सामग्री पर जाएँ
सर्वकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

इस ग्रन्थ के बारे में

अणुभाष्य महाप्रभु वल्लभाचार्य (जन्म १४७९ ई.) का ब्रह्मसूत्र पर लिखा भाष्य है, जो शुद्धाद्वैत वेदान्त और पुष्टिमार्ग का आधार-ग्रन्थ है। वल्लभाचार्य के मत में ब्रह्म माया से सर्वथा अछूता है, जगत् ब्रह्म का वास्तविक कार्य है, और श्रीकृष्ण की अनुग्रह-रूप पुष्टि-भक्ति मोक्ष का श्रेष्ठ मार्ग है। यह भाष्य वल्लभाचार्य पूरा नहीं कर सके थे; इसका शेष अंश उनके पुत्र गोस्वामी विट्ठलनाथ ने पूरा किया।

ब्रह्मसूत्र के चार अध्याय हैं — समन्वय, अविरोध, साधन और फल — और भाष्य इन्हीं के क्रम में चलता है। इस संस्करण में अणुभाष्य के साथ गोस्वामी पुरुषोत्तमजी की प्रसिद्ध टीका 'भाष्यप्रकाश' और उस पर 'रश्मि' नाम की उप-टीका भी दी गई है, जिससे शुद्धाद्वैत की पारम्परिक व्याख्या पूरे विस्तार से सामने आती है।

स्कैन किए गए आरम्भिक पृष्ठों के अनुसार इसका सम्पादन और भूमिका मूलचन्द्र तुलसीदास तेलीवाला की है, और गोस्वामी श्री श्याम मनोहरजी महाराज ने नई भूमिका लिखी है। अंग्रेज़ी भूमिका में वल्लभाचार्य के जीवन, उनकी यात्राओं (विजयनगर, काशी, अडैल) और उनके दर्शन का परिचय है। पूरे ग्रन्थ में लगभग २६०० पृष्ठ हैं।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ११७
तदव्यक्तमाह हि ॥ २३ ॥ ( ३-२-७. )
शाब्दबलविचारेण विरोधं परिहृत्यार्थबलविचारेणाविरोधप्रतिपादनायाधिक-
रणमारभते । सर्वाणि विरुद्धवाक्यान्युदाहृत्य चिन्त्यन्ते । 'न चक्षुषा गृह्यते' 'कश्चि-
द्धीरः प्रत्यगात्मानमैक्षत्,' 'नापि वाचा' 'सर्वे वेदा यत् पदमामनन्ति' 'अप्राप्य
मनसा सह' 'मनसैवैतदाप्तव्यम्,' 'अस्पर्शमगन्धमरसम्' 'सर्वरूपः सर्वगन्धः
सर्वरसः', 'अपाणिपाद' इत्यादि 'विश्वतश्चक्षु'रित्यादि, 'निर्गुणञ्च' 'यः सर्वज्ञः
सर्वशक्ति'रित्यादिविरुद्धवाक्यानि । न हि वस्तु द्विरूपं सम्भवति । वाक्यद्वय-
मपि प्रमाणम् । तथा सति प्रमाणान्तरानुरोधेनैकस्य स्वार्थे प्रामाण्यम्, अन्यस्यो-
पचरितार्थत्वमिति युक्तम् । तत्र प्रत्यक्षानुरोधेन निर्णयो विचार्यते ।
तत्र पूर्वपक्षमाह । तदव्यक्तम् । तत् ब्रह्म अव्यक्तमेव भवितुमर्हति ।
भाष्यप्रकाशः।
तदव्यक्तमाह हि ॥ २३ ॥ अधिकरणप्रयोजनमाहुः शाब्दबलेत्यादि । तथाच यद्यपि
स्वविचारे तस्यानावश्यकत्वम्, तथाप्यन्यैः ऋषिभिरर्थबलेन विचारस्याङ्गीकृतत्वात् तेनाविचारे
तेषां निर्विशेषपक्षपातात् सविशेषश्रुतिः पीड्येत, विचारिते त्वर्थसामर्थ्ये वस्तुस्वभावादेवोभय-
सम्भवाच्च श्रुतिपीड्येतस्तन्निवारणार्थं तदारभत इत्यर्थः । ननु विरुद्धवाक्येषु चिन्तितेषु
किमवशिष्टं येनार्थबलाद्विरोधोत्थानमित्यत आहुः सर्वाणीत्यादि । सर्वाणीति । प्रमाणाग्राह्य-
त्वतद्ग्राह्यत्वयोर्धर्मराहित्यतद्वत्त्वयोराकारराहित्यतद्वत्त्वयोर्गुणराहित्यतद्वत्त्वयोर्बोधकानि । 'सर्वरूप'
इत्यनेन 'यथामाहारजनं वास' इत्यादिश्रुतिस्तद्विरुद्धा 'अरूपमव्यय'मिति श्रुतिश्च स्मार्यत इति
बोध्यम् । सन्देहमाहुः न हीत्यादि । तथाच लौकिकालौकिकभेदेन व्यवस्थायां कृतायां मास्तु
शब्दे संशयः, तथाप्यर्थे संशयो दुर्वार इत्यर्थः । सन्देहबीजमाहुः वाक्येत्यादि । तत्रं पूर्वपक्षमुत्थाप-
यितुमापाततो निर्णयप्रकारं वदन्ति तथा सतीत्यादि, विचार्यत इत्यन्तम् ।
पूर्वपक्षमाहुः तत्रेत्यादि । यद्यपि पूर्वं सर्वप्रमाणापेक्षया शब्दस्यैव प्राबल्यं निर्णीतम्,
तथापि शब्दस्यार्थसापेक्षत्वादर्थबलेनैव विचारो मुख्य इति श्रुत्यर्थनिश्चयानायार्थबले विचार्ये
रश्मिः।
तदव्यक्तमाह हि ॥ २३ ॥ तस्येति । अर्थबलविचारस्यास्मिन्भगवद्व्याससते शब्दबलसिद्धे-
नावश्यकत्वम् । अन्यैरिति । अत्रैव बादरिप्रभृतिभिः । यथेति । आमाहारेण जनं जननम् । वर्णलोपः ।
वासः शरीरे इत्यनव्ययम् । संशय इति । चक्षुर्ग्राह्यो ग्राह्यो वेत्यादिः । सन्देहबीजमिति । प्रमाणं
विकल्पोत्पादकं बीजमित्यर्थः । 'श्रुतोर्विरोधे विकल्प' इति मनुस्मरणात् । आपातत इति । अविचार
आपातस्तस्मात् । एकदेशिनिर्णयप्रकारम् । पूर्वमिति । प्रथमाध्यायद्वितीयचरणे वैश्वानराधिकरणे । शाब्द-
स्यैवेति । एवकारस्तु 'केवलं शब्दबलविचारका आचार्या' इति 'साक्षादप्यविरोधं जैमिनि' रितिसूत्र-
भाष्यात् । शब्दस्यार्थेति । घटं दृष्ट्वा घटशब्द इति तथा । यद्यप्यर्थस्य शब्दसापेक्षत्वं 'शब्द इति चे'-
दितिसूत्रात्, तथापि पूर्वपक्षग्रन्थस्यानुक्तम् । एवेति । 'अर्थबलविचारको बादरि'रिति तथा । 'केवलार्थवि-
१. तत्रापाततो निर्णयप्रकारं बदन्तः पूर्वपक्षमुत्थापयन्तीति पाठः मूले।
ब्र० सू० २० १८
1673

११८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ७ सू० २४.
कुतः । आह हि । श्रुतिप्रत्यक्षाभ्याम् । 'नेति नेत्यात्मा अग्राह्यो न हि गृह्यत' इति ।
'न हि गृह्यत' इत्यनुभवसाक्षिकं प्रमाणं श्रुतिराह । न हि केनचिदपि चक्षुषा मनसा
वा ब्रह्म दृष्टमस्ति । सर्वरूपत्वे तु सर्वैरेव द्रष्टुं शक्येत । तस्मात् सर्वधर्मवत्त्वेन
प्रतिपादकान्युपचरितार्थान्येव । अनुभवविरोधादित्येवं प्राप्तम् ॥ २३ ॥
अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥
अपीति पूर्वपक्षगर्हायाम् । सर्वथा मूर्खः पूर्वपक्षवादी । यतः संराधने
सम्यक् सेवायां भगवत्तोषे जाते दृश्यते । 'श्रद्धाभक्तिज्ञानयोगादवैहि' 'यमे-
भाष्यप्रकाशः ।
पूर्वपक्षमाहेत्यर्थः । हेतुं व्याकुर्वन्ति आह हीति । हि श्रुतिप्रत्यक्षाभ्यां हेतुभ्यां श्रुतिराह ।
अतस्तदव्यक्तमिति योजना । श्रुतिप्रत्यक्षाभ्यामिति यदुक्तम्, तत्र का श्रुतिः, किं प्रत्यक्ष-
मित्याकाङ्क्षायां तदेव विभजन्ते नेतीत्यादि । अस्यां श्रुतौ कथं प्रत्यक्षप्राप्तिरित्यत आहुः नही-
त्यादि । तदेव विवृण्वन्ति न हि केनचिदित्यादि ॥ २३ ॥
अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४॥ सूत्रं व्याकुर्वन्ति अपीत्यादि । अत्र दर्श-
नसूत्रोक्तो दृशिर्व्यवहितोऽप्यर्थबलात् परामृश्यते । तथाच केवलस्य प्रत्यक्षादेः प्रमाणस्य लौकिकत्वेन
नैर्बल्येपि साधनबलसिद्धस्य तस्यालौकिकत्वेन प्रबलत्वात् केवलानुभवविरोधोऽप्रयोजक इति
साधनसिद्धेन प्रत्यक्षेण निर्णय इत्यर्थः । हेतुं व्याकर्तुं श्रुतिस्मृती उपन्यस्यन्ति श्रद्धेत्यादि । इयं
रश्मिः ।
चारको बादरि'रिति उक्तसूत्रभाष्यात् । नहि केनचिदित्यादीति । सर्वैरेवेति । योग्यत्वादेवकारः ।
उपचरितेति । उपचारो व्याख्यातः । एवकारः सर्वेषां दर्शनाभावात् ॥ २३ ॥
अपि संराधने प्रत्यक्षानुमानाभ्याम् ॥ २४ ॥ केवलस्येति । श्रुतिरहितस्य । पूर्वं
'श्रुतिप्रत्यक्षाभ्या'मित्युक्तत्वात् । प्रत्यक्षादेरित्यत्रादिशब्देनानुमानादि । भाष्ये प्रत्यक्षस्योपलक्षकत्वात् ।
तथा च 'सर्वैरेव द्रष्टुं शक्येते'तिभाष्याद्वह्निरूपत्वे धूमरूपेणानुमातुं शक्येत । गवरूपत्वे उपमातुं शक्येत ।
घटादिरूपत्वे शब्दितुं शक्येतेति बोध्यम् । केवलानुभवेति । केवलस्य धर्मशून्यस्य नीरूपत्वादनुभवो
विरुद्धयते, तद्विषयको न भवतीत्यर्थः । नीरूपत्वसमानाधिकरणो न भवति । तथाच 'मूर्खो देहाद्यहं-
बुद्धि'रिति वाक्यात् अग्राह्यत्वेन प्रकारेण प्रत्यक्षशून्यो देहाद्यहंवादी । अग्राह्यत्वस्योपचरितत्वात् ।
'कश्चिद्धीरः प्रत्यगात्मानमैक्ष'दित्युक्तप्रकारेण प्रत्यक्षशून्यो देहाद्यहंबुद्धिः । ताम्बूलमदशक्तिवदप्यद-
र्शनम् । व्यापकत्वेनाप्यदर्शनम् । किञ्च । आत्मोपनिषदूक्तरीत्यात्मत्वेन देहप्रत्यक्षशून्यः आत्मत्वेनान्त-
रात्मप्रत्यक्षशून्यः । इति भाष्ये सर्वथाशब्दः । एवं देहाध्यासे 'अहं स्थूल' इत्यादौ ह्यस्मच्छब्दः
प्रत्यगात्मवाचको व्याख्यातः । अहङ्कारेऽस्मच्छन्दप्रयोगं कृत्वा भाष्यं यत इत्यादि । देहगेहादि-
ष्वहममेत्यभिमानवता भगवान्न दृश्यते । अभिमानस्य तामसत्वेनाज्ञानकार्यत्वादज्ञानस्य च दर्शनावर-
कत्वात् । यतो यथाकथञ्चिदप्यमूर्खत्वमवलम्ब्य सम्यक्संराधने । करणल्युडन्तं पदम् । सम्यक्संसि-
द्धिर्येन पुष्टिसैवनेन मोक्षावान्तरकालनिर्गमाय तत्संराधनं त्वस्मिन्संराधने तदाहुः, सम्यक्सेवाया-
मिति । ननु सिद्धिजनकोऽन्योपि पदार्थोऽस्तीत्यत आहुः भगवत्तोष इति । 'यद्भक्त्या तुष्यते हरि'-
रिति वाक्यान्नान्यपदार्थो भगवत्तोषजनक इति सिद्धमुपस्थापिका सेवैवात्र व्यासाशयीयेति भावः ।
नन्वधोक्षजत्वात्सेवायामप्यदर्शनमस्त्विति चेत्, तत्राहुः दृश्यत इति । स्वेच्छया दृश्यो भवति । अथवा
1674

