वाच्यम् । तच्छब्दात् पूर्वपरामर्शाद्विभागे साकाङ्क्ष-
तया तदभावात् । नचेदं तच्छब्देन पूर्वोक्तरूपत्वं परामृशदप्यपूर्वमित्यनेन तभिषेधतीति न दोष
इति वाच्यम् । एवं तर्ह्यनपरमित्यनेनानन्तरत्वादीनग्रिमानपि निषेधच्छून्यवाद्मेव प्रसञ्जयेत् ।
अतोत्र पूर्वत्वादीनां धर्मानामेव निषेध इत्येवाङ्गीकार्यम् । तथा सति 'न शुष्केण न चार्द्रेण
रश्मिः।
निर्धारणेनेत्येवकारार्थः । इत्यस्यापीति । इति हेतोः सूत्रस्यापि । अशब्दवाक्यमिति । काठकेऽस्ति ।
प्राक् । अत्रैव पूर्वम् । नामरूपेति । दर्शयतीत्यनेनान्वेति । पुरुषत्वमिति । दर्शयतीत्यनेनान्वेति ।
'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः' इत्यत्र बाह्याभ्यन्तराभ्यां समानः सह वेति विग्रहे आहुः
बाह्याभ्यन्तरेति । सः बाह्याभ्यन्तरः इति पदद्वयेनेत्याहुः बाह्याभ्यन्तरेति । श्रावयतीति ।
'अक्षरात्परतः परः' इति श्रुत्या श्रावयति । सर्वभूतेति । आदिना राजत्वसमर्पितत्वे । 'स वा
अयमात्मा सर्वेषां भूतानामधिपतिः सर्वेषां भूताना५ राजा तद्यथा रथनाभौ रथनेमौ चाराः सर्वे समर्पिता
एवमेवास्मिन्नात्मनि सर्वे प्राणाः सर्वे लोकाः सर्वे देवाः सर्वाणि भूतानि सर्व एत आत्मानः समर्पिता'
इति श्रुतिः । रूपं रूपमिति । 'रूपं रूपं प्रतिरूपो बभूव तदस्य रूपं प्रतिचक्षणाय । इन्द्रो मायाभिः
पुरुरूप ईयते युक्ता ह्यस्य हरयः शता दशेत्ययं वै हरय'इत्यादि । युक्ता इति । रथयुक्तवाजिवत्
अस्य इन्द्रस्य परमात्मनः रथस्थानीये आकाशे शरीरे युक्ताः गोविन्दं स्वविषयान्प्रति हरन्तीति हरयः
इन्द्रियाणि, शता शतानि, नित्यलीलास्थभक्तेन्द्रियाभिप्रायेण दश प्राणाः, प्राणानामिन्द्रियपदवा-
च्यत्वात् । मन्त्रः समाप्तः । नित्यलीलास्थगोपीजनवल्लभ उक्तः । लीलायां भेदवारणाय मन्त्रव्याख्यानं
प्रकाशे । अयं वा इति । अयं परमात्मा । अत्र श्रुतिश्छान्दोग्ये 'आत्मत आविर्भावतिरोभावा'विति
सर्वात्मभावप्रकरणश्रुतेः । पूर्वेभ्य इति । चतुर्दशपर्यायेभ्यः । तदभावादिति । 'अर्थैकत्वादेकं
वाक्यं साकाङ्क्षं चेद्विभागे स्या'दिति जैमिनिसूत्रेणैकवाक्यत्वे भिन्नवाक्यत्वाभावात् । पूर्वोक्तेति ।
'अयमेव स योयमात्मे'ति पूर्वोक्तरूपत्वम् । अपूर्वमिति । 'तदेतद्ब्रह्म' इत्यस्य अग्रे 'अपूर्वमनपर-
मनन्तरमबाह्यमयमात्मा ब्रह्म सर्वानुभूरित्यनुशासन'मित्यस्यापूर्वमित्यनेनेत्यर्थः । न दोष इति ।
सधर्मकत्वदोषो न । शून्यवाद्मेवेति । अन्ययोगव्यवच्छेदक एवकारः । द्वितीयस्कन्ध नवमाध्यायेऽपि
