सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 899, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 899

८०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ११ सू० ४२
भाष्यप्रकाशः ।
अज्ञानं प्रापयित्वा, निश्चेष्टं कृत्वेत्यर्थः । पेशस्कारी अमरीविशेषः । पेशसो रूपस्य मात्रामपा-
दायापच्छिद्यान्यं खण्डकीटार्थं नवतरं रूपं तनुत एवमयं पुरुष इदं स्थूलशरीरं निहत्या तस्माद्
रूपाद् वासनया तदंशं गृहीत्वेति यावत् । त्यक्ते पूर्वशरीरे वासनया कथं तदंशग्रहणमित्यत
रश्मिः ।
'देहे पञ्चत्वमापन्ने देही कर्मानुगोऽवशः ।
देहान्तरमनुप्राप्य प्राक्तनं त्यजते वपुः ॥
व्रजन् तिष्ठन् पदैकेन यथैवैकेन गच्छति ।
यथा तृणजलौकैवं देही कर्मगतिं गतः' ॥
इति वाक्याभ्यां स्फुटीकुतामाहुः तथ्यथेति । ततत्र दृष्टान्तः जलायुष्का इत्यत्र वर्णलोपः ।
हन हिंसागत्योस्तत्र गत्यर्थो हनिरित्याह श्रुतिरित्याशयेनाहुः ठ्याख्यानमिति । अज्ञानं ज्ञानाभावं
विषयत्वेन ज्ञानं शरीरे तत्रैव विषयत्वेन ज्ञानाभावं गमयित्वा शरीरमदृष्ट्वेति यावत् । यद्वा निश्चेष्टं
कृत्वेत्यर्थः । अन्यमाक्रमं देहं आक्रम्यते इत्याक्रमो देहः आत्मानं पाद्व्यतिरिक्तं उपसंहरति जीवो
भगवत्कर्तृत्वविशिष्टः । आक्रम्यारम्भकानाह तथ्यथेति तत् तत्र देहारम्भकविचारे पेशस्कारीति
मूर्धन्यषकारः आन्त्यत्रिकप्रयोगानुरोधात् । अमरीति श्रीभागवते सप्तमस्कन्धे—
'कीटः पेशस्कृता रुद्धः कुड्यान्तरमनुस्मरन् ।
संरम्भभययोगेन विन्दते तत्स्वरूपताम्' ॥
इत्यत्र तथा व्याख्यानात् पूर्वं पिषू संचूर्णने रु. प. अ. रूपमुक्त्वा पिंश इत्यस्य रूपमाहुः पेशास
इति । पिंश अवयवे तु. प. से. असुन् अवयवकर्तृ रूपस् । रूपत्वं मूर्तत्वं तच्च परिच्छिन्नपरि-
माणवत्वं तन्निष्ठसावयवानुकूलव्यापारस्य विवक्षितत्वात् । मात्रां लेशमपच्छिद्य आशुः सकाशाद् अप-
द्वैधीकृत्वावयवावयवित्वे द्विधा धीविषयं कृत्त्वार्थाद् दत्त्वा ऽन्यं खण्डेत्यादि । निहत्येति अविद्यां
गमयित्वा । माया मिदा सा खस्माल्लिङ्गाच्च शरीरेगा तया जन्यो भेदः पञ्चसु महाभूतेषु पञ्चधाविभक्त-
देहेऽविद्यापदवाच्यः तदुक्तम् । 'भिन्ने पञ्चात्मके देहे गते पञ्चसु पञ्चधा' इति पिण्डोपनिषदि । तया
च जगदन्तर्गतदेहस्यात्मत्वात् अविद्याप्रापणं कृत्वाऽऽत्मरूपपञ्चमहाभूतांशस्य ग्रहणं प्राप्तं तदाहुः
तस्मादिति यावदित्यथौ शरीरं क्षेत्रं तच्च—
'महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च ।
इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः' ॥
इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः ।
एतत् क्षेत्रं समासेन सविकारमुदाहृतम्' ॥
इति गीतात्रयोदशे उदाहृतम् । श्रुताबन्यमित्यादि । रूपं मूर्तं पित्र्यं पितृभ्यो हित