अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 991, कुल 2600 में से
संदर्भ में पढ़ें४७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० १ सू० १
अनेकरूढिशब्दानां वाच्यं ब्रह्मैव नापरम् ।
शाक्तास्तांश्चेत् तथा ब्रूयुस्ते सन्मार्गाद् बहिष्कृताः ॥
भाष्यप्रकाशः ।
तदेतत् सर्वमभिसंधायाहुः अनेकेत्यादि । शक्तित इति । जैमिन्युक्तं भाट्टप्रसिद्धं
लोकवेदाधिकरणमाश्रित्य लौकिकशक्तितः । तथेति प्रकृतिवाचकत्वम् । शाक्तास्तां चेदिति-
कश्चित् पाठः । तदा तु, तां प्रकृतिं तथा जगद्बीजभूतां ब्रूयुरित्येवं योजना । तथाच,
‘शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि’
रश्मिः ।
व्याचख्युः जैमिन्युक्तमिति य एव लौकिकाः शब्दाः ते एव वैदिका इति वदन्ति तद्यदि जैमिन्युक्तं
स्यात्तदा सर्वे विधयच्छन्दसि विकल्प्यन्ते इत्यादिपूर्वै व्याख्यातेः स्फुटा इति कारिकांशव्याख्याने खरा-
दिना भेदोपपादनं विरुद्धमिव भायात् अतो हि उत्पत्तौ वेत्यादिप्रथमपादाधिकरणमन्यथा व्याकर-
णीयं यल्लोकवेदाधिकरणमित्युच्यते । तर्हि शक्तितश्चेतया ब्रुवाणा मीमांसकाः के इत्यत आहुः
भाट्टेति तथा चाहुः जैमिनिन्यायमालाविस्तरे तदेवमधिकरणत्रये व्युत्पादनाय भाट्टप्राभाकरमतभेद
उक्तः । अद्य प्रायेण भाट्टमतमेवोपन्स्यते इति चतुर्थाधिकरणावतरणे सप्तमाधिकरणकारिके ।
‘वेदवाक्यममानं स्यात् मानं वा नास्य मान्ता ।
पृथक्संकेतवीक्षायामनेपेक्षत्ववर्जनात् ॥
वेदेपि लोकवन्नैव वाक्यार्थे संगतिः पृथक् ।
ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः’ ॥ इति ।
तथा च वृद्धव्यवहारेण लोके शक्तिग्रहः गृहीतशक्तिकः शब्दो वेदेपि बोधक इति इदं
भाट्टमतं भाट्टप्रसिद्धम् । लौकिकशक्तितो वेदे व्यक्तपदे तथा प्रकृतिवाचकत्वं ब्रूयुः ते सन्मार्गादुक्ता-
दोमित्येकाक्षरं ब्रह्मेत्यादि श्रौतान्मार्गाद्बहिःकृताः पाषण्डिन इति भावः । अत्रेतिहासमते रूढि-
शब्दान्तर्गतोव्यक्तशब्दोपि भवति । ननु पूर्वपक्षे यौगिकोव्यक्तशब्दः उक्तः वेदान्ते योगादरादिति-
ह्रासे तु रूढिरव्यक्तपदस्याक्षरे । ननु योगोपि संभवीति चेन्न ज्ञानिनः प्रति व्यक्तत्वेन तदेव हि
सर्वप्रकारेण न व्यज्यत इति भाष्यविरोधात् । अत एव न कोशोक्तशंकरादौ योगः । अत एव
न योगरूढः शब्दः । ततो रूढ्यास्य वाच्यं ब्रह्माक्षरं ब्रह्मेत्यर्थः । विष्ण्वादयो वाच्या इति वदन्तः
श्रौतान्मताद्बहिःकृताः विशिष्टाद्वैतवादिनोव्यक्तपदेनाक्षरग्रहणेनासंबद्धाभिलापेन च सर्वसंप्लववादिनो
निराकरणं इदमयुक्तम् । ‘आचार्यचैत्यवपुषा स्वगतिं व्यनक्ति’ इति ‘आचार्यं मां विजानीया-
न्नावमन्येत कंचन’ ‘सर्ववादानवसरं नानावादानुरोधि तत्’ इति निबन्धे । तथापि नानावादानुरोधेन
क्रीडतः क्रीडाप्रकाशपूर्वकनिर्दृष्टक्रीडानिरूपणं ज्ञेयमेवं पूर्वत्राग्रेपि बोध्यम् । यथा शंकराचार्यमते-
व्यक्तपदेन शरीररूपमाया सैवाविद्या सोच्यते । एते तु शरीरमव्यक्तपदार्थमाहुः तत्र कोशः प्रमाणं
तदपेक्षया गीताप्रमाणं प्रबलमिति नाव्यक्तवाच्यं शरीरमपि त्वक्षरमित्येतेनेति भाष्यार्थकृतनिराकरणं
‘शरीरं रथमेव तु’ इत्यत्र शरीरग्रहणेनानन्यलभ्यो हि शब्दार्थः इत्यसंबद्धाभिलापश्च । भास्कराचार्य-
मतेप्येवं अव्यक्तपदार्थः शरीरं असंबद्धाभिलाप भाष्यार्थकृतनिराकरणे पूर्ववत् । भिक्षुमतपि ज्ञेयम् ।
माध्वमते तु अव्यक्तपदार्थो विष्णुरक्षरः । सोपि सत्त्वगुणोपाधिरतः सच्चिदक्षरान्निष्ठा इति टीकाविरोधः
894