अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
Ācārya Śrī Vallabha, the founder of the
Śuddhādvaita school of Vedānta tradition is said
to be of a divine origin imbued with spiritual
insight. His philosophy is called pure-non-dualism
undefiled by Māyā. He was born in Vikram Saṁvat
1535 (1479 A.D.), to Śrī Lakṣmaṇa Bhaṭṭa, a
Telugu Brahmin and Illammāgāru, a family which
had learning towards Vedic rituals and the worship
of Gopālakṛṣṇa. He travelled extensively to the
religious places such as Vijyanagar, Kāśī and Aḍail
(near Prayāga). At these places, he developed his
literary and religious activities. His firm faith in
lord Kṛṣṇa's commandment led him to devote to
the task of a faithful interpretation of the sacred
texts like the Upaniṣad, Gītā and Brahmasūtra.
He found that the essential reality is Śuddha (pure)
unalloyed with māyā, and non-dualism (Advaya).
He advocated the Puṣṭi (divine grace), as the most
powerful and unfailing method for attaining
Supreme Bliss. His Siddhānta is known as
Śuddhādvaita-Brahmavāda-Nirguṇa-Puṣṭibhakti
Mārga.
Ācārya Vallabha has written a commentary on
the Brahmasūtra, known as Aṇubhāṣya which is
available only in the summary form upto III.2.33,
the remaining part was supplemented by his second
son Śrī Viṭṭhalanātha.
Ācārya differs from the earlier Ācāryas viz.
Śaṁkara, Rāmānuja, Madhva, and Nimbārka with
regard to the interpretation of the nature of Reality.
According to Vallabha, Reality is Brahman which
is Sat (existence), Cit (conscious), Ānanda (bliss)
Continued on back flap
ISBN 81-88643-09-2 (Vol.2)
ISBN 81-88643-07-6 (Set) Rs. 3700
(Set of 4 Vols.)
continued from front flap
which is denominated as Rasa (sentiment). He is
Pūrṇa Puruṣottama. Among his divine chara-
cteristics Jñāna and Kriyā are important. He is
Kartā (doer) and Bhoktā (enjoyer). For Līlā, He
creates the universe out of Himself. Vallabha
propagates the path of Puṣṭi Bhakti (Divine grace)
in order to enjoy the union with the Supreme.
The Puṣṭi can be realised as in the case of gopi's
of Vṛndāvan who, in fact, opened the gateway to
realize everything with lord Kṛṣṇa. He is for
Svarūpānanda, instead of Brahmānanda. Lord is
full of Rasa in which love is most important. This
brings enjoyment of the Bliss of the Union with
Divine.
The present commentaries on Aṇubhāṣya
known as Prakāśa written by Śrī Puruṣottama
Caraṇa, a descendent of Śrī Vallabhācārya and
another on the same known as Raśmi by Śrī Yogi
Gopeśvara, of the same lineage, provide excellent
and appropriate interpretation of the tradition.
In fact, Aṇubhāṣya of Vallabhācārya with these
two commentaries given by Śrī Puruṣottam-
acaraṇa and Gopeśvarajī is the most authentic
text for providing illuminating interpretation of
the Brahmasūtra.
This edition was originally printed by
Nirnaysagar Press, Bombay, an institution known
for publishing and printing the authentic editions.
This work was published some eighty years ago,
now printed again with a new Introduction by one
of the greatest scholars of modern times in the
tradition.
The provided image is completely blank (white) and does not contain any text to transcribe. Please upload a clear image of the page containing the text.
MAHĀPRABHU ŚRĪ VALLABHĀCHĀRYA'S
AṆUBHĀṢYA
ON
THE BRAHMASŪTRA
WITH THE COMMENTARY
BHĀṢYAPRAKĀŚA
OF
GOSVĀMI ŚRĪ PURUṢOTTAMAJI
AND
THE SUPER- COMMENTARY
RAŚMI ON THE BHĀṢYAPRAKĀŚA
OF
GOSVĀMI ŚRĪ GOPEŚVARJI
EDITED WITH INTRODUCTION AND APPENDICES ETC. BY
MULCHANDRA TULSIDAS TELIWALA
WITH A NEW INTRODUCTION BY
GOSWAMI SRI SHYAM MANOHARJI MAHARAJ
ṢAṢṬHAPĪṬHĀDHĪŚVARA,
MANDIRA ŚRĪ MUKUNDARĀYAJĪ ŚRĪ GOPĀLALĀLAJĪ, KĀŚĪ.
VOLUME TWO
ADHYĀYA 2
AKṢHAYA PRAKASHAN
DELHI
First published: Bombay, 1929-32
Reprint: Delhi 2005
ISBN 81-88643-07-6 (set)
ISBN 81-88643-09-2 (vol.2)
Published by:
Harish Chandra for Akshaya Prakashan,
208, M.G. House, 2 Community Centre,
Wazirpur Industrial Area, Delhi - 110052
Email: [email protected]
Fax: 011-27374358
Phone: 011-55195949, 27377342
Printed at:
D.K.Fine Arts Press (Pvt.) Ltd.,
A-6,Nimri Community Centre,
Ashok Vihar, Phase IV, Delhi - 110052.
श्रीकृष्णाय नमः
श्रीमद्ब्रह्मसूत्राणुभाष्यम्
शुद्धाद्वैतब्रह्मवादनिर्गुणभक्तिमार्गप्रवर्तकाचार्यचक्रचूडामणि-
श्रीमद्वल्लभाचार्यचरणप्रणीतम्
दशदिगन्तविजयिश्रीमद्गोस्वामिश्रीपुरुषोत्तमचरणप्रणीत-
भाष्यप्रकाशेन
सम्पूर्णवेत्तृश्रीमद्गोस्वामिश्रीगोपेश्वरजिचरणप्रणीत-
भाष्यप्रकाशरश्मिना
च परिबृंहितम्
मूलचन्द्रतुलसीदासतेलीवाला
इत्यनेन संशोधितम्
काशीस्थ-श्रीमुकुन्दरायजी-श्रीगोपाललालजीमन्दिराधिष्ठित-
षष्ठपीठाधीश्वर-गोस्वामिश्रीश्याममनोहरपाद-
विरचितया नवीनभूमिकया समुल्लसितम्
द्वितीयो भागः
द्वितीयोऽध्यायः
देहलीस्थ-
अक्षयप्रकाशननेन
प्रकाशितम्
The provided image is completely blank and contains no text to transcribe. Please upload a clear image of the page containing the text.