यैष वृणुते तेन लभ्यः' 'भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं
च तत्त्वेन प्रवेष्टुं च परन्तपे'ति । द्विविधमपि रूपं दृश्यते । 'ततस्तु तं पश्यते
निष्कलं ध्यायमानः' 'अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूप'मिति
संराधकस्य स्वानुभवः, ध्रुवादीनामनुमापकत्वं च । तस्मात् प्रत्यक्षानुमानाभ्यां
भाष्यप्रकाशः।
कैवल्योपनिषत्स्या । परमेष्ठिना आश्वलायनं प्रत्येतेन साधनेन जानीहीत्यत्रोपदिष्टम् । ज्ञानविषयं
च ब्रह्म सर्वदेवतादिमयं शिवाकारं निराकारं चोपदिष्टम् । द्वितीया काठके मुण्डके च । तत्राद्ये,
'आसीनो दूरं व्रजती'त्याद्युक्त्वोक्ता । तत्राप्यासीनत्त्वादिना साकारताया 'अशरीर'मित्यनेनाना-
कारतायाश्च लाभः । द्वितीयेपि द्वितीयमुण्डके विरुद्धधर्माश्रयं परमात्मानं प्रस्तुत्योक्ता । अत्र 'तनुं
स्वा'मिति कथनात् साकारलाभ इति तत्राप्येवम् । गीतावाक्यं तु विश्वरूपं दर्शयित्वा ततः स्वरूपं
चतुर्भुजाकारं प्रदर्शयोक्तं भगवता । द्विविधमिति । साकारं निराकारं च । तथाच श्रुतिस्मृत्यु-
क्तसंराधकप्रत्यक्षानुरोधेनार्थबले विचारितेपि निराकारं साकार

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-वार लिप्यन्तरण (Markdown प्रारूप में) दिया गया है:

१४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० २ अ० ८ सू० २५
श्रुतिस्मृतिभ्यां वा ब्रह्म साकारमनन्तगुणपरिपूर्णं चेति नाव्यक्तमेवेति निश्चयः ।
अतो लौकिकालौकिकप्रत्यक्षविषयत्वादुभयवाक्यार्थरूपमपि ब्रह्म ॥ २४ ॥
इति तृतीयाध्याये द्वितीयपादे सप्तमं तदव्यक्तमाह हीत्यधिकरणम् ॥ ७ ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥ (३. २. ८.)
पुनः प्रकारान्तरेण पूर्वोक्तमेव स्थिरीकर्तुमधिकरणान्तरमारभते ।
तत्र सूत्रद्वयेन पूर्वपक्षद्वयमाह ।
ननु प्रत्यक्षानुरोधेनोभयविधवाक्यसमाधानं नोपपद्यते, वस्तुशक्त्यैव
निर्णय उचितः, न तु श्रुतिप्रत्यक्षाभ्याम्, यथा प्रकाशाजलसुवर्णादीनामने-
कविधत्वं नाङ्गीक्रियते, सूर्यचन्द्रमणिप्रकाशादिषूष्णशीतानुभवरूपस्पर्शाः प्रती-
यन्ते, न हि तेजसि तावन्तः स्पर्शा अङ्गीक्रियन्ते, जले च हिमतप्तकुण्डा-
दिषु, तथा सुवर्णे वर्णभेदाः, न हि सर्वे स्वाभाविकाः, तेजस्त्वादिखभावहानि-
प्रसङ्गात्, तथा ब्रह्मणोऽप्यवैशेष्यमङ्गीकर्तव्यम्, निर्विशेषं हि ब्रह्मेति सर्वप्र-
सिद्धिः । यकारादेवं साधकाः 'अग्राह्यो न हि गृह्यत' इत्येवमादयः ।
भाष्यप्रकाशः ।
साधनं दर्शनसूत्रादत्राधिकम् । तेन प्रकाशवत्सूत्रोक्तमेव दृढीकृतं ज्ञेयम् ॥ २४ ॥ इति सप्तमं
तदव्यक्तमाह हीत्यधिकरणम् ॥ ७ ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५॥ अधिकरणप्रयोजनमाहुः
पुनरित्यादि । ब्रह्मणः श्रुत्येकसमधिगम्यत्वाच्छ्रुत्यवगतस्वरूपस्यैव बलेनोभयरूपत्वं दृढीकर्तुम-
धिकरणान्तरमुपोद्घातसङ्गत्यारभते । अत्र ब्रह्मस्वभावः संराधकप्रत्यक्षेणावधारयितुं शक्यः, न वेति
संशयः । साधनस्य ज्ञानार्थत्वम्, अग्राह्यश्रुत्या ब्रह्मणो दुर्ज्ञेयत्वं च सन्देहबीजम् । पूर्वपक्षौ तु तत्र
द्वाविति तावाहुः तत्रेत्यादि । पूर्वपक्षद्वयमिति । भक्तप्रत्यक्षेण न निर्णय इत्येकः । श्रुत्यापि
नेत्यपरः । स च द्वितीयसूत्रे फलितकथनेन स्फुटो भवतीति तथेत्यर्थः । कुतो वस्तुशक्त्यैवेत्यतो
दृष्टान्तं व्याकुर्वन्ति यथेत्यादि । एतस्यैव विवरणं सूर्यचन्द्रेत्यादि । एवं साधका इति ।
रश्मिः ।
प्रामाणिकमेव प्रमेयबलाभावादिति तथा । भाष्ये । ध्रुवादीनामिति । 'स्वरूपं द्विविधं चैव सगुणं
निर्गुणं तथे'ति गोपालतापनीयादुभयाविरोधपश्यकानाम् । द्वितीयस्कन्धपञ्चमाध्यायोक्तब्रह्मादिशब्देन ।
गोपालतापनीयोक्तब्रह्मणश्च तादृशोभयधर्मवत्त्वानुमापकत्वम् । ब्रह्म तादृशोभयधर्मवत् । ध्रुवादीनां चक्षु-
र्विषयत्वात् । घटादिवत् । चक्षुर्विषयत्वादूषघटलोभयधर्मवत्त्वम् । अव्यक्तमेवेति । व्यक्तयोगव्यवच्छे-
दक एवकारः । उभयेति । सर्वधर्मप्रतिपादकवाक्यानां धर्मनिषेधकवाक्यानां चार्थरूपम् ॥ २४ ॥
इति सप्तमं तदव्यक्तमाह हीत्यधिकरणम् ॥ ७ ॥
प्रकाशादिवच्चावैशेष्यं प्रकाशश्च कर्मण्यभ्यासात् ॥ २५ ॥ पूर्वोक्तमित्यादि-
भाष्यविवरणं उभयरूपत्वं दृढीकर्तुमिति । अत्र भाष्य एवकारोऽग्रिमसूत्रीयोभयव्यपदेशयोग्य-
व्यवच्छेदकः । उपोद्घातेति । प्रकृतं 'न स्थानतोपि परस्योभयलिङ्ग'मिति सूत्रादारभ्य यदुभयरूपत्वं
तत्सिद्ध्यर्था चिन्ता पूर्वपक्षद्वयचिन्ता । सङ्गता । ताविति । पूर्वपक्षौ । वस्तुशक्त्यैवेति । वस्तु-
शक्त्या निर्दोषत्वरूपया । एवकारस्तु भक्तप्रत्यक्षं चक्षुस्तस्य सदोषत्वायो गस्य व्यवच्छेदकः । भाष्ये ।
अङ्गीति । अस्माभिरङ्गीक्रियन्ते । जले चेति । विचार्यमाणे । हिमकुण्डः प्रसिद्धः । तप्तकुण्डः
१ केवलं तद्वलेनेति मूके पाठः ।
1676

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४१
ननूक्तं तस्य तथा साक्षात्कारात् तादृशश्रुतेश्च नैकविधत्वमङ्गीकर्तुं शक्यत
इति । नैष दोषः । प्रकाशश्च कर्मणि । तपःप्रणिधानादिकर्मणि भगवतः प्र-
काशः । तत्र यथा तेषां कामः, तथा प्रकटीभवति । चकारादप्रकाशोऽन्यथाप्र-
काशो । तत्र हेतुः । अभ्यासादावृत्तेः । यद्येकवारं प्रकटः स्यात्, तदा तद्रूपत्व-
मङ्गीक्रियेतापि । प्रतिभक्तं प्रतिकर्म चाविर्भावः । अतः प्रकाशोपि कृत्रिम एव ।
दीपप्रकाशवत् । अन्यथा सर्वदा स्यात् । तस्मान्न भक्तप्रत्यक्षेण निर्णयः ॥ २५ ॥
अतोऽनन्तेन तथा हि लिङ्गम् ॥ २६ ॥
फलितमाह । अतः अभ्यासात् । अनन्तेन अनन्तरूपेण आविर्भावः । न
ह्येकं वस्तु प्रतिक्षणमन्यादृशं भवति निमित्तभेदव्यतिरेकेण । क्वचित् भक्तका-
म

' ? No:
ता (1) त्प (2) र्ये (3) नो (4) च्छे (5) दा (6) प (7) त्तेः (8)
Wait, let's look at the characters:
ता (1)
त्प (2)
र्यो (3) - wait, is it र्यो?
No, it has: ता-त्-प-र्यो-च्छे-दा-प-त्-तेः - wait, let's count:
ता त्प र्ये नो?
Wait, there is a letter with 'े' and then 'नो'?
No, look at: "तात्पर्येणोच्छेदापत्तेः"?
Wait! 'णो'? 'नो'? It has a loop on the left: 'नो'.
Wait, why not just read what is visible?
"तात्पर्येनोच्छेदापत्तेः"
धर्माश्रयत्वे तात्पर्यवृत्तेर्ज्ञापनाथमित्यर्थः । श्रौतपदस्वारसिकार्थो व्यर्थः सन् किञ्चिज्ज्ञापयति तात्पर्यवृत्ति-
रस्तीति । श्रुतित्वादेवकारः । श्रुतिज्ञापितं सर्वथादरणीयमिति । तच्चेति । विरुद्धधर्माश्रयत्वम् । निर्णी-
तमिति । शास्त्रे योनिः शास्त्रयोनिः शास्त्रोक्ताभिन्ननिमित्तोपा

यहाँ पृष्ठ की प्रत्येक पंक्ति का देवनागरी में लिप्यन्तरण प्रस्तुत है:

