अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 905, कुल 2600 में से
संदर्भ में पढ़ें८१२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ११ सू० ४२
मुक्तिः फलम् । उत्क्रमण एव ब्राह्मणस्याप्युक्तत्वात् । तथ्येति सुषुप्तशरीरम् ।
अनस्थिक इत्यादि, सम्राडित्यन्तमुपसंहारः ।
भाष्यप्रकाशः।
तेनासंप्रज्ञातसमाधिरपि न वक्तुं शक्यः । मुख्यं प्रकरणं ब्रह्मणोऽवान्तरं चोत्क्रमणस्येति स्वतः
स्वरूपावस्थानरूपा सद्योमुक्तिरपि न फलत्वेन वक्तुं शक्या । तत्र हेतुः उत्क्रमण इत्यादि ।
ऊर्ध्वोच्छ्वासीभवतीत्युत्क्रमण एवोपक्रान्ते शारीरब्राह्मणस्योक्तत्वात् । तथाच तदनादृत्य
रश्मिः।
त्यागायोगाच्छास्त्रान्तरीयस्य ग्रहणे बाधकाभावात् । न च संप्रज्ञातसमाधेः सिद्धिहेतुत्वेनामोक्ष-
फलकत्वात् अप्रतिषिद्धमनुमतं भवतीति न्यायासंचारात्कुतः प्राप्तिरिति शङ्क्यम् । योऽकाम इति
श्रुतावकामादिपदानां तात्पर्यार्थस्याप्यङ्गीकारात् । तत्र च भक्तिनिवेशेन निर्गुणब्रह्माविर्भावमात्रेणा-
निर्वाहाद्भाष्यप्राप्तं समाधिमुररीकृत्य भक्तेः समाधेयत्वात् । शास्त्रान्तरीयसिद्धिफलकत्वमात्रत्यागात् ।
एकादशे पञ्चदशाध्याये ।
'निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः ।
परमानन्दमाप्नोति यत्र कामोऽवसीयते' ॥
इति वाक्ये सिद्धीनामकथनात् । प्रत्युत परमानन्दपदेन भक्तेरनुग्रहजन्यायाः सत्त्वोद्रेकिड्ढ-
न्पन्दनोक्तदिशा निर्गुणसगुणयोरभेदसिद्धत्वेनाकामादिपदतात्पर्ये भक्तिहेतूक्तदिशानुग्रहेण भक्त्या
भक्तमनोरथपूरकरूपफलकत्वसंभवेन सिद्धिफलकत्वासंभवात् । अप्रज्ञातसमाधेः मोक्षफलकत्वेन
मत्तान्तरीयत्वं लक्षणं तु सम्यक् संशयविपर्ययानध्यवसायरहितत्वेन न ज्ञायते प्रकर्षेण विशेषरूपेण
सोपासकरूपेण ज्ञायते भाव्यस्वरूपं येन स संप्रज्ञातसमाधिर्भावनाविशेषः । भावना हि भाव्यस्य
विषयान्तरपरिहारेण चेतसि पुनः पुनर्निवेशनं तथा च सांख्यप्रवचनसूत्रवृत्तौ 'समाधिसुषुप्ति-
मोक्षेषु ब्रह्मरूपतः' इति । ब्रह्मप्रेति भाष्यं विवृण्वन्ति स्म मुख्यमिति । स्वत इति । ईश्वरविचारित-
स्वरूपावस्थानरूपसद्योमुक्तेर्यद्यपि सत्त्वं तथापि जीवविचारितसद्योमुक्तिः सांख्ययोगाभ्यां बालबोधे
उक्ता सा स्वतः स्वीयसाधनैः परतः सद्योमुक्तिर्विष्णुशिवाभ्यां ताभ्यां फलदानोक्तेः तद्धीश्वरविचारित-
सद्योमुक्तौ स्वतस्त्वपरतस्त्वयोः विवक्षां कृत्वा परतः सद्योमुक्तिर्नास्ति सत्त्वतमोगुणावैशिष्ट्यात् ।
ब्रह्मप्रकरणाच्च स्वतोपि किं तु ब्रह्मणः सकाशात् । सापि न प्राज्ञत्वेन सुषुप्तिसाक्षित्वमात्रकार्य-
कारित्वेन मुक्तिदत्वाभावात् । स्वतः स्वरूपावस्थानरूपा सद्योमुक्तिरपि न फलत्वेन वक्तुं शक्येत्यर्थः ।
अपिपदेन परतः स्वरूपावस्थानरूपा सद्योमुक्तिः । ननु तर्हि मा भूतादीश्वरविचारितमुक्तौ स्वतस्त्व-
परतस्त्वे मास्तु ब्रह्मप्रकरणस्य हेतुत्वं प्रसङ्गात् सद्योमुक्तिरस्तु इत्याशङ्क्य अन्यं हेतुमाहुरित्याहुः
तत्रेति । हेतुः अन्यो हेतुः ऊर्ध्वमिति ज्योतिर्ब्राह्मणं समाप्येति शेषः । ऊर्ध्वोच्छ्वासीभवतीति
ज्योतिर्ब्राह्मणं समाप्यशारीरब्राह्मणे उपक्रान्ते उत्क्रमणे तमुत्क्रामन्तमित्याद्युक्तोत्क्रमणे एव शारीरब्राह्मणी
ब्राह्मणश्च 'यश्च जानाति ब्राह्मणः' तस्योक्तत्वात् । ब्राह्मणोक्तिस्तु संज्ञानमेवान्ववक्रामति स एष ज्ञः
सविज्ञानो भवतीति श्रुतिवाक्याभ्याम् । तथा च जीवब्रह्मणोः कर्मकर्तृव्यपदेशात् ऐक्याभावाच्च
असञ्जातसद्योमुक्तिः फलत्वेनेति भावः । भाष्यार्थस्तु उत्क्रमण एव ज्ञादिपदोक्तस्य ब्राह्मणस्य अपिपदेन
जीवस्य चोक्तत्वादिति अत्र क्रममुक्तिः सूच्यते परं तु अत्रैव समवलीयन्त इति श्रुतिविरुद्धा न
812