श्रीकृष्णाय नमः ।
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
शुद्धाद्वैतमहावादनिर्गुणभक्तिमार्गप्रवर्तकाचार्यचक्रचूडामणि-
श्रीमद्वल्लभाचार्यचरणप्रणीतम् ।
दशदिगन्तविजयिश्रीमद्गोस्वामिश्रीपुरुषोत्तमचरणप्रणीत
भाष्यप्रकाशसम्पूर्णवेष्टुश्रीमद्गोस्वामिश्रीगोपेश्वर-
जिच्चरणप्रणीतभाष्यप्रकाशरश्मिपरिवृंहितम् ।
द्वितीयाध्यायस्य प्रथमः पादः ।
'भगवद्धर्मपरायणसद्व्रतसेठिगोवर्धनदाससुन्दरदास' इत्यस्य पुष्टिमार्गीय-
संस्कृतसाहित्यसमुद्धारार्थं निर्दिष्टद्रव्यसङ्ग्रहतः 'प्राप्तभगवत्पद
मूलचन्द्र तुलसीदास तेलीवाला, बी. ए., एलएल. बी.,
वकील, हाईकोर्ट' इत्येतेषां सुहृद्भिः
संशोध्य 'निर्णयसागर' मुद्रणालये
मुद्रयित्वा प्रकटीकृतम् ।
श्रीवल्लभाब्दाः ४५२. संवत् १९८६.
मूल्यं सार्धमुद्रिका ।
Printed by Ramchandra Yesu Shedge, at the ‘Nirnaya Sagar’ Press,
26-28, Kolbhat Lane, Bombay 2.
Published by Dhirajlal Vrajdas Sanklia, B. A., LL. B., Advocate
at Khakhar Building, C. P. Tank, Bombay 4.
श्रीकृष्णाय नमः ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमदाचार्यचरणकमलेभ्यो नमः ।
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् ।
अथ द्वितीयोऽध्यायः ।
प्रथमः पादः
स्मृत्यनवकाशदोषप्रसङ्ग इतिचेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥१॥(२-१-१)
प्रथमाध्याये वेदान्तवाक्यानां विवादास्पदानां ब्रह्मपरत्वेन समन्वयः
प्रतिपादितः । अधुना श्रुतिस्मृत्यविरोधः प्रतिपाद्यते ।
भाष्यप्रकाशः ।
स्मृत्यनवकाशदोषप्रसङ्ग इतिचेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥ अथ
द्वितीयाध्यायं व्याचिख्यासवोऽध्यायसङ्गतिं प्रदर्शयितुं पूर्वाध्यायमनुवदन्तोऽस्यार्थमाहुः
प्रथमेत्यादि । अधुना समन्वयप्रतिपादनादनन्तरं, श्रुतिस्मृत्यविरोधः श्रुतयश्च स्मृतयश्च
तासामविरोधः प्रतिपाद्यते । तथा सति श्रुतीनां परस्परमविरोधः 'स्मृतीनां च श्रुत्यविरोध
इत्यर्थात् सेत्स्यति सोऽत्र विचार्यते । तथा च पूर्वाध्यायविचार उपोद्घातः सङ्गति-
रित्यर्थः । ननु समन्वयानन्तरं श्रुतिविप्रतिषेधे निराकरणीये स्मृतिविरोधाविरोधविचारस्य किं
रश्मिः ।
स्मृत्यनवकाशदोषप्रसङ्ग इति चेन्नान्यस्मृत्यनवकाशदोषप्रसङ्गात् ॥ १ ॥
'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यः' इति 'भोक्ता भोग्यं प्रेरितारं च मत्वा' इति श्वेताश्वतरा-
च्छ्रवणानन्तरं द्वितीयाध्याये मननं प्राप्तं भक्तिमार्गीयत्वाच्छास्त्रस्य । तच्च युक्तिभिरनुचिन्तनं मननं,
तत्रापि युक्त्या वेदिवेदोपबृंहकत्वमितिहासादीनां न स्यात् । सांख्यादीनां शास्त्रान्तरत्वं न स्यात्,
तदा सांख्यादिस्मृतयः उपबृंहिकाः स्युरिति तर्केण प्रथमसूत्रं प्रवृत्ते । तेन सांख्यस्य शास्त्रान्तरत्वं
वैदिकांशाभावाच्छ्रीभागवते 'त्रय्या चोपनिषद्भि'रिति शास्त्रषट्के गणनाच्च । बालबोधिन्यां शास्त्र-
षट्कमुक्तम् । निर्वाणकृतज्ञता द्वितीयं सूत्रम् । योगे शास्त्रत्वसमर्थनाय तृतीयं सूत्रमिति । भाष्यमव-
तारयन्ति स्म अथेति । एवं सतीति श्रुतीनां कपिलादिमहर्षिकृतानां स्मृत्यविरोध इति न समासः
वक्ष्यमाणविरोधादत एवं इन्वाभिप्राये सति । उपोद्घात इति । श्रुतीनां परस्परम-
विरोधः स्मृतीनां च श्रुत्यविरोधः तदा ज्ञातो भवति यदेमा ब्रह्मसमन्विताभ्यो विरुद्धा, इमा
नेति विभागः स्यात् स च समन्वयाधीन इति समन्वये प्रकृतसिद्धयर्था चिन्ता अत उपोद्घात-
१. 'तथा सति' इति प्रकाशकारपाठः ।
२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० १ सू० १.