भाष्यप्रकाश-रश्मि-परिवृंहितम्। १४३
तत् कथं स्वरूपशक्त्या निर्णयः। ब्रह्म तूभयरूपम् । उभयव्यपदेशात् । उभय-
रूपेण निर्गुणत्वेनानन्तगुणत्वेन सर्वविरुद्धधर्मेण रूपेण व्यपदेशात् । तर्हि कथ-
मेकं वस्त्वनेकधा भासते । तन्नाह । अहिकुण्डलवत् । यथा सर्प ऋजुरनेकाकारः
भाष्यप्रकाशः।
निर्णय इत्यर्थः । एवं तुशब्दं व्याख्याय शेषं व्याकुर्वन्ति ब्रह्मेत्यादि । न केवलं स्वरूपशक्त्या
निर्णीयते, किन्तु श्रुत्युपष्टम्भ्येत्यतो हेतुं विवृण्वन्ति उभयेत्यादि । उभयोर्विरुद्धधर्मयोर्व्यपदेश
उभयव्यपदेशस्तस्मात् । यत्रैवास्थूलादिवाक्ये निर्गुणत्वेन व्यपदिश्यते, तत्रैव 'आकाश ओतश्च
प्रोतश्चे'ति कथनात् कार्यगुणजनकत्वानन्तगुणवत्तापि बोध्यते । तथा, यत्र शारीरब्राह्मणे 'स एष
नेति नेत्यात्मा, अगृह्यो न हि गृह्यत' इत्युच्यते, तत्रापि 'स वा अयमात्मा सर्वस्य वशी सर्वस्ये-
शान' इत्यादिकं पूर्वमुच्यते । 'स वा एष महानज आत्मा अन्नादो वसुदान' इति चानन्तरम् ।
एवं श्वेताश्वतरेपि 'साक्षी चेता केवलो निर्गुणश्चे'त्युक्त्वा, 'एको वशी निष्क्रियाणां बहूनामेकं
बीजं बहुधा यः करोती'त्यादि । तथा तत्रैव 'ततो यदुत्तरतरं तदरूपमनामय'मित्येतदग्रे, 'सर्वा-
ननशिरोग्रीवः सर्वभूतगुहाशय' इति । एवं तैत्तिरीयेपि 'यदेकमव्यक्तमनन्तरूप'मिति, तथा 'विश्व-
तश्चक्षुरुत विश्वतोमुख' इत्यादि चोक्तम् । 'कृत्स्नः प्रज्ञानघन एवे'त्यस्यार्थस्तु प्रागेवोक्तः । तथा
'अथात आदेश' इत्यस्यापि । एतेष्वेवंविधेष्वन्येष्वपि उभयरूपेण व्यपदेशात् । तथाचास्थूलादिवा-
क्यस्य धर्मनिषेधमुखेनेव 'विश्वतश्चक्षु'रित्यादेर्धर्मविधिमुखेनापि ब्रह्मस्वरूपस्यैव निरूप्यतया धर्म-
विधिद्वारा तन्निषेधद्वारा च निरूपकाणां मध्ये एकस्योपजीव्यत्वमन्तरङ्गत्वम्, अन्यस्योपजीवकत्वं
बहिरङ्गत्वमिति निर्णेतुमशक्यत्वेनोभयवाक्ययोस्तुल्यबलत्वादुभयरूपमेव ब्रह्मेत्यर्थः । दृष्टान्तमव-
तारयन्ति तर्हीत्यादि । यद्युभयलिङ्गं ब्रह्म, तदा संराधनसिद्धानां सर्वेषां तथैव प्रकाशेत, न तु
कञ्चित् प्रति कथञ्चित्, अन्यं प्रत्यन्यथा, अत एकं वस्तु कथमनेकधा भासते, तत्र हेतुर्वक्तव्यः,
रश्मिः।
चेत् । न । तात्पर्यवृत्तिविषयस्य विरुद्धधर्माधारत्वस्य तेन प्रकारेणाज्ञानेऽज्ञानरूपत्वादन्यथाज्ञानरूपत्वा-
चाज्ञानान्यथाज्ञानयोरन्तर्भावात् । तत्कथमिति भाष्यं विवृण्वन्ति स्म अत इति । तच्छक्तेरिति ।
वेदपदशक्तेः । इत्यर्थ इति । निर्णयशब्दान्तभाष्यर्थः । स्वरूपेति । प्रमेयबलेन । उभयव्यपदेशश्रु-
त्युपष्टम्भेन । हेतुमिति । स्वरूपं न यथाश्रुतिप्रतिपाद्यं संज्ञतेः मूर्तामूर्तब्राह्मणवत् । स्वरूपं यथाश्रुति-
प्रतिपाद्यं उभयव्यपदेशात् अहिकुण्डलवदित्यत्र सप्रतिपक्षत्वसाधके हेतुम् । यत्रैवेत्येवकारो विरुद्धधर्मा-
धारत्वेन प्रतिपादनसूचक इत्युक्तम्। यत्रान्यत्र धर्मनिरूपणमन्यत्र निषेधस्तत्रारोपापवादसङ्गतिसन्देहोपी-
त्युक्तम्। कार्येति । 'आकाशशरीरं ब्रह्म'तिश्रुतेः 'आकाशो वै नामरूपयोर्निर्वहिते'ति तथा। बोध्यत इति ।
व्यञ्जनया बोध्यते । पूर्वमिति । स्पष्टम्। अनन्तरमिति । 'स एष नेति नेत्यात्मे' त्यस्या अनन्तरम् । प्रागे-
वेति । 'आह च तन्मात्र'मितिसूत्रभाष्यप्रकाशे 'दर्शयति' चेतिसूत्रभाष्यप्रकाशे च । एवकारश्च पश्चाद्योगव्यव-
च्छेदकः । एवंविधेष्विति । 'अपाणिपादो जवनो ग्रहीते'त्यादिषु । धर्मविधिमुखेनेति । धर्मवि-
धानं तत्कथनं तेनोपादेयेन । एवेति । 'वेदैश्च सर्वैरहमेव वेद्य' इति श्रुतेरेवकारः । एवेति । अवधारणं
यथा भवति तथा । एकरूपत्वयोग्यव्यवच्छेदको वा। तथैवेति । सर्वरूपवत्वेन, नत्वेकेन तत्तत्संराधकं
१. आरोपापवादरूपायाः।
1679

१४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ८ सू० २७.
कुण्डलञ्च भवति, तथा ब्रह्मस्वरूपं सर्वप्रकारं भक्तेच्छया तथा स्फुरति । कल्प-
नाशास्त्रे हीदं बाधकम् । अनेककल्पनागौरवं चेति । न तु केवलं श्रुत्येकसमधिगम्ये ।
न च शास्त्रवैफल्यम् । एवं साधनार्थत्वात् । अत्रैव हि सूरिव्यामोहादन्यशास्त्रो-
त्पत्तिः । अतः सर्वविरुद्धधर्माणामाश्रयो भगवान् । न हि प्रमाणश्रुतदृष्टे अनुप-
पत्तिरस्ति, यदर्थं युक्त्यपेक्षा । लोकेपि शरीरान्तःकरणादीनि परस्परविरुद्ध-
भाष्यप्रकाशः।
नो चेद्दर्शनस्याप्रामाण्यं वक्तव्यम्, ततश्च सर्वमेव शिथिलमिति शङ्कायां दृष्टान्तेन समाधिमाहेत्यर्थः ।
दृष्टान्तं व्याकुर्वन्ति यथेत्यादि । भवतीति । तथा सामर्थ्यस्य विद्यमानत्वात् स्वरूपतस्तथास्ति ।
इदमिति । एकस्यानेकधा भानम् । यद्यपि सर्पः कालभेदेन स्वेच्छया तथा तथा भवति, ब्रह्म
[

यामारकत्वादीनि विषयभेदेनेकस्मिन्नपि क्षणे प्रतीयन्ते । तस्मात् सकलविरुद्धधर्मा
भगवत्येव वर्तन्त इति न कापि श्रुतिरुपचरितार्थेति सिद्धम् ॥ २७ ॥
इति तृतीयाध्याये द्वितीयपादेऽष्टमं प्रकाशादिवच्चेत्यधिकरणम् ॥ ८ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ (३. २. ९.)
धर्मस्वरूपविचारेण पूर्वोक्तपक्षद्वयं स्थापयितुमधिकरणारम्भः ।
ननु धर्मा नाम के, ब्रह्मणो भिन्नास्तत्कार्यरूपाः, आहोस्वित् ब्रह्मैवेति संशयः ।
तत्र लोके कार्यस्यैव पटरूपादेस्तद्धर्मत्वात् समवेतत्वात् तन्नित्यतायां प्रमा-
भाष्यप्रकाशः।
तथात्वम् । एतेन 'तत्तद्वपुः प्रणयस' इत्यत्र प्रणयनं तत्तद्धर्मनोविषये प्रापणमेव, न तु करणमिति
बोधितम्। एतच्च 'श्रुतेस्तु शब्दमूलत्वात्' 'सर्वोपेता च तद्दर्शनात्' 'लोकवत्तु लीलाकैवल्य'मित्या-
दिषु यदुक्तम्, तस्यैवेह निगमनमिति न कोपि शङ्कालेशः । सिद्धमाहुः तस्मादित्यादि । एवञ्च
शब्दबलविचारेण विरुद्धसर्वधर्माश्रयो ब्रह्मेति निर्णयः । श्रुत्युक्तयुक्त्या विचारे तु लौकिकध-
र्मशून्यमलौकिकसर्वधर्मयुक्तमिति निर्णयः । अर्थबलविचारे तु विरुद्धसर्वरूपमिति निर्णय इति
बोधनार्थमत्र त्रेधा विचारितम् ॥ २७ ॥ इत्यष्टमं प्रकाशादिवच्चेत्यधिकरणम् ॥ ८ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ अधिकरणप्रयोजनमाहुः धर्मेत्यादि । पूर्वोक्त-
पक्षद्वयमिति । पूर्वाधिकरणे निर्गुणमनन्तगुणपूर्णं च ब्रह्म सिद्धम् । तत्र ये गुणा धर्मास्तेषां स्वरूप-
विचारेण पूर्वोक्तपक्षद्वयम् । शब्दबलविचारसिद्धः 'प्रपञ्चविलक्षणविरुद्धसर्वधर्माधारं ब्रह्मे'त्येकः ।
अर्थबलविचारसिद्धः 'सर्वरूपं ब्रह्म तत्तत्फलदित्सया तत्तत्कार्यार्थं वा तं तं प्रति तथाविर्भवती'त्यपर
इत्येतत्पक्षद्वयं स्थापयितुं तथेत्यर्थः । विषयसंशयावाहुः नन्वित्यादि । धर्मवत्त्वश्रवणमद्वितीय-
श्रुतिश्च सन्देहबीजम् । पूर्वपक्षमाहुः तत्रेत्यादि । ब्रह्मधर्माणां स्वरूपे विचारणीये लौकिकमेव
प्रमाणमनुसर्तव्यम् । श्रुतौ तन्नित्यत्वस्यानुक्तत्वात् । तत्राप्यनुमानमेवाप्रत्यक्षत्वादार्तव्यम् ।
रश्मिः।
स्पष्टम् । 'यन्मनसा ध्यायति तद्वाचा वदति यद्वदति तत्करोती'ति श्रुतेः । तथात्वमिति । एकस्मिन्क्षणे
प्रतीतिविषयत्वम् । प्रतीतिकर्तृत्वं वा । प्रणयनमिति । यत्तद्वपुर्धर्मनोविषये स्थूलदेहे सृष्टे सूक्ष्मप्रापणं गोवि-
न्दावेश इत्यर्थः । एवेति । 'तत्सृष्ट्वा तदेवानुप्राविश'दिति श्रुतेरेवकारः । पुनरुक्तिं वारयन्ति स्म एतच्चेति ।
यदुक्तमिति । द्वितीयाध्याये यदुक्तम् । तस्यैवेहेति । एवकारोऽन्ययोगव्यवच्छेदकः । इहास्मिन्सूत्रे
निगमनं उभयव्यपदेशादिति हेतुघटितत्वात् । तस्माच्चेति निगमनवत् । तस्मादित्यादीति । उपच-
रितार्थेति । गौणार्था ॥ २७ ॥ इत्यष्टमं प्रकाशादिवच्चेत्यधिकरणम् ॥ ८ ॥
प्रकाशाश्रयवद्वा तेजस्त्वात् ॥ २८ ॥ सर्वकल्पनेति । पूर्वपक्षिमतम् । एवकारो
विरुद्धधर्मरूपान्ययोगव्यवच्छेदकः । विरुद्धेति । सिद्धान्तिमतम् । एवकारः सर्वकल्पनाराहित्यरूपा-
न्ययोगव्यवच्छेदकः । नन्वित्यादीति । ब्रह्मैवेत्येवकारो भिन्नरूपान्ययोगव्यवच्छेदकः । लौकि-
कमेवेति । एवकारेण श्रुतिप्रमाणयोगव्यवच्छेदः । अविनाशीतिश्रुतेरन्योर्थ इति । कार्यस्यैवेति ।
१. सर्वकल्पनारहितमेव ब्रह्म पञ्चाद्धर्मयुक्तं भवतीत्येकः । विरुद्धधर्माधारमेव ब्रह्मोक्तं तत्तत्फलदित्सया तत्तत्कार्यार्थं वा
तं तं प्रति तथा तथाविर्भवतीत्यपर इत्येतत्पक्षद्वयम्-इति मूले पाठः ।
ब्र० सू० २० १९
1681

