अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 888, कुल 2600 में से
संदर्भ में पढ़ेंHere is the complete, line-by-line transcription of the page into clean Markdown in Unicode Devanagari:
[Header] भाष्यप्रकाश-रश्मि-परिवृंहितम् । ७९५
[Bhashya-Prakasha]
भाष्यप्रकाशः।
एषास्य परमा संपदित्याद्युक्त्वा तस्य माहात्म्यबोधनायान्येषामानन्दानामेतदंशत्वं बोधयित्वा,
[Rashmi]
रश्मिः।
अंश इति यावत् । विरुद्धधर्माश्रयत्वादनंशस्यांशोपि टीकायां त्वेतस्यैव महानन्दस्य मात्रां कलाम् ।
पूर्णस्यानन्दस्याविद्योत्थानेकबहुलवृत्त्यवच्छेदवशात् मात्राशब्दार्थां विषयेन्द्रियसंबन्धकाले विभाव्य-
मानानानन्दानविद्यानि ब्रह्मादिस्तम्बपर्यन्तानि भूतानि उपजीवन्त्युपभुञ्जते इति युक्तमुपाधिमत्त्वमुक्त्वा ।
राद्धः संसिद्धः अविद्यां गमयित्वा सिद्धः । 'अविद्यां गमयित्वाऽन्यं नवतरं कल्याणतरं रूपं
तनुते पित्र्यं वा गान्धर्वं वा ब्राह्मं वा प्राजापत्यं वा दैवं वा मानुषं वा अन्येभ्यो वा भूतेभ्यः