भ्रान्तिमूलतया सर्वसमयानामयुक्तितः ।
न तद्विरोधाद् वचनं वैदिकं शङ्क्यतां व्रजेत् ॥
श्रुतिविप्रतिषेधस्त्ववश्यं प्रतिविधेयः । प्रथमचतुर्थपादे सर्वथानुपयोगे
प्रतिपादिते, स्मृतिप्रसिद्धेः स्मृतित्ववचनेन प्रामाण्ये च यावत् तदप्रामाण्यं
न प्रतिपाद्यते तावत् तद्विरोधः परिहर्तुमशक्य इति तन्निराकरणार्थं प्रथमतः
भाष्यप्रकाशः ।
प्रयोजनमित्यतस्तद् गृह्णन्ति भ्रान्तीत्यादि प्रतिविधेय इत्यन्तम् । श्रुतिविरुद्धस्मृतीनां,
भ्रान्तिमूलतया तदुक्तानां सर्वेषां समयानां युक्तिनियमानाम्, अयुक्तितोऽयुक्तता-
यास् । सप्तम्यर्थे तसिः । भावप्रधानो निर्देशः । तद्विरोधात् स्मृतिविरोधात् । वैदिकं
वचनं शङ्क्यतामस्य वाक्यस्यायमर्थो भवति न वेति शङ्काविषय
[भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३]
सूत्रत्रयमाह । तुल्यबलानां परस्परविरोधे न प्रकारान्तरस्थितिरिति ततो युक्त्या
श्रुतिविप्रतिषेधपरिहारः । ततो द्वितीये पादे वेदबाधकत्वाभावेऽपि तैरपि
स्वातन्त्र्येण कश्चन पुरुषार्थः सेत्स्यतीत्याशङ्क्य बाह्याबाह्यमतान्येकीकृत्य निरा-
करोति । भ्रान्तेस्तुल्यत्वात् । ततः सम्यग् वेदार्थविचारायैव वैदिकपदार्थानां
क्रमस्वरूपविचारः पादद्वयेन । अतः संपूर्णाेनाप्यध्यायेनाविरोधः प्रतिपाद्यते ।
कपिलादिमहर्षिकृतस्मृतेर्न मन्वादिवदन्यत्रोपयोगः । मोक्षैकपयोगित्वात् ।
तत्राप्यनवकाशे वैयर्थ्यापत्तेरितिचेन्न । कपिलव्यतिरिक्तशुद्धब्रह्मकारणबाधक-
भाष्यप्रकाशः ।
करणार्थं सूत्रत्रयमाहेत्यर्थः । तत्र हेतुः तुल्येत्यादि । तथा च सांख्य ईश्वरस्य निराकृतत्वाद्
योगे च वेदप्रवर्तकतयानुग्राहकतया च तद
श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० १ सू० १.
स्मृत्यनवकाशदोषप्रसङ्गः । 'अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा' इति ॥ १ ॥
इति द्वितीयाध्याये प्रथमपादे प्रथमं स्मृत्यधिकरणम् ॥ १ ॥
भाष्यप्रकाशः।
भाष्ये सांख्यस्मृत्युपयोगे नित्यानुमेयश्रुतिविरोधो भवति न वेति संशये कापिलास्तावदेवं
प्रत्यवतिष्ठन्ते । पूर्वाध्याये यद्यपि श्रुतिविचारेण ब्रह्मणो जगत्कर्तृत्वं जगदुपादानत्वं च प्रति-
पादितं, तथापि कपिलप्रणीतसांख्यस्मृतिविरोधात् तदनादरणीयम् । न च श्रुतीनां स्वतः-
प्रामाण्यात् तद्विरोधे स्मृतीनामप्रामाण्यस्य च पूर्वतन्त्रे, 'विरोधे त्वनपेक्षं स्याद्' इत्यत्र प्रति-
पादितत्वात् स्मृतिविरोधोप्रयोजक इति शङ्क्यम् । 'औदुम्बरीं स्पृष्टोद्गायेत्' इति श्रुत्युक्तस्य
तत्स्पर्शरूपस्यार्थस्य प्रत्यक्षतो निषेधुं शक
कस्मिंश्चिदंशे संकोचसहिष्णुत्वस्य वक्तुमशक्यत्वात् । किंच यथा, 'मानवी ऋचौ धाय्ये
कुर्यात्' इति विधाय, 'यद्वै किंच मनुरवदत् तद् भेषजम्' इति श्रुतिर्धर्मे तदुपयोगं नियमित-
वतीति तच्छास्त्रत्र सावकाशत्वं तथास्याः क्वचन न वक्तुं शक्यते । तस्मादेतद्वैयर्थ्यमेवापततीति
तन्मूलभूतनित्यानुमेयश्रुतिविरोधो महर्षिप्रत्यक्षविरोधश्चेति कापिलप्रत्यवस्थानात् प्राप्तं तदेतत्
स्मृत्यनवकाशदोषप्रसङ्ग इति चेदिति सूत्रांशेनानूद्य प्रतिबन्ध्या प्रतिविधत्ते नान्यस्मृत्यनव-
काशदोषप्रसङ्गादिति । तथा च, 'वेदान्तकृद् वेदविदेव चाहम्' इति सर्ववेदवेद्या वेदान्तकर्त्रा
भगवता गीतास्मृतौ 'अहं सर्वस्य जगतः प्रभवः प्रलयस्तथा' इति, 'अहं सर्वस्य प्रभवो मत्तः
सर्वं प्रवर्तते, इति मत्वा भजन्ते मां बुधा भावसमन्विताः' इत्यादिकथनादुक्तज्ञानवतां स्वभजन-
कथनेन बहूनां चेतनकारणत्वास्थितिबोधनाच्च बहूनामनुग्रहो न्याय्य इति ताभिरेव वेदा-
न्तवाक्यनिर्णय उचितः, अन्यथा तासां सर्वासामेवानवकाशप्रसङ्गात् तथा च वेदान्तो-
क्तविषयस्याप्रत्यक्षत्वेऽप्येतदनुरोधेन कपिलस्मृतिरेव जघन्याधिकारिविषयत्वेन संकोच्या । ये
धाय्ये इति । यत्किंचेति यत्किमपि स्मृत्यादि । धर्मे इति मनुस्मृतिधर्मप्रतिपादिका तट्टीकायामस्याः