१४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८.
णाभावात् स्वाभाविकत्वमात्रेण नित्यत्वकल्पनायां गौरवापत्तेः 'एकमेवाद्वितीय'-
मिति श्रुतिविरोधाच्च धर्माः प्रपञ्चवत् कार्याः, तथा सति ब्रह्म सर्वकल्पनारहित-
मेव सेत्स्यतीत्येवं प्राप्ते, इवमुच्यते। प्रकाशाश्रयवद्वा । वाशब्दः पक्षं व्यावर्त-
यति । यथा प्रकाशाश्रयाः सूर्यादयः प्रकाशेन न भिन्नाः । पृथक्स्थित्यभावात् ।
समवेतत्वाच्च । मूलाविच्छेदरूपेण तदाधारतया स्थितत्वाच्च । नापि सूर्य एव ।
भाष्यप्रकाशः ।
लोके च कार्यस्यैव पटरूपादेस्तद्धर्मत्वात् तत्समवेतत्वाच्च धर्मत्वलिङ्गके दृष्टान्ताभावेन, नित्यव-
स्तुसमवेतत्वलिङ्गके चानुमाने आकाशत्वस्य दृष्टान्तस्य सत्त्वेपि शब्दादिदृष्टान्तेन हेतोः
साधारणतया तन्नित्यतायां प्रमाणाभावात् । स्वाभाविकत्वं हेतूकृत्याकाशत्वं दृष्टान्तीकृत्य तन्मात्रेण
साधने यद्यपि तत् सिध्यति, तथापि तत्कल्पनायां नित्यवस्त्वन्तरसिद्ध्या गौरवापत्तेरद्वितीयश्रु-
तिविरोधाच्च गौरवस्थाप्रामाणिकत्वात् तथेति । 'तद्व्यक्तमाह ही'त्यनेनोक्त एव पक्ष आदरणीय
इत्यर्थः । समाधिं व्याकुर्वते इदमित्यादि । प्रकाशाश्रयवदिति । प्रकाशस्याश्रयाः प्रकाशा-
श्रयास्तैस्तुल्यम् । प्रथमार्थे वतिः । सूत्रं व्याकुर्वन्ति वाशब्द इत्यादि । पूर्वाधिकरणेऽहि-
कुण्डलदृष्टान्तेनैकस्य ब्रह्मणः सधर्मकत्वनिर्धर्मकत्वसिद्ध्या धर्मानामपि ब्रह्मरूपत्वमेव सिद्धम्, अत्र
तु धर्मधर्मिणोर्भेदाभेदः साध्यते । अन्यथाैतत्सूत्रवैयर्थ्यमेव स्यात् । भिन्नाभिन्नत्वं कार्यकारण-
भावेन पटतद्रूपयोर्धर्मधर्मिभावेन जातिव्यक्त्योर्दृष्टम् । तत्र वाशब्दः प्रथमं पक्षं व्यावर्तयति ।
ब्रह्मतद्धर्मो कार्यकारणभावेनैक्यरूपौ न भवतः, किन्तु यथा प्रकाशाश्रयाः सूर्यादयः प्रकाशेन
सह न भिन्नाः, न विनाभूताः, नित्यसहचारिण इति यावत् । तत्र हेतुः । पृथक्स्थित्यभावात् ।
एवं प्रकाशोपि न सूर्यादिविनाभूत इत्यर्थबलाज्ज्ञातव्यम् । तदेतत् 'समवेतत्वाच्चे'ति चकारेण
समुच्चिन्वन्ति । तत्र हेतुः । समवेतत्वादिति । अयुतसिद्धत्वात् । तज्जन्यधर्मेष्वप्यस्तीति तथा-
त्ववारणाय हेत्वन्तरमाहुः मूलाविच्छेदेति । सर्वेपि भगवद्धर्मा भगवद्विनाभूता भगवदविभक्ता
इत्यर्थः । अत्र यद्यपि पृथक्स्थित्यभावादित्यनेनैव तथात्वसिद्धावपि यद्धेतुद्वयमुक्तम्, तेन प्रपञ्च-
स्याक्षरस्य च भिन्नाभिन्नत्वं निबन्धोक्तं स्मारितम् । एवमभेदे मानमुक्त्वा भेदे मानमाहुः नापी-
त्यादि । प्रकाश इति शेषः । चकार आधाराधेयभावस्य 'परास्य शक्ति'रित्यादिषष्ठीनिर्देशस्य च
रश्मिः ।
एवकारः कारणान्ययोगव्यवच्छेदकः । तद्धर्मत्वादिति । तन्तुमृदादिधर्मत्वात् । तावत्तन्तुकपालादि-
समवेतत्वात् । यद्वा । धर्मी नित्यः धर्मत्वादित्यनुमाने दृष्टान्ताभावेन । धर्मी नित्यः नित्यवस्तुसमवेतत्वात्
आकाशत्ववदित्यत्र । शब्दादीति । एकदेशिमतेन शब्दादि द्रष्टव्यम् । पक्षभिन्ननिश्चितसाध्यवत्त्वं
दृष्टान्तत्वम् । तेन शब्दादिषु पक्षभिन्नेषु निश्चितसाध्यवत्सु । नित्यवस्तुसमवेतत्वरूपहेत्वभावः साध्य-
व्यापकत्वसाधकः । तेनादिशब्दार्थवशे साध्याभाववति नित्यवस्तुसमवेतत्वरूपहेत्वभावात्साधारण्यं साध्या-
भाववद्वृत्तित्वरूपम् । ननु नाकाशदृष्टान्तः निश्चितसाध्यवत्त्वाभावादिति चेन्न । न शब्दादिदृष्टान्ते हेतोः
साधारणता, किन्तु शब्दशब्दस्मारिताकाशहेतोः साधारणता प्रसङ्गः पुरुष इति तथेत्यर्थात् । स्वाभा-
विकत्वेति भाष्यं विवृण्वन्ति स्म स्वाभाविकत्वमिति । धर्मा नित्याः स्वाभाविकत्वात् आकाश-
त्ववत् । नित्यवस्त्विति । जातिसिद्धा । एतादृशत्वम् । भेदे इति सतिसप्तम्यन्तम् ।
भेदसामानाधिकरण्य एतादृशत्वं भिन्ननिष्ठम् । तथेत्यग्रेतनभाष्योक्तम् । अत्रैवकारः विरुद्धधर्माधारत्वकल्प-
1682

भिन्नप्रतीतेर्विद्यमानत्वाच्च । तादृशमेव तद्वस्तूत्पत्तिसिद्धमिति मन्तव्यम् ।
कल्पनायामपि यथा सूर्यप्रकाशयोः कल्पना, एवं ब्रह्मधर्मयोरपि । न ह्यन्यथा
वेदप्रवृत्तिर्निषेधशेषता सत्यज्ञानानन्तानन्दपदानां सामानाधिकरण्यं वा सम्भ-
वति । लक्षणायां तु सुतरामेव धर्मापेक्षा । अतो विशिष्टपदार्थ एव तादृशो वेद-
समुच्चयकः । तेन सिद्धमाहुः तादृशमित्यादि । प्रकाशरूपं वस्तु मूलाद्भिन्नमप्यभिन्नमेवोत्पत्ति-
सिद्धमिति मन्तव्यम् । युक्तिभिरनुचिन्तनीयम् । यथा अमित्रो न मित्रम्, न मित्राभावः, किन्तु
मित्रविरुद्धसम्पत् । यथा चाविद्या न विद्या, न विद्याभावः, किन्तु विद्याविरुद्धं भावरूपमज्ञानम्,
एवं प्रकाशतदाश्रययोरभेदोपि न भेदः, न भेदाभावः, किन्तु भेदविरुद्धसम्पदेव भावरूप इति
विभावनीयम् । सा च सम्पत्, भावरूपत्वे सति स्वाश्रयाविनाभूतत्वं तद्विहायावर्तमानत्वमिति
यावत् । न चेतादृक्त्वमन्योन्याभावरूपे भेदेस्तीति । तथाच कल्पनायामपि यथा सूर्यप्रकाश-
योस्तादात्म्यरूपस्य भेदविरुद्धसम्पदोऽभेदस्य कल्पना, एवं ब्रह्मधर्मयोरपि परबोधनाय कार्ये-
त्यर्थः । नन्वत्र का वा उपपत्तिर्येन धर्माणां सदा सत्तामङ्गीकृत्य तादृशोऽभेदः कल्प्यत इत्यत
आहुः न हीत्यादि । यदि हि स्वाभाविकधर्मसत्तानभ्युपगम्य सर्वविशेषशून्यमेव ब्रह्माङ्गीक्रियते,
तदा केवलचिन्मात्रत्वेन प्रतिपिपादयिषितस्य ब्रह्मणः सकाशात् 'अस्य महतो भूतस्य निःश्वसि-
तमेतद्यदृग्वेद' इत्यादिना श्राविता चेतनधर्मरूपा वेदप्रवृत्तिर्न सम्भवेत् । 'अथात आदेश'
इत्यत्र पराभिमता निषेधशेषतापि न सम्भवेत् । तस्या अपि विशेषत्वात् । 'सत्यं ज्ञानमनन्तं
ब्रह्मे'ति स्वरूपलक्षणश्रुतौ 'विज्ञानमानन्दं ब्रह्म'तिश्रुतौ चोक्तं सत्यादिपदानामेकवस्तुवाचकत्वमपि
नायोगव्यवच्छेदकः । अभिन्नमेवेति । एवेत्यत्र तृतीयालुक् । अवधारणेनेत्यर्थः । नन्वभिन्नमेव
भिन्नमिति कुतो न कल्प्यत इत्यत आहुः नहीति । अभेदे सिद्धं ब्रह्म विरुद्धधर्माश्रयमितिग्रहणात्पृथिवि-
वीवदित्यनुमानेन एतादृशत्वे खण्डब्रह्मवादापत्याखण्डब्रह्मवादो हीयेत । एतां पृथिवीमिव तं पश्यन्ति
भक्ता जनाः । एवमेवान्यस्तु पश्यति इति विवृद्धिकार्ये तादृशं तत्त्वम् । 'त्यदादिषु दृशोऽनालोचने कञ्चे'-
तिसूत्रम् । पूर्वविग्रहास्तु सूत्रस्य सर्वतोमुखत्वाद्यथाकथञ्चिज्ज्ञेयाः । अनालोचनेऽविचारे इत्यर्थमादाय ।
नच वृत्तिविरोधः । श्यालखशोरित्यत्र 'पुमान् स्त्रिये'त्यस्य वृत्त्यनङ्गीकारात् । तथा मनोरमायां तादृशादयस्तु
रूढिशब्दत्वादसत्तार्थावयवार्थेन व्युत्पाद्यन्ते । अतएवाज्ञानार्था दृशेरिति सङ्गच्छत इति । न हि स्वमते
केवलरूढिरस्ति । महाभाष्योक्तयोगेन रूढिशब्दत्वादिति मनोरमाविरोधः । नन्वस्तु विरोध इति चेत् ।
न । 'लोके शब्दार्थसम्बन्धो रूपं तेषां च यादृशम्, न विचारस्तत्र कार्य' इति निषेधात् । तर्हि रूढौ यः
कोपि योगो न भवेदिति चेत् । न । 'लोकसिद्धं प्रस्तुत्य वैदिको बोध्यते यथा,' वैदिकबोधार्थं रूढौ
यथाकथञ्चित् योगोप्यस्तु । आचार्यरोक्तत्वात् । मा भून्महाभाष्योक्तयोग इति रूढ्यभावात् । नच
माध्वानां भेदे एतादृशत्वमस्तीति वाच्यम् । उभयव्यपदेशाधिकरणे चतुःसूत्रे आनन्दादिरूपोपि श्रुतिबला-
दानन्दगुणकोपीति सर्वत्र माहात्म्यमेवोच्यते मत्वर्थमित्यर्थात् । कल्पनायामिति भाष्यं विवृण्वन्ति
स्म तथाचेति । वस्तुनस्तादृशत्वे विरुद्धधर्माश्रयत्वे उत्पत्तिसिद्धे सति । तादृश इति । तादात्म्यरूपः ।
एवेति । विरुद्धधर्माश्रयत्वरूपान्ययोगव्यवच्छेदकः । निषेधेति । मूर्त्तामूर्त्तस्य विवर्त्तत्वेन तथा । तस्या
इति । निषेधशेषतायाः । विशेषत्वं विवर्तत्वं तस्मात् । सत्येत्यादिभाष्यं विवृण्वन्ति स्म सत्यमित्या-
दिना । एकेति । भिन्नप्रवृत्तिनिमित्तत्वे सत्येकार्थबोधकत्वं सामानाधिकरण्यम् । भाष्ये तस्यार्थः ।

