अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 857, कुल 2600 में से
संदर्भ में पढ़ें७६४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० १२ सू० ४१
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥ (१।३।१२)
'आकाशो वै नामरूपयोर्निर्वहिता ते यदन्तरा तद् ब्रह्म' इति श्रूयते ।
तत्राकाशशब्दे संदेहः । भूताकाशः परमात्मा वेति । नामरूपनिर्वहणमात्रत्वमव-
काशादानाद् भूताकाशस्यापि भवतीति न ब्रह्मपरत्वम् । अन्यस्य च नियामकस्या-
भावादित्येवं प्राप्ते । उच्यते । आकाशः । परमात्मा । अर्थान्तरत्वादिव्यपदेशात् ।
भाष्यप्रकाशः।
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥ श्रूयते इति । छान्दोग्यसमाप्तौ
श्रूयते । आकाशशब्दे संदेह इति । उभयत्र प्रयोगसाधारण्यात् । श्रुतौ वैशब्दात् प्रसिद्ध-
मुग्रहेण ब्रह्मशब्दोक्त्या चोभयोर्बोधनाच्च शब्दे संदेह इत्यर्थः । अनेन बीजमुक्तम् । पूर्वपक्षमाहुः
नामेत्यादि । नामरूपयोर्निर्वाहोऽविच्छेदेन चालनम् । तत्कर्तृत्वमात्रमत्र प्रतीयते, न तु कश्चिदन्यो
धर्मः । तच्चावकाशदानाद् भूताकाशस्यापि संभवतीत्याकाशपदस्य न ब्रह्मपरत्वम् । न च धर्मस्य
सामान्यत्वेन प्रकरणबलाद् ब्रह्मपरत्वमेव कुतो नाद्रियत इति शङ्क्यम् । प्रजापतिरुवाचेत्यस्य
द्विरुक्त्या ब्रह्मप्रकरणस्य समाप्त्यवगमात् । श्यामाच्छबलमित्यादिना प्रकरणान्तरेण व्यवधानाच्च ।
नापि जीवपरत्वं शङ्कितुं शक्यम् । अभिसंभवानीत्यस्य द्विरुक्त्या तत्प्रकरणस्यापि समाप्तेः ।
आकाशपदस्य जीवे क्वापि प्रयोगादर्शनाच्च । अतोऽस्यैव धर्मस्य यद् ब्रह्मधर्मतानियामकं तदत्र
किमपि न दृश्यते । न चोपसंहारगतानां ब्रह्माऽमृतत्वामशब्दानां तथात्वम् । अवकाशदानकृतबृहं-
जनितत्त्वव्यापकत्वगुणयोगेन प्रशंसानिबन्धनाया गौण्यापि नेतुं शक्यत्वात् । नापि, ते यद-
रश्मिः ।
आकाशोऽर्थान्तरत्वादिव्यपदेशात् ॥ ४१ ॥ छान्दोग्यसमाप्तौ इति
चरमवर्णध्वंसः समाप्तिर्नास्ति नैयायिकमताभावात् । अतश्चतुर्दशानुवाकः समाप्तिपदेनोच्यते
पञ्चदशानुवाको यद्यपि समाप्त्यनुवाकस्तथापि तत्र तद्वै तद्ब्रह्मा प्रजापतये उवाच प्रजापतिर्मनवे मनुः
प्रजाभ्यः इति विद्यापरंपरामुक्त्वान्तेऽऽचार्यकुलाद्वेदमधीत्येत्यादेः 'कृत्स्नभावात्तु गृहिणोपसंहारः' इति
सूत्रे विषयवाक्यत्वेन भक्तिमार्गीयत्वेन दुर्लभाधिकारविषयत्वात् चतुर्दशानुवाकः समाप्त्यनुवाकः ।
शब्दे इति आकाशशब्दे सति अर्थयोः संदेहः । शब्दसंदेहस्य प्रथमपादे निवारणात् द्वितीयपादे
आधेयार्थसंदेहं निवार्य तृतीयपादे आधारसंदेहवारणात् । यद्वा नायं नियमो यः सर्वत्रार्थसंदेह
अतः शब्दे संदेहः । बीजमिति आकाशशब्दरूपम् । अन्यस्येति भाष्यं विवरीतुमाहुः न चेति ।
धर्मस्येति नामरूपयोरविच्छेदेन चालनस्य । समानत्वेन सार्थं व्यम् । द्विरुक्त्येति
ऋत्विज्यङ्गके छान्दोग्ये एकदावमुक्तिर्वर्तते । प्रकरणेनेति । जीवप्रकरणेन दहरप्रकरणेनेति यावत् ।
इदं त्रयोदशात्मकाऽनुवाकेनोच्यते । अतो द्वादशानुवाकपर्यनमुरुत्तेनेन्द्रप्रजापतिसंवादस्य ब्रह्म-
प्राकरणिकस्य त्रयोदशानुवाकोक्तेन व्यवधानात् । नापीति व्यवहितब्रह्मप्रकरणात् मामूदाकाशस्य
ब्रह्मपरत्वम् । अव्यवहितजीवप्रकरणात् जीवपरत्वं तु स्यादिति शङ्कितुम् । अस्येति नामरूपयो-
रविच्छेदेन चालनस्य । ब्रह्माऽमृतेति तदमृतं स आत्मेति विषयवाक्योत्तरं पठनात् । तथात्वमिति
ब्रह्मधर्मतानियामकत्वप्रकारेण । त्वं न च वदेरिति योजना । अथेति बृहंपत्वाद् ब्रह्मत्वं
नित्यत्वादमृतत्वं व्यापकत्वादामलमिति एकं प्रत्यक्षसिद्धं द्वयं 'आकाशवत्सर्वगतश्च नित्यः' इति
श्रुत्याऽऽमव्यम् । प्रशंसेति प्रशंसाया निबन्धनं कल्पनं यस्याः सा प्रशंसानिबन्धना गौणी । उपचारार्थ-
764