श्रुतेश्लेषान्नियमितवती । मन्वादिः स्मृतिरिति पुराणादिग्रेप्रसिद्धा मुख्यो धर्मः । तदुपयोगं
मन्वादिस्मृत्युपयोगम् । अस्या इति कपिलस्मृतेः । शक्यत इति समवायित्वबोधकश्रुत्या शक्यते ।
कापिलप्रत्यवेति 'ऋषिं प्रसूतं कपिलं यस्तमग्रे ज्ञानैर्बिभर्ति जायमानं च पश्येत्' इति श्रुत्या पूर्वपक्ष-
माहुः तदेतदिति । प्रतिबन्ध्या इति प्रतिबन्दिम् । कर्मणः संबन्धसामान्यविवक्षया षष्ठी, तुल्योदोषः
प्रतिबन्दिः । प्रतीति सूत्रकार उत्तरयतीत्यर्थः । नान्यस्मृत्यनवेति तेन भाष्ये कपिलेत्याद्यन्ते
तस्मादिति पूरणीयमिति बोधितम् । ननु भाष्यान्तरेषु सर्वाः स्मृतयः संगृहीताः यथा शक्त्यन्तरात्मा
भूतानां क्षेत्रज्ञश्चेति कथ्यत इति ता विहाय भाष्यान्तरोक्तगीतामात्रग्रहणं कुत इत्यतस्तदुपपादयन्ति
तथा चेति । उक्तज्ञानेति इति मत्वेत्यनेनोक्तजगत्कर्तृत्वज्ञानवताम् । बुधा इति बहुवचनसामिप्राय-
माहुः बहूनामिति । ननु प्रकृतिश्चेत्यधिकरणे 'सदेव सोम्येदमग्र आसीत्' इति सन्मात्रस्य विषयत्वे
मामिति चेतनविषयस्मृत्युपन्यासः कथमित्यत आहुः चेतनेति । तथा च सदित्युपलक्षणमिति
भावः । बहूनामिति नात्र सर्वभाष्योक्तबहूनां स्मृतिवाक्यानामनुग्रहोऽर्थः । स्मृतिपुराणमतसांकर्य-
प्रसङ्गात् किंतु बहूनां बुधानां भ्रान्तिरहितानां वाक्यानामित्यर्थः । ताभिः शुद्धब्रह्मवादोपयोगिनीभि-
र्जिज्ञासासूत्रप्रतिज्ञाताभिः । एवकारेणान्यस्मृतिव्युदासः । 'नानुध्यायाद् बहून्' इति श्रुतेक्वचित्
इति । अत एव जिज्ञासासूत्रे अथशब्देन पञ्चमवेदानामपि प्रतिज्ञा वक्तुं शक्यते न संकोचः ।
तदुक्तम् 'वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि । समाधिभाषा व्यासस्य प्रमाणं
तच्चतुष्टयम्' इति निबन्धे । अन्यथेति गीतातिरिक्तश्रीमद्भागवतव्यतिरिक्तस्मृतीनामुपष्टम्भकत्वे ।
अनवेति परस्परविरुद्धतया नैकस्मिन्नर्थे पर्यवसानादनवकाशप्रसङ्गात् । अतः 'तर्कोऽप्रतिष्ठः श्रुतयो
विभिन्ना नैको मुनिर्यस्य वचः प्रमाणम् । धर्मस्य तत्त्वं निहितं गुहायां महाजनो येन गतः स पन्थाः'
इत्यधिकारानुसारेण फलति । एतदिति गीतानुरोधेन । ननु भाष्ये 'अरूपवदेव हि तत् प्रधानत्वात्'
इत्येकदेशि गतं, सुबोधिन्यां पञ्चविंशाध्याये तृतीयस्कन्धे सिद्धान्तन्तरनिरूपणाच्छास्त्रत्वाच्च
तासां कोऽभिप्राय इत्यतस्तत्संगृह्णन्तः सिद्धमाहुः तथा चेति । संकोचयेति । तथा चर्षि प्रसूतं
१. वाराहपुराणशङ्करभाष्यन्यायभाकाभिख्यादि ।
मुमुक्षवः परमात्म्यानर्हास्तेनया स्वात्मानं प्रकृतिप्राकृतेभ्यो विविच्य स्वरूपावस्थिता भवि-
ष्यन्तीति तादृशार्थे परब्रह्मकारणतां परित्यज्य देवामरन्यायेन प्रकृतेरनादित्वं बोधयित्वा
तथोक्तमित्येवं संकोचसहिष्णुत्वात् । न च तन्मूलभूतश्रुतेर्महर्षिप्रत्यक्षस्य वा विरोधः, महर्षे-
र्वाक्यस्य तन्मूलश्रुतेश्च प्रत्यक्षश्रुत्यविरुद्ध एवार्थे तात्पर्यात् । अन्यथा देवहूतिं स्वमातरं
प्रति सर्वतत्त्वयाथात्म्यमुक्तवदग्रे 'ज्ञानमेकं पराचीनैरिन्द्रियैर्ब्रह्म निर्गुणम्, अवभात्यर्थरूपेण
भ्रान्त्या शब्दादिधर्मिणा' इत्यादि न वदेत् । एतदेवाभिप्रेत्य मोक्षधर्मे, 'सांख्ययोगः पञ्च-
रात्रं वेदाः पाशुपतं तथा, ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै' इति पञ्च-
सिद्धान्तांल्लक्षकस्यैवोक्त्वा, 'सर्वेषु च नृपश्रेष्ठ ज्ञानेष्वेतेषु दृश्यते, यथागतं तथा ज्ञानं निष्ठा
नारायणः प्रभुः,' 'न चैनमेवं जानन्ति तमोभूता विशाम्पते, तमेव शास्त्रकर्तारः प्रवदन्ति
मनीषिणः, निष्ठां नारायणमृषिं नान्योऽस्तीति वचो मम' इत्युक्तम् । यथागतमिति श्रुत्यवि-
रुद्धम् । तथा चाज्ञानामर्थे संकोच इत्यर्थः । अथवा पाद्मोत्तरखण्डे भगवच्छिवसंवादे, 'त्वं
च रुद्र महाबाहो मोहनाय' इति मोहनं प्रक्रम्य, 'मयि भक्ताश्च ये विप्रा भविष्यन्ति