१४८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८.
भाष्यप्रकाशः।
न सम्भवेत् । तेषां सत्यत्वादिविशिष्टवाचकत्वात् , सत्यत्वादीनां च धर्मत्वात् । नच सत्यादिपदानां
लक्षकत्वमेव । असत्यजडसान्तदुःखव्यावृत्तमेकरूपमेव ब्रह्म लक्ष्यत इति न तेषां सामानाधिकर-
ण्यभङ्ग इति वाच्यम् । लक्षणायां तु सुतरां धर्मापेक्षा । निर्धर्मकस्य क्वापि लक्ष्यत्वादर्शनात् ।
लक्षणायाः शक्यसम्बन्धरूपत्वेन ब्रह्मणि सत्यादिपदशक्यसम्बन्धलक्ष्यत्वयोर्धर्मयोरापाताच्च ।
किञ्च । लक्ष्यत्वे यत्किञ्चिच्छब्दवाच्यत्वमप्यर्थादेवायातम् । लक्ष्यत्वस्य वाच्यत्वव्याप्यत्वात् ।
यत्तु लक्ष्यत्वे सधर्मकत्वस्योपाधित्वान्न व्याप्तिरिति कश्चित् ।
तन्न । लक्ष्यत्वेनैव धर्मेण ब्रह्मणः सधर्मकत्वे सिद्धे सधर्मकत्वस्य साधनव्यापकतयोपा-
धितानिवृत्तौ व्याप्तेः सुस्थिरत्वात् । नच वाङ्निवृत्तिश्रुत्या अवाच्यत्वे ब्रह्मणः सिद्धे सधर्मकत्वस्य
नोपाधितानिवृत्तिरिति वाच्यम् । तस्याः सामस्त्येन वदनासामर्थ्यपरत्वात् । अप्राप्येति प्रपञ्चेन
तथावसायात् । अप्राप्येत्युक्त्यापि तन्निवृत्तिसिद्धेः लक्षण्या वाचः प्राप्त्यापि निवृत्त्यसिद्धेश्च ।
रश्मिः ।
विशिष्टेति । द्वितीयस्कन्धसुबोधिन्याम् । विशिष्टवाचकत्वम् । प्रस्थानरत्नाकरे तु व्यक्तिमात्रवाचकत्व-
मुक्तम् । भावार्थपादभाष्येण जातिमात्रवाचकत्वमुक्तप्रायम् । आकृतौ शक्तेः पूर्वमीमांसायामिति ।
शास्त्रद्वयभेदेन पक्षद्वयम् । व्यक्तिमात्रवाचकत्वपक्षस्तु सूक्ष्मग्रन्थाभिप्रायेण । 'नाहं वेदैर्न तपसा'
'भक्त्या त्वनन्यया' 'आचार्यवान्पुरुषो वेदे'ति 'महतामन्तःकरणं प्रमाण'मिति च । लक्षणायामिति भाष्यं
विवरीतुमाहुः नचेति । एवेति । सविशेषत्वापत्त्या एवकारो वाच्यत्वयोग्यव्यवच्छेदकः । कुत इत्यत
आहुः असत्येति । सत्यत्वमसत्यत्वाभावरूपमधिकरणात्मकं सदसत्त्वव्यावृत्तम् । एवं ज्ञानत्वमज्ञानत्वा-
भावरूपमधिकरणात्मकं सत् जडव्यावृत्तम् । एवमनन्तत्वं अनन्तत्वाभावाभावरूपमधिकरणात्मकं सत् सान्त-
व्यावृत्तम् । एवं आनन्दत्वमानन्दत्वाभावाभावरूपमधिकरणात्मकं सत् दुःखव्यावृत्तम् । प्रतिकूलवेदनीयं
दुःखम्, अनुकूलवेदनीयं सुखम् । आनन्दः सुखम् । एवेति । अस्थूलादिश्रुतेरेवकारः । लक्ष्यत इति ।
सत्यादीनां सत्यत्वाभावाभावे लक्षणा । स्वाभावप्रतियोगित्वसम्बन्धः । तेन सम्बन्धेन सम्बद्धं क्रियते
ज्ञानविषयीक्रियते । भाष्यं विवृण्वन्ति स्म लक्षणायामिति । लक्ष्यत्वेति । लक्ष्यार्थत्वादर्शनात् । सत्या-
दीति । सधर्मकत्वापत्त्या सत्यादिपदशक्यः सत्यत्वादिविशिष्टः सत्यादिः तस्य सम्बन्धः स्वरूपात्मकः ।
लक्ष्यत्वं च उक्तसम्बन्धरूपलक्षणायोग्यं लक्ष्यं तस्य भावो लक्ष्यत्वम् । लक्षयितुं योग्यं लक्ष्यत्वम् । तयो-
रित्यर्थः । यत्किञ्चिदिति । लक्ष्यादिशब्दवाच्यत्वम् । एवेति । अवधारणेनागतम् । लक्ष्यत्वस्येति ।
यथा तीरं वाच्यं लक्ष्यत्वात्, एवं ब्रह्म सत्यादिशब्दवाच्यं लक्ष्यत्वात्, गङ्गातीरवत् । वाच्यत्वेति ।
वाच्यत्वन्यूनदेशवृत्तित्वात् । लक्ष्यत्व इति । हेतौ । उपाधित्वादिति । यत्र वाच्यत्वम्, तत्र सधर्म-
कत्वमिति साध्यव्यापकता । ब्रह्मणोपि यत्किञ्चिच्छब्दवाच्यत्वं लक्ष्यत्वेन सधर्मकत्वम् । यत्र लक्ष्यत्वम्,
तत्र सधर्मकत्वमिति नास्ति । ब्रह्मणि लक्ष्यत्वातिरिक्तधर्माभाववति सधर्मकत्वाभावात् । साध्यव्यापकत्वे
सति साधनाव्यापक उपाधिस्तत्त्वात् । न व्याप्तिरिति । यत्र यत्र लक्ष्यत्वम्, तत्र तत्र वाच्यत्वमिति
व्याप्तिः सा न । एवेति । लक्ष्यत्वेतरधर्मयोग्यव्यवच्छेदकः । साधनेति । यत्र लक्ष्यत्वं तत्र सधर्मकत्वा-
भावाभावान्न । नोपाधितेति । वाच्यत्वाभाववति ब्रह्मणि लक्ष्यत्वेन सधर्मकत्वस्य सत्त्वात्साध्य-
व्यापकत्वाभावात्तयेत्यर्थः । यद्वा । श्रुतिबलेन लक्ष्यत्वेपि लक्ष्यस्यावाच्यत्वे सधर्मकत्वस्य लक्ष्यत्वरूप-
हेतुमति विरहान्नोपाधितानिवृत्तिः । तस्या इति । 'यतो वाच' इति श्रुतेः । ईक्षत्यधिकरणभाष्येण
तथा । अप्राप्येति । श्रौतेन । तन्निवृत्तीति । वाङ्निवृत्तिसिद्धेः । वाच इति । ब्रह्म लक्ष्यमिति
1684

