सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 890, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 890

भाष्यप्रकाश-रश्मि-परिवृंहितम्। ७९७
भाष्यप्रकाशः।
एष ब्रह्मलोकः सम्राडिति निगमयित्वा तस्य परब्रह्माभिन्नत्वाय भूमवाचकेनामृतपदेनोपसंहारात्
तथेत्यर्थः । ननु स्वप्ने जीवस्यासंगतत्वश्रवणेऽपि जागरिते सङ्गेन स्वरूपयोग्यत्वाविघटनमावश्यकं
तत्रापि तज्ज्ञानार्थं मोक्षसाधनप्रश्ने, तयथा महामत्स्य इति महामत्स्यदृष्टान्तेन पुनः पुनः समा-
रश्मिः।
कर्मणा मोक्ष इति सर्वोत्तममार्गीयत्वम् । अक्षरपुरुषोत्तमयोस्त्वभेदात् ब्रह्मपदेनोपादानं फलत्वं च ।
ब्रह्मणः श्रीपुरुषोत्तमसाक्षाद्रूपत्वादेव प्रक्रान्तसुषुप्तिरूपनिर्गुणरूपानन्दप्रस्तावेऽभिधेयत्वम् ।
श्रुत्यन्तराणि तैत्तिरीयानन्दमीमांसोक्तन्यूनत्वानन्दकथनेऽपि न न्यूनतालक्षणनिग्रहस्थानम् । ननु तथापि
प्रजापत्यानन्दात्पूर्वमिन्द्रबृहस्पत्योरानन्दौ कुतो नोक्तौ इति चेन्न । सेवायामिन्द्रियकामना तयेन्द्रस्य