महर्षयः । त्वच्छक्त्या तान् समाविश्य कथयस्व च तापसान् । कणादं गौतमं शक्तिमुप-
मन्युं च जैमिनिम् । कपिलं चैव दुर्वासं मृकण्डं च बृहस्पतिम् । भार्गवं जामदग्न्यं च दशै-
तांस्तापसानृषीन् । तव शक्त्या समाविश्य कुरुते जगतोहितम् । त्वच्छक्त्या सन्प्रविष्टास्ते
कपिलेत्यस्या अपि न विरोधः । सिद्धान्तान्तरत्वात् । प्रत्यक्षश्रुत्यविरुद्ध इति न चैकदेशिमतं
विरुद्धमिति वाच्यम्, स्वगृहीतमतत्वेन विरुद्धत्वेऽपि स्वगृहीतत्वेन रूपेणाविरुद्धत्वात् । तात्पर्या-
दिति जानातीच्छति यतत इति तात्पर्यं ज्ञानं कारणं ज्ञानं तु मुख्यैकदेशिसिद्धान्तयोः प्रणयना-
दस्त्येव । अन्यथेति प्रत्यक्षश्रुत्यर्थे तद्विरुद्धैकदेशिमते च तात्पर्याभावे । इदानीं सर्वविध-
सांख्यस्यानादरणीयता प्राप्नोति तथापि 'सांख्यो बहुविधः प्रोक्तस्त्रैविद्यैः सत्प्रमाणकः । अष्टाविंशति-
तत्त्वानां स्वरूपं यत्र वै हरिः । अन्ये सूत्रे निषिध्यन्ते' इति शास्त्रात् 'अथ ते संप्रवक्ष्यामि
सांख्यं पूर्वैर्विनिश्चितम्'इति प्रतिज्ञाय 'आसीज्ज्ञानमयो ह्यर्थः' इत्यादिनेकादशे भगवत्कृततत्सांख्या-
द्वाष्टाविंशतितत्त्वानां स्वरूपं यत्र नवकं भवति । 'पुरुषः प्रकृतिर्व्यक्तमहंकारो नभोऽनिलः ।
ज्योतिरापः क्षितिरिति तत्त्वान्युक्तानि मे नव'इत्युक्तं भागवतं भवति तदतिरिक्तसांख्यस्य 'केचित्
षड्विंशतिं प्राहुरितरे पञ्चविंशतिः । सप्तैके नव षट्केचिच्चत्वार्येकादशापरे । केचित्सप्तदश प्राहुः षोडशैके
त्रयोदश'इत्युक्तस्य सूत्रेषु प्रत्याख्यानान्न त्रैलोक्यं सांख्यं प्रत्याख्यातमित्याशयेन सिद्धान्तान्तरकापिलं
सांख्यमाहुः सर्वतत्त्वेति । पराचीनैरिति प्राकृतैः । 'पराञ्चि खानि व्यतृणत्स्वयम्भूस्तस्मात्
पराङ् पश्यति नान्तरात्मन्'इति श्रुतेः । निर्गुणमिति एकदेशिमत्वात्तन्निर्गुणपदम् । शून्याभाव-
तुच्छादृश्यनिर्गुणादिपदानां सामानाधिकरण्यात् । महोपनिषदि 'एष ह्येव शून्य एष ह्येव तुच्छ एष
ह्येवाभाव एष ह्येवाव्यक्तोऽदृश्यो निर्गुणश्च'इति माध्वभाष्ये उक्तम् । अर्थरूपेणेति घटपटादिरूपेण
शब्दार्थधर्मिणा भ्रान्त्यावभातीत्यर्थः ख्यातिबोधकम् । इत्यादीति ख्यातिबोधकं न वदेदि-
त्यर्थः । एवं जानन्तीति मुख्यगौणसिद्धान्तेन न जानन्ति । तमेवेति सिद्धान्तद्वयप्रतिपाद्यमेव ।
ऋषिमिति ब्रह्माभिः सप्तर्षयः समिधः तेषु 'नारायणपरा वेदा' इति तस्य ग्रहणम् । श्रुत्य-
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७
इतरेषां चानुपलब्धेः ॥ २ ॥ (२-१-२)
प्रकृतिव्यतिरिक्तानां महदादीनां लोके वेदे चानुपलब्धेः ॥ २ ॥
इति द्वितीयाध्याये प्रथमपादे द्वितीयमितरेषामित्यधिकरणम् ॥ २ ॥
भाष्यप्रकाशः ।
तमसोद्रिक्तया भृशम् । तामसास्ते भविष्यन्ति क्षणादेव न संशयः । कथयन्ति च ते विप्रा-
स्तामसानि जगत्त्रये । पुराणानि च शास्त्राणि त्वं चासत्त्वेन बृंहितः । कपालचर्मभस्मास्थिभिक्षा-
न्यन्यत्प्रपूजित । त्वमेव धृत्वा ताँल्लोकान् मोहयस्व जगत्त्रये । तथा पाशुपतं शास्त्रं त्वमेव कुरु
सत्तम । कङ्कालशैवपाखण्डमहाशैवादिभेदतः' इति कथनात् कपिलाचार्यैस्तामसशक्तिप्रवेशोत्तरं
तथा कथितमिति देवहूत्यादिकं प्रति च तदावेशाभावदशायां कथितमिति विषयभेदान्न
मोक्षधर्मवाक्यानां सूत्राणां च विरोध इति दिक् । अत एव हेमाद्रौ श्राद्धखण्डे ज्ञानार्ह-
प्रकरणे षट्त्रिंशन्मते, 'शैवान् पाशुपतान् दृष्ट्वा लोकायतिककापिलान् । विकर्मस्थान् द्विजान्
शूद्रान् सवासा जलमाविशेत्' इत्युक्तम् ॥ १ ॥ इति प्रथमं स्मृत्यधिकरणम् ॥ १ ॥
इतरेषां चानुपलब्धेः ॥ २ ॥ एवं प्रतिबन्द्या कपिलस्मृतेर्निरङ्कुशप्रधानकारणत्वांशे
संकोचसहिष्णुत्वमुक्त्वा महदाद्यंशेपि तथात्वमाहेत्याशयेन सूत्रं पठित्वा व्याचक्षते इतरेषां
चानुपलब्धेरित्यादि । लोके गीतापुराणादिस्मृतौ ब्रह्मोपनिषदादिश्रुतौ चोपलभ्यमानत्वेपि