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १४९

सिद्ध इति मन्तव्यम् । तत्र हेतुः । तेजस्त्वात् । तेजःशब्दवाच्यत्वात् । बहुहू-
भाषप्रकाशः।
सर्वथा अप्राप्तौ 'यतो वाच' इति यच्छब्दस्यापि ब्रह्माप्राप्त्या तदज्ञाने कुतो निवर्तन्ते वाच इति
ज्ञानानुदयेन वाक्यस्याबोधकताप्रसक्तेरनिरुक्तश्रुतिविरोधप्रसक्तेश्च । किञ्च । सत्यादिपदानां ब्रह्मणि
शक्त्यभावे ब्रह्मातिरिक्तानां चासत्यजडादिरूपत्वात् तेष्वपि तच्छत्त्यभावे तेषां पदानामनर्थकत्वेन
शक्यसम्बन्धरूपा लक्षणा नितरां सिध्येदिति स्वरूपलक्षणमप्यबोधकमेव स्यात् । ततश्च विचार-
शास्त्रस्य मोक्षस्य च तिलाञ्जलिरेव दीयेत । अथ व्यावहारिकं सत्यज्ञानादिकं तेषां शक्यमिति
तत्सम्बन्धस्य ब्रह्मणि भवनान्न कोपि दोष इति विभाव्यते । तदा तु तस्यैव धर्मत्वान्न ब्रह्मणो
यावद्धर्मरहितत्वसिद्धिरिति लक्षणायां सुतरां धर्मापेक्षा । अतो धर्माणामावश्यकत्वादस्य शास्त्रस्य
वेदानुरोधित्वात् वेदवाक्यानां च ब्रह्मबोधकतया सर्वेषां तुल्यबलत्वेन धर्मविशिष्ट एव पदार्थो
( निर्धर्मको ) विरुद्धधर्माश्रयो वेदसिद्ध इति मन्तव्यमित्यर्थः ।
धर्मधर्मिणोरभेदबोधकं रूपं वक्तुं हेतुं व्याकुर्वन्ति तेजःशब्दवाच्यत्वादिति । 'तद्देवा
ज्योतिषां ज्योतिः', 'अथ यदतः परो दिवो ज्योतिर्दीप्यते,' 'भारूपः, तस्य भासा सर्वमिदं विभाति,'
'यदादित्यगतं तेज' इत्यादौ ब्रह्मतद्धर्मयोस्तेजोवाचकशब्दवाच्यत्वात् । तथाच प्रकाशकस्वभा-
वत्वात् सूर्यतत्प्रकाशयोर्यथा भेदविरुद्धसम्पदभेदः, तथा ब्रह्मतद्धर्मयोरपि प्रकाशकत्वाच्चेत्यर्थः ।
ननु पूर्वसूत्रेण ब्रह्मण उभयरूपत्वे विरुद्धधर्माश्रयत्वे तं तं प्रति तथा प्रदर्शने च सिद्धे धर्माणां
रश्मिः।
वाचःप्राप्त्यापि वाङ्निवृत्तिसिद्धेश्च । वाक्यस्येति । अवधिघटितयत इतिवाक्यस्य 'मम माता वन्ध्ये'ति
वाक्यवदनर्थकपद्घटितत्वादबोधकताप्रसक्तेः । अनिरुक्तेति । 'एष ह्येवानन्दयाती'त्युक्त्वाग्रे पठ्यते
'यदा ह्येवैष एतस्मिन्नदृश्येऽनात्म्येऽनिरुक्तेऽनिलयने अभयं प्रतिष्ठां विन्दते, अथ सोऽभयं गतो भवती'ति ।
न निरुक्ते अनिरुक्ते । अत्र निरुक्तत्वे प्राप्तेऽनिरुक्त इति प्रतिषेधसम्भवात्तथा । यद्यप्यभावज्ञानेन
प्रतियोगिज्ञानं सर्वत्र कारणम् । 'अग्निचयनस्य न देवी'ति श्रुत्या दिवि निषेधात्, तथापि विरुद्धधर्मा-
श्रयप्रकरणादियमेवमुक्ता । अथेति । भिन्नप्रक्रमेऽनिरुक्ते प्रतिष्ठांरूपभक्तिं विन्दते लभते । अथ स
उपासको भिन्नमोक्षविषयं गतो भवतीत्यर्थात् । कस्माद्भिन्नमोक्षविषय इति चेत्, साधनविषयाद्भिन्न-
विषयोऽधोक्षजः । पुष्टिमार्गीयम् । साधनविषयफलयोर्भेदादिति । तत्वायामीत्यत्राप्ययं बोध्यः संध्यायाम् ।
अनर्थकत्वेनेति । तथा शक्यार्थाभावेन शक्यसम्बन्धेत्यादिः । अपीति । अपिना कार्यलक्षणम् ।
उभयलक्षणयोरबोधकत्वादेवकारो बोधकत्वरूपअन्ययोगव्यवच्छेदकः । विचारेति । उत्तरमीमांसा-
शास्त्रस्य । तिलाञ्जलिरेवेति । विचारशास्त्रस्य मोक्षस्य च पदजन्यपदार्थोपस्थितिसाध्यत्वादेवकारः ।
व्यावहारिकमिति । ध्वंसप्रतियोगि । शक्यमिति । शक्यार्थवस्तु । लक्षणायामित्यादिभाष्यार्था-
नुवादपूर्वकमत इत्यादिभाष्यं विवृण्वन्ति स्म तदा त्विति । एवमनूद्य अत इत्यादिभाष्यं विवृण्वन्ति
स्म अत इत्यादि । एव पदार्थ इति । धर्मविशिष्टः पदार्थ एवेत्यन्वयः । पदार्थैकदेशेनान्वयानुपपत्तेः ।
अयमुभयव्यपदेशसूत्रात्निर्धारणेनेत्यर्थक उक्तः । तादृशपदार्थमाहुः निर्धर्मक इति । तथाच श्रुतिः
'स्वरूपं द्विविधं चैव सगुणं निर्गुणं तथे'ति गोपालतापनीयश्रुतेः । अत्र स्वरूपतावच्छेदकं सगुणत्वं
निर्गुणत्वं चोक्तम् । तेजोवाचकेति । 'ज्योतिषां ज्योति'रिति, 'दिवो ज्योति'रिति, 'तस्य भासे'ति
च प्रत्येकं षष्ठ्यवधिघटिताभ्यां तेजोवाचकशब्दाभ्यां वाच्यत्वात् । तथाच सूत्रे तेजःपदं तेजस्त्वेन
शब्दार्थसाधारणमुक्तं तत्तेजोवाचकमतस्तेजःशब्दवाच्यत्वादयमर्थो भवति । उभयसमावेशात् । तं त-
१. अन्तिमावृत्तौ लोपितम् ।

1685

१५० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २८.
व्याप्यावर्यमेव हेतुरुक्तः । आतपादैर्धर्मत्वेन धर्मित्वेन च प्रतीतेः । अपूर्ववदेव
दृष्टत्वाच्छुतत्वाच्च न धर्मेष्वपि युक्त्यपेक्षा । तस्मात् सिद्धं यथाश्रुतमेव
ब्रह्मेति ॥ २८ ॥
भाष्यप्रकाशः।
ब्रह्मणा सह भिन्नाभिन्नत्वमात्रं साधनीयम्, तत्तु प्रकृतदृष्टान्तमात्रेणैव सिद्ध्यतीति हेतूक्तेः किं
प्रयोजनमित्याकाङ्क्षायां तत्प्रयोजनमाहुः बहुदूरेत्यादि । अवतारदशायां सृष्टिदशायां च ब्रह्मणो
व्यापकत्वतिरोभावे धर्माणां स्वभावतो बहुदूरव्याप्त्यर्थमेव तद्व्यापकस्तेजःस्वरूपो हेतुरुक्त
इत्यर्थः । तेजसि तथात्वस्य दृष्टत्वादिति । तथाचोक्तं विष्णुपुराणे प्रथमांशसमाप्तौ 'एकदे-
शस्थितस्येन्दोर्ज्योत्स्ना विस्तारिणी यथा । परस्य ब्रह्मणः शक्तिस्तथैदमखिलं जगत् । तत्राप्यास-

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५१
पूर्ववद्वा ॥ २९ ॥
एकदेशिमतेनापि सर्वसमाधानमाह । अथवा । 'अरूपवदेव ही'त्यादिपञ्च-
सूत्र्या यः सिद्धान्तः कथितः, तादृशं वा ब्रह्म प्रतिपत्तव्यम् ।
अयमाशयः । वेदस्थापनार्थं हि प्रवृत्तिः । तत्र यथा अक्षरमात्रस्यापि
बाधो न भवति, तथा वक्तव्यम् । यदर्थमुभयरूपता अङ्गीकृता, तत्र धर्माणां
भाष्यप्रकाशः।
पूर्ववद्वा ॥२९॥ सूत्रमवतारयन्ति व्याकुर्वन्ति च एकेत्यादि । अथेत्यादि च । वाश-
ब्दः पक्षान्तरे । पूर्ववत् । 'अरूपवदेव ही'ति पञ्चसूत्र्या यः सिद्धान्तः कथितः, प्रपञ्चविलक्षणं
तत्समवायित्वेपि न तत्प्रकारकम्, नापि समवायिमात्रम्, किन्तु ततोप्यतिरिक्तं कृत्स्नं चिन्मात्र-
स्वरूपं यदा आविर्भवति, तदा व्यवहार्यं भवति । तत्र जडजीवधर्मा औपचारिक इत्येवंरूपः ।
तादृशं कारणरूपं ब्रह्म प्रतिपत्तव्यमित्यर्थः । एतन्मताभ्युपगमे बीजं व्युत्पादयन्ति अयमित्यादि ।
तथाच यत् पूर्वोपगमे बीजम्, तदेवात्रापीत्यर्थः । बीजमुक्त्वा पञ्चसूत्रीसिद्धस्य प्रकृते यथा
विवक्षितत्वम्, तयोपपादयन्ति तत्र धर्माणामित्यादि । तस्मिन् पक्ष एकदेशिप्रतिपन्नमौप-
चारिकत्वं दूषयित्वा नित्यप्राप्तत्वेन स्थापितानां धर्माणां स्वरूपस्य वृत्तिमत्त्वस्य निर्वाहार्थं सविशे-
षनिर्विशेषभेदेन ब्रह्मवैलक्षण्यमङ्गीकर्तव्यम् । ततो वैलक्षण्येन भेदे सत्यद्वितीयत्वश्रुतिर्बाध्येत ।
तथाच तदभावायोत्पत्त्या विचारः कर्तव्यः । यो यथा यथा परिणमते, स तत्तद्भावानपि पूर्वमव्यक्तः
घटपटदध्यादिरूपेण परिणममानमृत्तन्तुदुग्धादिवदिति । एवमुत्पत्त्या विचारे कारणभूतं निर्धर्म-
कमेव ब्रह्म सेत्स्यतीति पूर्वं तादृशमेव प्रतिपत्तव्यम् । ततश्च ब्रह्माहिकुण्डलवदुभयरूपम्, तद्धर्माः
प्रकाशाश्रयवद्भिन्नाभिन्ना इत्युपपत्त्या विचारोपि कारणरूपानुरोधेनैव कर्तव्यः । तत्र कथं
कर्तव्य इत्याकाङ्क्षायां कारणविचारे श्रुतावेकविज्ञानेन सर्वविज्ञानस्य प्रतिज्ञातत्वाद्धर्माणामपि ब्रह्म-
रूपत्वं वक्तव्यम् । तदैव तदुपपद्यते, न तु धर्माणां नित्यभिन्नत्व आविद्यकत्वे वा । आद्ये भिन्न-
त्वेन, द्वितीये मिथ्यात्वेन च तत्प्रतिबन्धात् । नचाविद्यकत्वेप्यसत्यव्यावृत्तत्वेन सत्यरूपब्रह्मज्ञाने
[L2

१५२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० २ अ० ९ सू० २९.
स्वरूपनिर्वाहार्थमवश्यं ब्रह्मवैलक्षण्यमङ्गीकर्तव्यम् । तथा सति 'एकमेवाद्वितीय'-
मिति बाधः प्रसज्येत । तथाचोत्पत्त्या विचारे निर्धर्मकमेव पूर्वं ब्रह्मेति
प्रतिपत्तव्यम् । उपपत्त्यापि विचारः पूर्वानुरोधेनैव कर्तव्यः । तत्र धर्मा-
णामपि ब्रह्मत्वे एकविज्ञानेन सर्वविज्ञानमुपपद्यते, नान्यथा । ततश्च प्रथमं
ब्रह्म स्वधर्मरूपेण भवति । तदनु क्रियादिरूपेण प्रपञ्चरूपेण च । तावतैव
सर्ववेदार्थसिद्धेः । नच लौकिकी युक्तिस्तत्रापेक्ष्यते, येन तादृशस्य कथं
सर्वभाव इति पर्यनुयोगो भवेत् । धर्मकल्पनायामपि 'नैषा तर्केण मतिरापनेये'ति
भाष्यप्रकाशः ।
एकविज्ञानेन सर्वविज्ञानं भवत्येवेति शङ्क्यम् । मृत्पिण्डादिदृष्टान्तोपरोधेन जायमानस्य तस्याप्रयो-
जकत्वात् । अतो धर्माणां ब्रह्मत्व एवैकविज्ञानेन सर्वविज्ञानोपपत्तिः, नान्यथा । तस्मात् तत्तथेत्या-
युक्तप्रकारेण धर्माणां ब्रह्मकार्यत्वात् ब्रह्मरूपत्वमङ्गीकर्तव्यम् । तावतैव सर्ववेदार्थाविरोधसिद्धेः ।
नच पूर्वमव्यक्तस्य पश्चात् व्यक्तत्वं लोके हेत्वन्तरसमवधानादेव दृष्टमितीतरासद्भावे निर्धर्मकस्य
कथं धर्मरूपेण भवनमिति शङ्क्यम् । ब्रह्मणो वेदैकसमधि

