अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 90, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् ।
भाष्यप्रकाशः ।
वेदान्तार्थविकासकाद्भुतपदं शास्त्रं गुणैकोज्ज्वलम् ॥ २ ॥
एवं सर्वहितं चरन्नपि यदाखिद्यत्तदा नारदात्
तत्रोपायमवेत्य खेदहतये दृष्ट्वा समाधौ हरिम् ।
श्रीमद्भागवतेन संशयमहन् भक्तिप्रचारोधत-
र्तं कृष्णं मुनिमानमामि करुणं ज्ञानावतारं हरेः ॥ ३ ॥
सर्गादौ स्वमतं समस्य विधये यं ब्रह्मवादं जगौ
कौन्तेयोद्धवयोः प्रकाश्य च पुनर्वेदान्तसारं हरिः ।
तं व्यासास्यगोचरं प्रथयितुं यैर्भाष्यमाविष्कृतं
तानाचार्यवरान्नमामि करुणान् श्रीवल्लभाख्यान् प्रभून् ॥ ४ ॥
श्रीवल्लभप्रतिनिधिं तेजोरारिं दयार्णवम् ।
गुणातीतं गुणनिधिं श्रीगोपीनाथमाश्रये ॥ ५ ॥
श्रीविट्ठलेशपादाब्जनखचन्द्ररुचः सदा ।
[L