कपिलोक्तप्रकारेणानुपलभ्यमानत्वात् तथाहि प्रवचनसूत्रेषु तावत् 'स्थूलात् पञ्चतन्मात्रस्'
'बाह्याभ्यन्तराभ्यां तैश्चाहङ्कारस्य' 'तेनान्तःकरणस्य' 'ततः प्रकृतेः' इति सूत्रयत पञ्चभूतव्यति-
रिक्तानां कार्यलिङ्गकानुमानगम्यत्वमाहृत्याग्रे, 'मूले मूलाभावादमूलं मूलम्' इति कथनात्
रश्मिः ।
विरुद्धमिति श्रुतयः स्पष्टाः । एतस्यैव परम्पराप्राप्तत्वादिति भावः । मोक्षेति । तेनैकादशोक्तानां
भगवद्वाक्यानामप्यविरोधो बोध्यः । सूत्राणां चेति । 'दृष्टानुश्रविकविषयवितृष्णस्य वशीकारसंज्ञा
वैराग्यम्' इत्यारम्भे वैराग्यं भगवद्धर्मो भगवान् 'असङ्गोयं पुरुष इति' इति 'प्रधानाज्जगायंत इति' इति
च सूत्रद्वयं च । पञ्चाध्याय्येषु इति श्रीकापिलसांख्यप्रवचनसूत्रवृत्ताविति वृत्तिशब्दः । षष्ठेऽध्याये
'अस्वात्मा नास्तित्वसाधनाभावात्' स्पष्टमित्यारम्भः । इति श्रीकपिलसांख्यप्रवचनसूत्र इति न वृत्ति-
शब्दः । एषां सूत्राणां न विरोधः । अत एवेति क्षतकापिलकमतस्यैव दूषणादेव । अस्मिन्पादे
सर्वेष्वप्यधिकरणेषु पूर्वाध्यायोक्तसमन्वयो विषयः, तत्रास्मिन्नधिकरणे वैदिकस्य समन्वयस्य सांख्य-
स्मृत्या संकोचोऽस्ति न वेति संशयः, संकोचोऽस्तीति तावत्प्राप्तम् । कुतः । सांख्यस्मृतेर्निरवकाशत्वेन
प्रबलत्वाद्वेदस्योपबृंहणत्वं युक्तमिति प्राप्तेऽभिधीयते । सांख्यस्मृतीनां वेदोपबृंहणत्वं न युक्तम् ।
मोक्षकप्रयोजनानामन्यासां 'अहं सर्वस्य जगतः प्रभवः' इत्यादिगीताश्रीभागवतीयकपिलर्षिस्मृत्यनव-
काशप्रसङ्गात्तासामुपबृंहणत्वमिति सिद्धान्तः ॥ १ ॥ इति प्रथमं स्मृत्यधिकरणम् ॥ १ ॥
इतरेषां चानुपलब्धेः ॥ २ ॥ प्रतिबन्ध्या इति । प्रतिबन्दिस्तुल्यदोषः । 'लोकस्तु
भुवने जने' इति जननशीलः कुयुक्त्यादिनेति लोकपदेन जने युक्त्यादिभिरुपलब्धिमाहुः प्रवचनेति ।
पञ्चभूतेति सूत्रस्थस्थूलादित्यस्यार्थः । बाह्याभ्यन्तराभ्यां सूक्ष्मस्थूलदेहाभ्याम् । कार्यलिङ्ग-
केति स्थूलानां सावयवानां भूतानां कार्यत्वात्तैस्तत्कारणानि तन्मात्राणि शब्दादीन्यनुमीयन्ते
द्विविधेन्द्रियैः तन्मात्रैः कार्यैरहंकारोऽनुमीयते । तेन बुद्ध्यात्मकं महत्तत्त्वं, तेन कार्येण प्रकृतिरिति । एवं
कार्यलिङ्गकानुमानगम्यत्वम् । तेनानुमानमित्यादृत्य योजनीयानि सूत्राणीत्युक्तम् । मूल इति मूलं
1075
८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० २ पा० १ अ० १ सू० २.
भाष्यप्रकाशः ।
तस्यामेव मूलकारणता निर्णीता । तदिदमनुमानान्न सिद्ध्यति । स्थूलेषु पृथिव्यादिचतुर्षु
गन्धादिगुणाविनाभावस्य प्रत्यक्षसिद्धत्वेन शब्दे च द्रव्यजन्यत्वस्य प्रत्यक्षसिद्धत्वेन पूर्ववर्ति-
त्वस्य प्रत्यक्षबाधितत्वाद् गुणनाशेपि द्रव्यदर्शनेन व्यतिरेकव्यभिचाराद् गुणातिरिक्तानां
मात्राणां लोकाप्रसिद्धत्वाच्च न स्थूलैस्ता अनुमातुं शक्यन्ते प्रत्युत पृथिव्यादिचतुष्टये तत्पर-
माण्वनुमानमेव सुकरम् । आकाशो नित्य इत्येव च युक्तम् । एवं मात्राणां स्थूलकारणत्वेन
मात्रात्मकस्वरूपेण चासिद्धौ तत्साधितानामहंकारमहत्तत्त्वप्रकृतीनामप्यसिद्धिरेव । नापि द्विविधे-
न्द्रियाभ्यामहंकारसिद्धिः । शब्दातिरिक्ताया वाचो, गोलकातिरिक्तानामन्येषामपि कर्मेन्द्रियाणां
चाप्रसिद्धत्वात् । गोलकैरपि भूतानामेव सिद्धेश्च । तेषां स्वविलक्षणोपादानासाधकत्वात् ।
रश्मिः ।
कारणम् । तस्यामिति मूलप्रकृतौ । पृथिव्यादीति । अत्र भूतत्वमाकाशादिपञ्चान्यतमत्वं
सविशेषशब्दादिमत्त्वं वा सिद्धान्ते । बहिरिन्द्रियग्राह्यविशेषगुणवत्त्वं तदिति केचित् । तदालंकारिका न
सहन्ते । 'योग्यताघटितमपि प्रमाणविरहितम्' इत्युक्तं प्रस्थानरत्नाकरे । शिरोमणिस्तु स्पन्दसमवायि-
कारणतावच्छेदको जातिविशेषो भूतत्वम्, समवेतेन्द्रियग्राह्यगुणवद्वृत्तिद्रव्यत्वव्याप्यजातिमत्त्वं तदिति
केचिदित्याह पदार्थतत्त्वविवेचने । द्रव्यजन्येति आकाशजन्यत्वस्य । पूर्ववर्तीति अनन्यथा-