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५३
समानम् । उत्पत्त्या चोपपत्त्या च विचारद्वयम् । उपपत्त्या पूर्वनयनं स्वसिद्धान्तः ।
भाष्यप्रकाशः।
ॠव्याख्योक्तप्रकारिकया उत्पत्त्या, पूर्वसूत्रव्याख्योक्तप्रकारिकया उपपत्त्या च अस्मिन्नधिकरणे
विचारद्वयम् । तयोर्मध्य उपपत्त्या पूर्वनयनम् । मैत्रेयीब्राह्मणे 'स यथा सैन्धवघन' इत्यादिना
चिन्मात्रत्वेन प्रतिपादितस्यैवात्मनः 'अविनाशी वा अरे अयमात्मा अनुच्छित्तिधर्मे'त्यनेन स्वरूपा-
विनाशधर्मानुच्छित्त्योः कथनेन स्वरूपधर्मयोर्नित्यत्वबोधनात् । 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति स्वरूप-
लक्षणस्ये सत्यपदेपि 'सत्यस्य सत्य'मिति नामधेयतन्निर्वचनयोरनुरोधेन मूलसद्रूपत्वमूलत्यरूपत्व-
योरपि बोधनात् । नृसिंहोत्तरतापनीये तुरीयनिरूपणे तुरीयस्य प्रपञ्चोपशमत्वमुक्त्वा, 'ईश्वरग्रासः
खराट् स्वयमीश्वर' इति ईश्वरत्वश्रावणात् । तैत्तिरीये 'यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः
परस्ता'दिति प्रपञ्चात् परस्य कारणस्य ऐकत्वादिसप्रपञ्चधर्मवत्त्वश्रावणात्, द्वितीयस्कन्धे भगवता
'पश्चादह'मिति, तृतीयस्कन्धे मैत्रेयेण 'यथेदानीं तथाचाग्रे पश्चादप्येतदीदृश'मिति, विष्णुपुराणे
प्रथमेंशे 'तदेतदक्षयं नित्यं जगन्मुनिवराखिलम् । आविर्भावतिरोभावजन्मनाशविकल्पव'दिति
रश्मिः।
तौल्यात् । यथा विरुद्धधर्मकल्पनायां 'नैषा तर्केणे'ति श्रुतिः, तथासन्मतेपीति तौल्यात् । एकदेशिमते-
ऽरूपवत उत्पत्तिर्नैयायिकयुक्तिविरुद्धेति 'नैषा तर्केणे'ति श्रुतेर्विरुद्धधर्माश्रयत्व इव प्रवृत्तेः तस्यैकदे-
शिमतस्याप्यादरणम् । श्रुत्यर्थस्तु । बहुभिरन्याचार्यग्रन्थैरपि । आश्चर्य इति । आश्चर्य सति वक्तति
वचनप्रयोजक आश्चर्य एव वक्ता आश्चर्यवसो वा ब्रह्मरूपः तत्र प्रविष्टः । अर्शाआद्यजन्तो वा । अनुशिष्टः
दत्तात्रेयवद्धूर्वनुशिष्टः । अवरः जगद्रूपः न सुविज्ञेयः, किन्तु भगवान् सुविज्ञेयः । जगत्तु तज्जलान्त्वेन ।
अनन्येति । अपृथग्दर्शनेनाचार्येण प्रोक्ते आत्मगतिरन्यत्र परब्रह्मणि नास्ति । यतोऽणीयान् 'अणुः
पन्था विततः पुराणः' इति द्वितीयाध्याये चिन्तितम् । नहि अतर्क्यम् । 'अलौकिको हि वेदार्थो न
युक्त्या प्रतिपद्यते । तपसा वेद्युत्त्या तु प्रसादात्परमात्मनः' इति श्रुतेर्नहि अतर्क्यम् । अणु ब्रह्म प्रमाणं
प्रमाणप्रेरकत्वेन मुख्यत्वात् । अन्येनेति । आगमाभिज्ञेनाचार्येण गतिम् । त्वादिति । त्वत्सदृशः । शं
कल्याणम् । सोः शेः । इतिहेतोः । अध्रुवैः साधनैरिति । अयमिति । विरुद्धधर्माश्रयपक्षः । पश्चात्
एकदेशिमतात्पश्चात् । पूर्वत्रेति । एकदेशिमते । उत्पत्त्येति । विरुद्धधर्मोत्पत्त्या । पूर्वसूत्रे
प्रकाशाश्रयवत्सूत्रे । व्याख्योक्तेति । कल्पनायामपीत्यादिव्याख्योक्तप्रकारिकया । उपपत्येतिभाष्यं
विवृण्वन्ति स्म तयोरिति । पूर्वनयनमिति । पूर्वस्य पक्षस्य नयनम् । एवेति । अन्ययोगव्यवच्छेदकः ।
कथनेनेति । अनुच्छित्तिर्धर्मो यस्येति विग्रहे पुनरुक्तिरतो न उच्छित्तिर्नाशो येषां तेऽनुच्छित्तयः अनु-
च्छित्तयो धर्मा यस्येति विग्रहात्तथा । स्वरूपेति । स्वरूपं च धर्मश्च तयोः । एतदादयो हेतवः । स्वसिद्धान्त
इति भाष्यविवरणस्य व्यासचरणानां सिद्धान्त इति ग्रन्थस्य । सत्यपदेपीति । अपिना मूर्तामूर्तब्राह्मणीय-
'प्राणा वै सत्यं तेषामेष सत्य' मित्युक्तसत्यपदे । 'सत्यस्य सत्य' मिति ब्रह्मस्तुतौ । नामधेयं स्वरूपलक्ष-
णस्थम्, निर्वचनं ब्रह्मस्तुतिरूपम्। यद्यपि नामधेयं त्रैकालिकाबाधविषयम्, तथापि विरुद्धधर्माधारत्वायाहुः
मूलेति । मूलसद्रूपपदत्वं मूलत्यरूपपदत्वं तयोः । सन्मूर्तं त्यममूर्तं मूर्तामूर्तब्राह्मणे स्फुटं । ईश्वरत्वेति ।
श्रुत्यर्थस्तु प्रपञ्चस्योपशमो यत्रेति निर्धर्मकम्। पूर्वोक्तं प्राज्ञं ईश्वरं ग्रसतीतीश्वरग्रासः कर्मण्यण् । ओतत्वे-
नेश्वरग्रासत्वमनुज्ञातृत्वेन स्वराट्त्वमनुज्ञात्वेन स्वयमीश्वरत्वमिति सधर्मकम् । अनन्तरूपमिति । व्यक्तम् ।
श्रुतीरुक्त्वोपबृंहणमाहुः द्वितीयस्कन्ध इति । भगवदिति । आदिनैकरूपत्वालक्ष्यत्वाविर्भावतिरोभा-
१. आदर्शेषु एतत्त्वादिसप्रधर्मेति पाठः, काशीपुस्तके प्रपञ्चधर्मेति पाठः, मूलपुस्तके इदं नास्ति, अतोपेक्षितपाठो
रक्षितः । मूलेऽभावाद्भ्रमो न विस्मृत इति ।
२० ब्र० सू० २०
1689

एकदेशिनस्तद्विपरीतम् । उभयमपि सूत्रकारस्य संमतमिति ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥
एकदेशिमते उपपत्त्यन्तरमाह । 'एकमेवे'त्युक्त्वा पुनः 'अद्वितीय'मिति
भाष्यप्रकाशः ।
पराशरेण च भगवद्रूपत्वादिनैव तदुपबृंहणाच्च विरुद्धधर्माधारत्वलौकिकयुक्त्यगम्यत्वविदिताविदित-
परत्वानिरुक्तस्वरूपाणां श्रुत्युक्तयुक्तीनां अनन्तगुणपूर्णत्वपक्षेपि तुल्यत्वात् युक्त्या कारणरूपस्यैवम-
विरोधानुकूल्यप्रापणं व्यासचरणानां सिद्धान्तः । द्वितीयस्कन्धे 'नास्य कर्माणि जन्मादौ परस्यानु-
विधीयत' इति मुख्याधिकारिणामर्थे जन्मकर्मनिषेधकथनेन सद्रूपत्वबोधनात् । एकदेशिन-
स्तु पूर्वोक्तरीत्या कालभेदेनाविरोधप्रापणमिति व्यासोक्तपक्षाद्विपरीतम् । तस्य पक्षस्य द्वितीय-
स्कन्ध एव 'इत्थं भावेन कथितो भगवान् भगवत्तमः । नेत्थं भावेन हि परं द्रष्टुमर्हन्ति
सूरय' इति मध्यमाधिकारिपरतयोक्तत्वेन इतो न्यूनत्वात् । एतावान् परं विशेषः, यत्पुराणे माया-
द्वारकं कर्तृत्वादि, श्रौते मते तु तन्नेत्येकदेशिमतं तत उत्तमम् । तथापि 'अनुच्छित्तिधर्मे'त्यादि-
श्रुतीनां 'पश्चादह'मित्याद्युपबृंहणानां चाज्ञास्याभावेन न तथोपपन्नम् । एवमपि सत्येकविज्ञानेन
सर्वविज्ञानप्रतिज्ञायाः कर्तृत्वादिश्रुतीनां च नासामञ्जस्यमित्यल्पदोषदुष्टत्वेन सूत्रकारादृतम् । अत
उभयमपि सूत्रकारस्य संमतमित्यर्थः ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥ सूत्रमवतारयन्ति एकदेशीत्यादि । भगवन्माहात्म्यबोधकत्वेपि
किञ्चिद्दोषपादनादरो मा भूदित्यत एकदेशिमते उपपत्त्यन्तरमाहेत्यर्थः । व्याकुर्वन्ति एकमेवे-
रश्मिः ।
वजन्मनाशविकल्पवत्त्वानि । अत्र उपपत्त्यापि विचारः पूर्वानुरोधेनैव कर्तव्य इति भाष्यानुरोधात्पूर्वानय-
नमाहुः विरुद्धधर्मेत्यादि । विरुद्धधर्माधारत्वं उभयव्यपदेशसूत्रात् 'सकलविरुद्धधर्मा भगवत्येव वर्तन्त'
इति भाष्यात् । लौकिकयुक्त्यगम्यत्वं 'तादृशमेव तद्वस्तुतत्सिद्धि'मिति भाष्यात् 'न धर्मेष्वपि युक्त्य-
पेक्षे'ति भाष्याच्च । विदितेत्यादि । विदितं वर्तमानं अविदितं मृतं भविष्यच्च तयोः परत्वम् । 'अन्य-
देव तद्विदितादथोऽविदितादधी'ति श्रुतेः । अनिरुक्तत्वं तैत्तिरीये । अभिधेयानामित्युक्ते एकदेशिमतवा-
दकवलिता स्यादत आहुः श्रुत्युक्तयुक्तीनामिति । विरुद्धधर्माधारत्वं नित्यं न भवेन्नित्यानित्यसंयोग-
धिया श्रुत्यभिधेयं न भवेत् । लौकिकयुक्त्यगम्यत्वं नित्यं न भवेत्, श्रुत्यभिधेयं न भवेत् । 'आसीनो
दूरं व्रजति शयानो याति सर्वतः' । 'अपाणिपादो जवनो ग्रहीते'ति श्रुत्यभिधेयं नित्यानित्यसंयोगधिया
न भवेत् । विदिताविदितपरत्वं नित्यं न भवेत् । नित्यानित्यसंयोगधिया श्रुतिरभिधेयं न वदेत् । अनि-
रुक्तत्वं नित्यं न भवेत् । नित्यानित्यसंयोगधिया श्रुत्यभिधेयं न भवेदित्येवं युक्तीनाम् । नास्येति ।
अस्य परस्य आदौ कर्माणि जन्म नानुविधीयते इति । मुख्याधिकारिणामिति । एकदेशिन इति
भाष्यं विवृण्वन्ति स्म एकदेशिन इति । पूर्वोक्तेति । अत्रैव पूर्वोक्तरीत्या सृष्टिकालस्य भेदेन ।
सिद्धान्ते तु सृष्टिकालपूर्वकालेपि धर्माः । मायाद्वारकमिति । 'बुभुत्सुम्पावदे' इति वाक्यात् ।
तत इति । पुराणमतात् । आज्ञास्येति । सिद्धान्तरीत्या नयनाभावेन । स्वार्थे ष्यञ् । न
तथेति । सिद्धान्तत्वेन नोपपन्नम् । अल्पदोषेति । अपसिद्धान्तत्वदोषदुष्टत्वेन । सूत्रकारादृतं मत
इति पदच्छेदः ॥ २९ ॥
प्रतिषेधाच्च ॥ ३० ॥ किञ्चिदिति । अपसिद्धान्तदोषात् । प्रतीति । धर्मप्रतिषेधयुक्ता
1690