कारणत्वाङ्गीकारात् साकारत्वाङ्गीकाराच्च । एवेति । पूर्वोक्तरूपत्वानन्तरत्वादियोगव्यवच्छेदकः ।
1694
... wait! Ah, let's look at line 27, character by character: 1: अ2:स्म3:ा(or is itद्?) Wait, look at line 26: रत्वमस्मदादिगोचरत्वम् ।-> wait, is itरत्वमस्मदादिगोचरत्वम्orरत्वमस्मदाद्यगोचरत्वम्? Wait! In Bhashya line 11: अस्मदाद्यगोचरत्वमेव प्रलयः, क्रमेण वा युगपद्वा तद्गोचरत्वमेव सृष्टिःBhashyaprakasha says:अस्मदाद्यगोचरत्वमेव प्रलयः, क्रमेण वा युगपद्वा तद्गोचरत्वमेव सृष्टिःHere "तद्गोचरत्वम्" refers to: whose gocara? Does "तद्" refer to "अस्मदादि"? Yes! Srishti is when it becomes gocara to them (अस्मदादिगोचरत्वम्)! And pralaya is when it is NOT gocara to them: अस्मदाद्यगोचरत्वम्! Now look at Rashmi explaining this: Line 25-26:तद्गोच- रत्वमस्मदादिगोचरत्वम् ।`
Rashmi explains: "तद्गोचरत्वम् = अस्मदादिगोचर
१६० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० ३०.
भाष्यप्रकाशः ।
वाक्यान्युक्तानि, तेष्वपि 'अथात आदेश' इति वाक्यं तु न निर्विशेषप्रतिपादकमिति दर्शयितुंछात्रमा-
ध्वाख्यान एव दर्शितम् । विदिताविदितवाक्यं तु तदुभयभिन्नत्वमेव वदति, न तु विशेषान्नि-
षेधति । अथान्यत्वादिकथनेनमुखेन निषेधति, तदा लौकिकानेव निषेधति । तावतैव चारिता-
र्ध्यम्, न तु स्वरूपात्मानपि । 'तदेतद् ब्रह्मे'त्यादिश्रुतिविरोधप्रसङ्गात् । 'यतो वाच' इति
वागाद्यप्राप्यत्वमेव वदतीत्यनिरुक्तश्रुतिसमानार्थम्, न तु विशेषनिषेधकमित्यपि प्रागेव व्युत्पा-
दितम् । 'अवचनेनैवोवाचे'त्यपि 'यतो वाच' इत्येतस्य समानार्थकम् । लौकिकसर्वधर्मराहित्या-
देवोपशान्तत्वसिद्धेरिति । 'न सत्तन्नासदुच्यत' इति गीतावाक्यमपि व्याकृताव्याकृतयोरेव निषे-
धकमिति लौकिकनिषेधपरमेव । 'सर्वतःपाणिपादन्त'मित्यग्रिमवाक्येन तथा निश्चयात् । सर्वतःपा-
णिपादत्वादेः क्वापि लौकिके अदर्शनादिति । 'माया ह्येषे'ति वाक्यमपि सर्वभूतगुणयुक्तदर्शननि-
षेधाभिप्रायकमिति तत्रैव स्फुटतीति न सार्वात्म्यबाधकम्, अतस्तत्तन्त्रव्याख्यानमपि तथा । एवं
रश्मिः ।
ख्याविचारे यत्किमपि कार्यमविद्या च तत्सत्त्वेनैवानुभूयते, नतु प्रतिनियतेन तेन तेन रूपेणातो
विजातीयद्वैतस्याप्यभावाच्छुद्धाद्वयसिद्धिरित्यर्थ इति' सन्दर्भे दूषितत्वेन, प्रयोजकहेतुत्वाभावात् ।
व्याख्यान एवेति नान्यत्रेत्येवकारः । तदुभयेति । विदिताविदितोभयभिन्नत्वमन्यदेवेत्यत्र भिन्नार्थ-
