अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 932, कुल 2600 में से
संदर्भ में पढ़ेंश्रीपुरुषोत्तमविरचिता । ७
ततोऽष्टमे नवसूत्रे वैश्वानराधिकरणे पूर्वाधिकरणोक्तं रूपं साङ्ख्यसिद्धकार्येश्वरस्य कुतो
न ? अक्षरपरमपुरुषयोर्भेदाभेदौ च कथमित्याकाङ्क्षायां, छान्दोग्यस्थां वैश्वानरविद्यां विषयवाक्यत्वे-
नोपन्यस्य, रूपस्य नित्यत्वं विरुद्धधर्माश्रयत्वं च तत्रोपॊद्घातेन विचारितम् । तत्र प्रथमसूत्रे
वैश्वानरशब्दवाच्यो हिरण्यगर्भादिः परमात्मा वेति संशये, हिरण्यगर्भादिबोधकसाधारणशब्दाभ्यो
विशेषः प्रादेशमात्रस्यैवामितो विगतमानस्वरूपः, तस्मादित्युक्तम् । ततो द्वितीयसूत्रे 'केचित्स्व-
देहान्तर्हृदयावकाश'इत्यादिस्मृत्युक्तस्यानुमापकत्वम् । अतः प्रादेशमात्रो द्युमूर्धत्वादिविशिष्टः
परमात्मैवेत्युक्तम् । ततस्तृतीयसूत्रे ननु प्रादेशमात्रस्मृत्या वैश्वानरपदस्य भगवत्परत्वं निर्णेतुं न
शक्यम्, 'अहं वैश्वानरो भू