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १५५
द्वितीयं प्रतिषेधति । स एवकारेणैव सिद्धो व्यर्थः सन् धर्मनिषेधमपि सूचयति ।
'ऐक्षते'ति वचनात् तदुत्पत्तिः । चकारादेकविज्ञानेन सर्वविज्ञानोपक्रमः परिगृ-
हीतः । तस्मान्न ब्रह्मणि कश्चिद्विरोध इति सिद्धम् ॥ ३० ॥
इति तृतीयाध्याये द्वितीयपादे नवमं प्रकाशाश्रयवद्भेत्यधिकरणम् ॥ ९ ॥
भाष्यप्रकाशः।
त्यादि । स इति । द्वितीयनिषेधः । नन्वनुच्छित्तिधर्मेत्यादिना तन्नित्यत्वे कुतो निषेध इत्यत आहुः
ऐक्षतेत्यादि । तथाचोक्तश्रुत्यनुरोधेन धर्मनित्यताबोधकश्रुतिरनुच्छित्तिर्धर्मो यस्येतिसमासेनावि-
नाशिपदव्याख्यानपरतया नेयेत्यर्थः । स्फुटमन्यत् ।
नचैकदेशिमतस्य युक्त्यन्तरेणोपष्टम्भात् पूर्वमततुल्यत्वमस्य सूत्रकाराभिप्रेतमिति शङ्क्यम् ।
प्रतिषेधश्रुतेर्द्वित्वसंख्यापूरकनिषेधपरतायाः प्रागुपपादितत्वेन, 'सूर्य एकाकी चरती'तिश्रुतौ सप-
रिकरे एव सूर्ये एकाकित्ववत् 'गेहे देवदत्त एवास्ति, न द्वितीय' इति लौकिकप्रयोगे करचरणा-
दियुक्तदेवदत्ताद्वितीयत्ववच्चापि निषेधगतेः शक्यवचनत्वेन, अनुच्छित्तिधर्मपदस्याविनाशिप-
दव्याख्यानताया अपि मानान्तरविरहादगतिकगतित्वेन च तस्य शैथिल्यात् । अत एकविज्ञानेन
सर्वविज्ञानप्रतिज्ञानुरोध एवैतत्संग्रहे बीजम् । एतस्योपष्टम्भकं च नैतस्मादन्यदिति बोधनायैवैतद्यु-
क्तिकथनमिति बोध्यम् । तस्मान्न कोपि शङ्कालेशः ।
(ननु मतद्वयस्यापि सूत्रकारसम्मतत्वे स्वसिद्धान्त इति भाष्यस्थस्य स्वशब्दस्य सूत्रकार-
परत्वेन व्याख्यानमनुचितम् । एकदेशिपदे च व्यासैकदेशित्वव्याख्यानमपि तथा । व्यासैस्तन्ना-
मानुल्लेखादिति चेत् ।
मैवम् । एकदेशिपदेत्र व्यासस्यैकदेशी ग्राह्यः । अन्यथाम्बुवत्सूत्रेण 'अत एव'तिसूत्रसिद्धं
दृष्टान्तं न दूषयेत् । वृद्धिह्रासादि Barclay सूत्रद्वये युक्त्यन्तरं च न वदेत् । एकदेशिनामानुल्लेखस्तु जैमिन्या-
दिवदप्रसिद्धत्वात् । 'जीवमुख्यप्राणलिङ्गा'दित्यादिपूर्वपक्षिनामवत् । अस्मिन् सूत्रे जघन्यानामर्थेऽस्य
सद्भावाद्वा । अथवा । जीवप्रसङ्गे 'अवस्थितेरिति काशकृत्स्न' इति काशकृत्स्नेन जीवस्य
ब्रह्मावस्थाविशेषत्वेनाङ्गीकारात् तस्य न्यायस्यापि तुल्यत्वात् स एवैकदेशी ग्राह्यः । अत एव द्विती-
यस्कन्धपञ्चमाध्याये सृष्टिप्रकरणे 'सत्त्वं रजस्तम' इत्यस्य सुबोधिन्यां 'काशकृत्स्नमतमत्र सिद्धं
भविष्यती'त्याचार्यैरपि तथाङ्गीकारः कृत उत्पत्त्या विमर्शविचारे इति नात्र शङ्कालेशः । एवमेक-
देशिनि निर्णीते स्वशब्दो व्यासपर एव युक्त इत्यत्राप्यदोषः । नचास्य पश्चात् कथनेनास्यैव मुख्य-
त्वमिति शङ्क्यम् । द्वितीयस्कन्धे 'इत्थंभावेन कथितो भगवान् भगवत्समाः । नेत्थं भावेन हि
परं ब्रह्मार्हन्ति सूरय' इत्यादिभिरेतदसमुख्यतयाः शुकवाक्ये व्यासचरणैरेवोक्तत्वात् । एतस्य
रश्मिः।
श्रुतिरद्वितीयमितिश्रुतिस्तस्याः । द्वित्वेति । द्वितीयमित्यत्र पूरणार्थकप्रत्यय इति भावः । प्रागिति ।
सपरीति । चरणादिः परिकरः । श्रौतत्वादेवकारः । एवेति । अन्ययोगव्यवच्छेदकः । निषेधगते-
रिति । अद्वितीयश्रुत्युक्तायाः । तस्येति । एकदेशिमतस्य । एवेति । अन्ययोगव्यवच्छेदकः । एतत्संग्रहे
एकदेशिमतसंग्रहे । एतस्मादिति । प्रतिषेधसूत्रादित्यर्थः । एवकारोऽन्ययोगव्यवच्छेदकः । (ए)तद्युक्तीति ।
एकदेशिमतयुक्तिकथनपनेन सूत्रेणेत्यर्थः । शङ्केति । एकदेशिमतोपपत्त्यनावश्यकत्वशङ्का तस्या लेशः ।
१. अधिकरणादिसार्थः ।
1691

भाष्यप्रकाशः।
सम्मतत्वं तु जघन्याधिकारिणामर्थे एतस्यैव सुबोधत्वेनोपयोगात् । अत एवेदं मतं पूर्वमुक्तम् ।
यथा द्वितीयस्कन्धे राजार्थम् । किञ्च, भाववृत्तसूक्ते 'नासदासी'दित्यादिभिः सृष्टिं पूर्वमुक्त्वा,
समाप्तौ 'इयं विसृष्टिर्यत आबभूव यदि वा दधे यदि वा न योऽस्या अध्यक्षः परमे व्योमन्
सोऽङ्ग वेद यदि वा न वेदे'ति सृष्ट्याधानानाधानात्भकं पक्षद्वयमुक्त्वा तस्य ज्ञानाज्ञाने आह ।
तेन विसृष्टिं कदाचिदाधत्ते, कदाचित् स्वतःसिद्धामेव प्रकटयति । अथवा सामान्यां करोति ।
लीलासृष्टिं तु स्वतःसिद्धामेवाविष्करोतीति ज्ञानाज्ञाने उभये अपि युक्ते । एतज्ज्ञापनाय सन्देह-
वचनम् । अन्यथा वेदस्य ब्रह्मणश्च सन्देहाभावादेवं न वदेत् । अतो लीलासृष्टिमनुसन्धाय व्यासः
स्वमतं वक्ति । एकदेशिनस्तु तन्न जानन्तीति ब्रह्मणो निर्विशेषादुत्पत्तिं वदन्ति । तस्मादुपपत्ति-
पक्ष एव व्यासाशयगोचरः, इतर इतरस्येति दिक् ।)
शङ्कराचार्यास्तु । 'न स्थानतोपी'त्यारभ्यैकादशसूत्रमेकमधिकरणं कल्पयन्ति । 'प्रकृतै-
तावत्त्वे'त्यारभ्य नवसूत्रमपरम् ।
तत्र प्रथमे, सुषुप्त्यादिषूपाध्युपशमाज्जीवो यत् सम्पद्यते तद् ब्रह्म । 'सर्वकर्मे'त्यादिभिः सवि-
शेषत्वश्रावणादस्थूलमित्यादिभिर्निर्विशेषत्वश्रावणाच्च किमुभयलिङ्गं ब्रह्म प्रतिपत्तव्यम्, उतान्यतर-
लिङ्गम् । यद्यन्यतरलिङ्गम्, तदापि किं सविशेषम्, उत निर्विशेषमिति सन्देहे, उभयलिङ्गश्रुत्यनुग्रहा-
दुभयलिङ्गं ब्रह्मेति प्राप्ते, अभिधीयते । न स्थानत इत्यादि । परस्य ब्रह्मण उभयचिह्नत्वं स्वत उपा-
धितश्च न । कुतः । सर्वत्र हि । ब्रह्मस्वरूपप्रतिपादनपरेषु 'अशब्दमस्पर्शमरूपमव्यय'मित्यादिषु
निर्विशेषस्यैवोपदेशादिति । 'न भेदा'दिति द्वितीये च प्रतिविद्यं ब्रह्मण आकारभेदश्रावणान्निर्वि-
शेषाङ्गीकारे च तस्य शास्त्रस्य निर्विषयत्वापत्तेरौपाधिक आकार आदर्तव्य इत्याशङ्क्य, मधुविद्यायां
प्रत्युपाधिभेदं ब्रह्मणोऽभेदश्रावणान्न भिन्नाकारयोगो ब्रह्मणः शास्त्रीय इति । 'अपिचैवमेके' इति
तृतीये च, 'मनसैवेदमाप्तव्यम्' 'नेह नानास्ति किञ्चने'ति भेददर्शननिन्दापूर्वकमभेदमेके, तथान्ये
भोक्तृभोग्यादिप्रपञ्चस्य 'त्रिविधं ब्रह्ममेत'दिति ब्रह्मैकस्वभावत्वमामनन्तीति व्याख्याय, ननूभय-
लिङ्गासु श्रुतिषु सतीषु कथमेनाकारमेव ब्रह्मावधार्यते, न पुनः साकारमिति शङ्कायाम्, चतुर्थस्या-
रूपवत्सूत्रस्य प्रवृत्तिमुक्त्वा, अरूपवदेव ब्रह्मावधारयितव्यम्, न रूपादिमत् । कुतः । तत्प्रधानत्वात् ।
'अस्थूलमनणु', 'अशब्दमस्पर्शमरूपमव्ययम्,' 'आकाशो ह वै नामरूपयोर्निर्वहिता ते यदन्तरा
तद् ब्रह्म,' 'दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः,' 'तदेतत् ब्रह्मापूर्वमनपरमनन्तरमबाह्य-
मयमात्मा ब्रह्म सर्वानुभू'रित्यादीनां निर्विशेषब्रह्मप्रधानत्वात्, आकारलिङ्गानां चोपासनाप्रधान-
रश्मिः।
सुषुप्त्यादिष्विति । आदिना संपत्तिसमाधी । एवेति । सविशेषव्यवच्छेदक एवकारः । आकारेति ।
'चतुष्पाद्ब्रह्म' 'षोडशकलं ब्रह्म', वामनीत्वभामनीत्वलक्षणं ब्रह्म, त्रैलोक्यशरीरं वैश्वानरशब्दोदितं
ब्रह्म, 'सर्वं खल्विदं ब्रह्मे'ति, चतुर्दशभुवनात्मकं ब्रह्मेत्येवमाकारभेदश्रावणात् । मधुविद्यायामिति ।
'यश्चायमस्यां पृथिव्यां तेजोमयोऽमृतमयः पुरुषो यश्चायमध्यात्मं शारीरस्तेजोमयोऽमृतमयः पुरुषोऽयमेव
स योऽयमात्मे'त्यादिरूपायाम् । अभेदेति । पृथिव्यादीनामुपाधित्वाच्चेति भावः । भोक्तृभोग्या-
द्येति । आदिना प्रेरिता । 'भोक्ता भोग्यं प्रेरितारं च मत्वे'ति श्रुतेः । अनाकारमेवेति । साकार-
योग्यव्यवच्छेदक एवकारः । ते यदिति । ते नामरूपे यस्यान्तरा मध्ये व्यवधायके वर्तेते तद्ब्रह्मेत्यर्थः ।
१. प्रकाशमूलपुस्तके सुषुप्तादिषु, रश्मौ च सुषुप्त्यादिषु । २. ज्ञाप्य ।