कान्यशब्दप्रयोगात् । भिन्नवाचकपदसत्त्वान्निषेधवाचकपदाभावादेवकारः । विशेषानिति । द्विती-
यान्तम् । अथेति पदार्थभिन्नप्रक्रमे । अन्यत्वादीति । आदिना विदितत्त्वाविदितत्वे । मुखमुपायः ।
निषेधतीति । विदितादन्यत् अविदितादन्यदित्युक्ते विदिताविदितप्रतियोगिकभेदवत्प्रतीतेः विदित-
त्वाविदितत्वरूपसामान्यधर्मनिषेध इति निषेधतीत्यर्थः । एवेति । प्रक्षालनपङ्कन्यायात् । श्रुतिवि-
रोधेति । तत्त्वसर्वात्मपदविरोधप्रसङ्गादित्यर्थः । वागादीति । आदिना मनः । एवकारोऽन्यस्य
सविशेषत्वस्य योगव्यवच्छेदकः । नतु निर्विशेषत्वं वदतीत्यर्थः । किञ्च । अनिरुक्तेति । निरुक्तत्वे
प्राप्तेऽनिरुक्तत्वं विरुद्धधर्माधारत्वार्थम् । तद्वद्वागप्राप्यत्वे प्राप्ते वाग्वृत्तिर्विरुद्धधर्माधारत्वार्थमित्य-
निरुक्तश्रुतिसमानार्थमित्यर्थः । प्रागेवेति । अवचनेति । वचनेनोवाचेति प्राप्ते अवचनेनोवाचेति
विरुद्धधर्माश्रयत्वाय । अवचनेन वचनविरुद्धवचनेन । परस्परं विरुद्धवचनेनेति यावत् । विरोधो
नञर्थ इति । अत एवकारः । विरुद्धधर्माणांमन्याभिनिश्चयात् । एवेति । नत्वलौकिकसर्वधर्मराहि-
त्यमुपशान्तत्वसिद्धिरपेक्षत इत्यर्थः । उपशान्तत्वं त्वेवम् । बाष्कलिना च राद्धः पृष्टः सन् 'अवचनेनैव
ब्रह्म प्रोवाचे'ति श्रूयते 'स होवाचाधीहि भगवो ब्रह्मेति । स तूष्णीं बभूव, तं ह द्वितीये तृतीये वा वचन
उवाच क्रथः खल त्वं न विजानासि उपशान्तोऽयमात्मे'ति । स ह बाष्कलिर्ह प्रसिद्धः । हे भगवन्
पृष्टः सः पृष्टः । तं तूष्णींभूतं पृष्टं प्रति द्वितीय इति । प्रश्ने वचने, पृष्ट उवाच, क्रथः क्रमेण ।
सुपांसुः । हे खल, त्वं तु ब्रह्म न विजानासि, उपशान्तः लौकिकसर्वधर्मरहितः । यथा शान्तो वह्निर्भ-
स्मात्मा । व्याकृतेति । लक्षणया सदसद्द्रव्ययोः । एवेति । समाकर्षाधिकरणोक्तवकारोयम् । तत्र शब्दाः
स्वार्थात्तच्याव्यन्त इति । लौकिकेति । लौकिकसर्वधर्मनिषेधपरम् । श्रुत्येकवाक्यतासम्भवादेवकारः ।
इत्यग्रिमेति । अलौकिकसर्वधर्माणां सर्वतः पाणिपादान्तत्वादीनां बोधकेन । तथेति । लौकिकनिषे-
धपरत्वेन निश्चयात् । सर्वत इति । आदिना सर्वतोऽक्षिशिरोमुखत्वम् । तत्रैवेति । वाक्य एव,
नत्वन्यत्र, 'नैवं मां द्रष्टुमर्हसी'त्यंशेन स्फुटतीत्यर्थः । न सार्वात्म्येति । परिच्छेदेन सर्वात्मत्वधर्म-
बाधकम् । एतादृशधर्मोपादानं जीवपरत्वेन प्रतीतानां ब्रह्मपरत्वप्रतिपादनाय । अत इति । सर्वा-
1696