सिद्धत्वे सति कार्यनियतपूर्ववृत्तित्वं कारणत्वमिति कारणलक्षणघटकस्य पूर्ववर्तित्वस्य बाधितत्वे-
ति । तथा च कार्यकारणभावाभावान्नानुमानमिति भावः । गुणनाश इति आमघटादौ तेजः-
संयोगेन तथा । व्यतीति अश्मा गन्धवान् पृथिवीत्वाद् इत्यत्र यत्र यत्र पृथिवीत्वं तत्र तत्र
गन्धवत्त्वमित्यन्वयव्याप्तिः । व्यतिरेकस्तु यत्र यत्र गन्धवत्त्वाभावस्तत्र तत्र पृथिवीत्वाभावः, तस्य
व्यभिचारात् । ननु न गुणास्तन्मात्राः किंतु भूतसूक्ष्मावस्था इत्याकाङ्क्षायामाहुः गुणातीति ।
लोकेति पुराणादिस्तुल्यप्रसिद्धत्वाच्च । न स्थूलैरिति स्थूलानां कार्यत्वाभावान्नानुमातुं शक्यन्ते ।
प्रत्युतेति अत्र प्रत्युत पञ्चतन्मात्रेभ्यः स्थूलानामनुमानमिति नोक्तम् । पृथिवी गन्धवत्त्वाद्वटवदि-
त्यादौ साध्यहेतुतावच्छेदकैक्यात् । यदि च गन्धसमानाधिकरणद्रव्यत्वापरजातिमत्त्वं पृथिवीत्वमिति
न तयोरैक्यमिति विभाव्येत तदापि गन्धवत्त्वं पृथिवीत्वमिति पक्षे तयोरैक्यं स्यात् । अतोऽश्मा
परमाणून् स्थूलत्वाद इत्याद्यनुमानमेव सुकरम् । एवकारेणोक्तानुमानव्यवच्छेदः । पञ्चम-
भूतं वदन्त एवमाकाशे प्राप्तमनित्यत्वमनुमन्यन्ते आकाश इति । 'न वियत्' इत्यधिकरणे स्पष्टम् ।
असिद्धिरिति न हि धूमसिद्धयभावे वह्निसिद्धिरित्येवं स्थूलात्पञ्चतन्मात्रास्यासिद्धौ तैरहंकारादीना-
मप्यसिद्धिः । लोकाप्रसिद्धत्वादेवकारः । बहूनामनुग्रहस्य न्याय्यत्वात् । महत्तत्त्वमन्तःकरणम् । तैरहं
कारस्येति सूत्रांशं दूषयन्ति नापीति । बाह्यं स्थूलम् । आन्तरः शब्दः, ताभ्यां बाह्याभ्यन्तराभ्यां
तानीन्द्रियाण्यनुमेयानि तैरहंकारस्यानुमानमेकोऽर्थः। यद्वा अभ्यान्ता रूपरसादयः तैरिति द्वितीयोऽर्थः।
तत्र प्रथमार्थमाहुः द्विविधेति । तत्र मीमांसकाः यत्संप्रयुक्तेऽर्थे विशदावभासं ज्ञानं जनयति
तदिन्द्रियम् । नैयायिकास्तु शब्देतरोद्भूतविशेषगुणानाश्रयत्वे सति ज्ञानकारणमनःसंयोगाश्रयत्वं
तत्त्वमिति । सिद्धान्ते तु देहसंयुक्तत्वे सति स्वफलेनात्मज्ञापकत्वम् । अन्येषामिति पाण्यादि-
चतुर्णां श्रोत्रादीनां चेत्यर्थः । एतच्चतुर्थपादे स्फुटिष्यति । तर्हि गोलकानामनुमानमस्त्विति
चेत्तत्राहुः गोलकैरिति । अनुमितैर्गोलकैर्भूतलक्षणगोलकानां सिद्धिर्नाहंकारस्य सिद्धिः । नन्विदं तु
लोकेऽपि तैजसाहंकारकार्याणीन्द्रियाणीति प्रसिद्धमितिचेत्तत्राहुः तेषामिति । असाधकेति
1076
!
Wait, in Devanagari, short i (ह्रस्व इ) is on the left, long ee (दीर्घ ई) is on the right!
The matra on ग is on the left: so it's ग्रि!
Wait, what about the next letter? It is यो!
Wait, if it's सामग्री, it would be 'सामग्री' + 'योग' = "सामग्रीयोगयुक्त..."!
Wait, why "मन्त्रि"?
Could it be "मन्त्रि" (counselor/minister)? No, "युक्तमन्त्रि"?
Wait, what about "युक्तमात्रज्ञानसापेक्षत्वात्"?
No, there is clearly an anusvara/nakara and i-matra. Wait, does it say:
"समग्रियोगयुक्तमन्त्रिज्ञानसापेक्षत्वात्" literally?
Let's examine every letter:
स (sa)
म (ma)
ग्रि (gri - with short i matra)
यो (yo)
ग (ga)
यु (yu)
क्त (kta)
म (ma)
न्त्रि (ntri - na + tra + short i)
ज्ञा (jna)
न (na)
सा (sa)
पे (pe)
क्ष (ksha)
त्वा (tva)
त् (t)
Yes, the printed glyphs literally read:
समग्रियोगयुक्तमन्त्रिज्ञानसापेक्षत्वात् ।
Wait, could it be "समग्रियोगयुक्तम
वत्त्राप्यभिन्नतमःपदसत्त्वात्!
-
"निर्गुणपदवत्त्राप्यभिन्नतमःपदसत्त्वात्" = "निर्गुणपदवत् तत्रापि अभिन्न-तमःपद-सत्त्वात्"!!
-
WOW. That makes 100% philosophical and grammatical sense:
-
Just like the word "nirguna", there also ("tatra api" -> ttraapi), because of the presence of the identical word "tamas" ("abhinna-tamah-pada-sattvat").
-
Brilliant!
