सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 938, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 938

श्रीपुरुषोत्तमविरचिता । १३
ततस्त्रयोदशे द्विसूत्रे सुषुप्त्युत्क्रान्त्योरित्यधिकरणे बृहदारण्यकस्थं ज्योतिर्ब्राह्मणं शारी-
रब्राह्मणं चेत्युभयं विषयत्वेनोपन्यस्य, तयोः किं जीववाक्यत्वमुत ब्रह्मवाक्यत्वमिति संदेहे, उपक्रम-
स्यास्खातविरोधत्वेन प्राबल्यात्, तत्र च 'कतम आत्मे'तिप्रश्ने 'योयं विज्ञानमयः प्राणेषु हृद्यंत-
र्ज्योतिः पुरुष' इति शारीरलिङ्गात्, 'योयं विज्ञानमयः प्राणे'ष्विति काण्वपाठे उपसंहारे च तादृश-
वाक्याद्, यद्यपि संसारी प्रतीयते, तथापि मध्ये 'ध्यायतीवे'त्यादिसंसारिधर्मनिराकरणादुपसंहारे च
'स वा एष महानज आत्मे' तिसंसारधर्मरहितपरमेश्वरात्मबोधनादन्यैश्च हेतुभिः परमात्मभिन्नो संसारी
मुक्तो जीवः प्रतिपाद्यते इति पूर्वपक्षे, यदि मुक्तो जीवो ब्रह्माभेदेनात्र प्रतिपाद्यः स्यात्तदावस्थाभेदस्या-
प्रयोजकत्वात्सुषुप्तावुत्क्रान्तौ च जीवं परमेश्वरान्न भिन्द्यात्, प्रतिपिपादयिषितेऽभेदे अवस्थया भेदक-
थनस्य निष्प्रयोजनतया वैयर्थ्यप्रसङ्गात्, जाग्रत्स्वप्नयोरज्ञत्वादिवैशिष्ट्यस्य प्रत्यक्षसिद्धत्वेन सुषुप्ति-
मरणयोस्तमोभिभवादज्ञानादिवैशिष्ट्याज्ञानेपि सौषुप्तिकस्मरणेन मृतानां भूतादिभावदर्शनेन चानुमान-
सिद्धतया तत्कथनवैयर्थ्यानपायाच्च । अतो यत् ज्ञायमानावस्थासिद्धं भेदमनुवदति तदसंसार्यवस्था-
यामपि भेदबोधनायैवानुवदति । 'यथोदकं शुद्धं शुद्धे आसिक्तं तादृगेव भवति एवं मुनेर्विजानत
आत्मा भवति गौतमे'ति काठकेपि तथैव श्रावणात् । न च तर्ह्युपक्रमाद्यनुरोधादसंसारी परमेश्वरस-
मानधर्मा जीवो वाच्योस्त्विति शङ्क्यम् । उपक्रमादिष्वपि तथार्थाभावात् । तथाहि । उपक्रमे 'किं-
ज्योतिरयं पुरुष' इति प्रकाशकप्रश्ने 'आदित्याद्यनंतरमात्मज्योति'रित्युत्तरे संसारिणः पुरुषस्य प्रकाशा-
पेक्षित्त्वेनाप्रकाशकत्वात् 'प्रकाशक आत्मा क' इत्याशयेन पृच्छति 'कतम आत्मेति ?' । तत्र स्पष्टतया
वक्तव्येप्युत्तरे याज्ञवल्क्यो 'न वदिष्ये' इति स्वाभिसंधेर्वरदानस्य चानुरोधात् क्लिष्टमेवोत्तरं दत्तवान् ।
अतस्तद्विचारे 'अत्रायं पुरुषः स्वयंज्योतिर्भवती'ति निगमनवाक्ये परमात्मैव स्वयंपदवाच्यः सिध्यती-
त्युपक्रमगतः प्रश्नः सामान्योप्युत्तरे तत्पर एव पर्यवस्यति । तथापि क्लिष्टप्रयोगात् जनकेन सोर्थः
सम्यङ् न ज्ञातः, किंत्वेतावत् ज्ञातं संसारिव्यतिरिक्तः आत्मा प्रकाशक इति । ततस्तत्संदेहवारणाय
पृच्छति 'विमोक्षाय ब्रूही'ति । तदापि पूर्वोक्तानुरोधात् 'स वा एष एतस्मिन् संप्रसादे रत्वा चरित्वे'-
त्यादि क्लिष्टमेवोत्तरं दत्तवान् । तदा सुषुप्तौ जीवस्यासङ्गत्वे उक्तेपि जनकस्य संदेहो न निवृत्त इति
पुनर्मोक्षाय पृच्छति । तदा पुनरपि तथैव वदन् मत्स्यादिदृष्टांतेन स्वप्नसुषुप्ती अवस्थे उक्त्वा, सुषुप्तौ
असङ्गादपि जीवात् परमात्मानं भेदेनाह, संपरिष्वक्तस्त्रीपुंदृष्टान्तेन । तदापि जनकस्य प्रकाशकसंदेहो
न निवृत्त इति पुनर्मोक्षाय पृच्छति । तदा पुनरपि क्लिष्टवाक्येनैवोत्तरे, पुनरपि मोक्षाय पप्रच्छ । तदा
याज्ञवल्क्यो राज्ञो मेधावित्वाद्भीतः संसारिणो जीवस्य मरणावस्थां वदन् परमेश्वराज्जीवस्य भेदमाह ।
तदापि क्लिष्टप्रयोगातस्य संदेहो न निवृत्त इति तदानीमकामयमानस्य सद्योमुक्तिमाह । तत्र 'ब्रह्मैव
सन् ब्रह्माप्येती' तिश्रुतेः 'प्राज्ञ आत्मा ब्रह्मैवे'ति च श्रुतेर्जीवस्य ब्रह्मभाव एव मुक्तिः । प्राज्ञ आत्मा
ब्रह्म योस्ति स एव प्रकाशकस्तज्ज्योतिषैवायं जीवः सर्वं करोतीति ज्ञात्वा जनकः 'सोहं भगवते सहस्रं
ददामी'त्युक्तवान् । तदा याज्ञवल्क्यः श्लोकैः सर्वं शास्त्रार्थमुक्त्वा 'स एष आत्मे'त्यादिना तमेवार्थं
स्पष्टमुक्तवान् । तदा जनको विदेहान् स्वात्मानं च तस्मै दत्तवान् । याज्ञवल्क्योपि तथा विद्यां
समापितवान् । अत उपक्रमोपसंहारयोः परमात्मन एव प्रकृतत्वसिद्ध्या तस्यैव प्रकरणित्वम्, न तु
ब्रह्मभावापन्नस्य जीवस्येति सिध्यति, समाप्तौ फलादिशब्देभ्यश्च । तस्मादिदं ब्रह्मवाक्यमेवेति ।
841