सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 88, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 88

श्रीकृष्णाय नमः ।
श्रीगोपीजनवल्लभाय नमः ।
श्रीमदाचार्यचरणकमलेभ्यो नमः ।
श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।
भाष्यप्रकाश-रश्मि-परिवृंहितम् ।
अथ प्रथमोऽध्यायः ।
प्रथमः पादः
भाष्यप्रकाशः।
॥ श्रीकृष्णाय नमः ॥
संगीतं श्रुतिमूर्धभिस्तदविदां वागाद्यतीतं विदां
रश्मिः ।
श्रीकृष्णाय नमः । साकारब्रह्मवादस्थापकेभ्यः श्रीमदाचार्येभ्यो नमः ।
उद्धर्तुं ज्ञानरहितान् मादृशान्पराधीनः ।
कृतश्रम इवाभासि यतस्त्वं विठ्ठलेश्वरः ॥ १ ॥
जयति जगति वाणी वेदवेदान्तयुक्ता विविधमहिमशुद्धाद्वैतविद्याकृतेऽलम् ।
प्रभवति खलु वादे मायिनीतीह यस्य जयति विजितमायः श्रीमदाचार्यवर्यः ॥ २ ॥
पितृचरणोदितसरणी साकारब्रह्मस्थापिकायां तु ।
आदिमूर्तिभजनेषु प्रतिनिधीन् विठ्ठलान् नमामि ॥ ३ ॥
गुणत्रयातीतगुणाम्बुगेहे कृष्णाश्रयाद्याः सुरवर्यवृक्षाः ।
तदन्तरा मूलसुखार्थसारं शाखाद्विषद शब्देसहस्रपर्णम् ॥ ४ ॥
मुक्तालिवृन्दैरभितः स्तुतं च जुष्टं रसाकाङ्क्षिशुकादिभक्तैः ।
दिव्यं पुराणं च सहस्रनामकल्पद्रुमं नौमि रसार्थकामी ॥ ५ ॥
श्रीवल्लभाचार्यपदान्बुजयुग्मसंशोधिताशेषविशेषबुद्धिः ।
वेदान्तिहृत्पद्मविकासनेऽलं भाष्यप्रकाशे वितनोमि रश्मिम् ॥ ६ ॥
विविधदुरितपाशं व्याहतीकृत्य नस्त्वं प्रवि