-
Line 20:
मित्यहतपाप्म ब्रह्म । पराशरे ब्रह्मनिरूपणेऽपि । मनुस्मृतिषु तमोनिरूपणं तदवान्तरप्रलयविषयं- Wait, look at
पराशरे ब्रह्म...: - Is it
ब्रह्मनिरूपणेऽपिorब्रह्मकनिरूपणेऽपि? - Wait, line 20:
पराशरेthenब्रह्मthenनिरूपणेऽपि! It isपराशरे ब्रह्मनिरूपणेऽपि ।(No 'क'). - Wait, look at before it:
मित्यहतपाप्म ब्रह्म ।-> wait,मित्यपहतपाप्माor
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ९१
भाष्यप्रकाशः।
प्रयास्येतद्वै रजसो रूपं तद्रजः खल्वीरितं विषमत्वं प्रयात्येतद्वै सत्त्वस्य रूपं तत् सत्त्वमेवेरितं
रसः संप्रास्रवत् तत् सोऽशोऽयं यश्चेतामात्रः प्रतिपुरुषः क्षेत्रज्ञः सङ्कल्पाध्यवसायाभिमान-
लिङ्गः प्रजापतिः' इत्युक्त्वा तस्यांशा ब्रह्मविष्णुरुद्रा इति स एवापरिमितधा उद्भूभूत इति
चोक्त्वा, उद्भूतत्वाद् भूतेषु चरति प्रविष्टः स भूतानामधिपतिर्बभूव इत्यसावात्मान्तर्बहि-
श्चेत्युक्तम् । तत्र तमो वा इदमग्र आसीदित्यनेन परिदृश्यमानजगतः पूर्वरूपं तम इत्युक्त्वा
एकं तत् परे स्यादित्यनेन तदानीं तस्य पराभेदं चोक्त्वा ततः क्रमिकवैषम्येण रजःसत्त्वयोः
स्वरूपप्राप्तिं ततः सत्त्वसारस्य मुख्यजीवत्वं तस्यानेकधोद्भूतत्वेन सर्वक्षेत्रज्ञत्वं सर्वाधिपतित्वं
चोक्त्वा इति हेतोरात्मान्तर्बहिश्चेति निगमनाच्चेतनाचेतनरूपता परस्यैव बोध्यत इति तत्रापि
महदादीनां सांख्योक्तरीतिकस्वरूपानुपलम्भात् । 'तमो वा इदमेकमास तत् परे स्याद्' इति
पाठेऽपि तत्पदेन एकस्य परामर्शात् स एवार्थः । न चात्र सप्तम्या आधाराधेयभाव-
स्फोरणादविभाग एव बोध्यत इति शङ्क्यम् । सुबालोपनिषदि प्रलयप्रकरणे, 'पृथिव्यप्सु प्रलीयते
आपस्तेजसि विलीयन्ते तेजो वायौ प्रलीयते वायुराकाशे विलीयते आकाशमिन्द्रियेष्वि-
न्द्रियाणि तन्मात्रेषु तन्मात्राणि भूतादौ विलीयन्ते भूतादिर्महति लीयते महानव्यक्ते लीयते
अव्यक्तमक्षरे विलीयते अक्षरं तमसि विलीयते तम एकीभवति परस्मिन् परस्तान्न सन्नासन्न
सदसदित्येतन्निर्वाणमनुशासनमिति वेदानुशासनम्' इत्यत्र शब्दान्तरेण लयव्यतिरिक्तैकी-
भावस्वरूपबोधनादविभागस्वरूपस्यैकीभावस्य वक्तुमशक्यत्वात् । न च स्वरूपैक्यं लयः, एकी-
भावस्त्वविभाग इति वक्तुं शक्यम् । लिश्लेषण इति धात्वर्थस्य, 'एके मुख्यान्यकेवलाः' इति
रश्मिः।
रूपमिति । सत्त्वमेवेरितमनभिव्यक्तेनेरितं गतं सत्त्वमेव न तु रजस्तमसी । ज्ञानं भक्त्यात्मकमपि
जनयित्वा रसो भवति । रस आस्वादने । आस्वादनकर्ता भवति । छान्दोग्यादहमः । स रसः संप्रा-
स्रवत् । संशब्देन वायुशब्दात्मकः प्रशब्देन पूर्णः अस्रवत् आमघटवदन्यत्राप्यधिकारिषु स्वधर्मसंबन्धं
कृतवान् । क्षेत्रज्ञो जीवः विराडभिमानी । लिङ्गदेहमाह सङ्कल्पेति । तस्यांशा इति । तेन 'कदा-
चित्पुरुषद्वारा'इति सृष्टिरुक्ता । स प्रसिद्धः कृष्णः भूतानामधिपतिर्यः स बभूव । अन्तर्बहिराकाश-
शरीरत्वादिति । पराभेदमिति । पर अभेदो हि प्रकाशाश्रयन्यायेन । सर्वाधिपतित्वमिति ।
ननु व्याख्याने कृष्णावतार उक्त इति चेन्न 'नैभिन्त्यं वाचि पूर्ववत्'इति सुबोधिन्यामाचार्योक्तेरवि-
शेषादवतारावतारिणोः । अन्तरिति अन्तश्चेतनम् । बहिश्चेतनम् । सांख्योक्तरीतिकेति श्रुतौ
संकल्पाध्यवसायाभिमानलिङ्ग इति मनोमहदहंकाराणां लिङ्गशरीरत्वमिति सांख्याभिमतोऽर्थः । 'कामः
संकल्पो विचिकित्सा श्रद्धाश्रद्धा धृतिरधृतिर्हीर्धीर्भीरित्येतत्सर्वं मन एव'इति श्रुत्याध्यवसायाभिमानधर्मा-
वच्छिन्नमनोलिङ्ग इत्यर्थः सिद्धान्ते । इति स्वरूपानुपलम्भात् । पराभेदं स्वयमुक्तं तदुपपादयन्ति
न चेति । अविभाग इति अनभिव्यक्तस्य स्वरूपेऽविभागेन प्रतीतिः प्रसिद्धैव । एकीभवतीति
केवलीभवति । निर्वाणं मोक्षः । शब्दान्तरेणेति तम एकीभवति परस्मिन्निति विलीयत