अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 844, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ७५१
रश्मिः ।
शङ्खोशनःप्रणीतास्तामस्यः स्मृतयः । द्वादशस्मृतयो मुक्तिस्वर्गदाः शुभाश्च षट् निरयप्रदाः सात्त्विक-
पद्मपुराणोक्ता तास्वगणिता चेति शूद्राणां विद्याधिकारः स्मार्तस्तु स्यान्न स्याद्वेति । स्यात् । मनुस्मृतेः
सर्वसंमतत्वेपि दोषाणामुक्तत्वात् व्यवहारमयूखेस्वा अभिप्रायवर्णनाच्चेति प्राप्तेऽभिधीयते ।
भाष्योक्तत्वान्मनुस्मृतेर्मुख्यत्वं श्रुतिबाधितत्वं नास्ति गेहस्थानीयत्वेन निबन्ध उक्तेः । शरीरस्थानीय-
श्रौतधर्मस्य गृहोपस्करस्थानीयः पौराणधर्मः । तदुक्तम्—
'श्रुतिस्मृती ममैवाज्ञे यस्ते उल्लङ्घ्य वर्तते ।
आज्ञाच्छेदी मद्रोही मद्भक्तोपि न मे प्रियः' ॥ इति ।
सत्ययुगे प्रचारितत्वमपि ।
'कृते तु मानवो धर्मस्त्रेतायां गौतमः स्मृतः ।
द्वापरे शङ्खलिखितः कलौ पाराशरः स्मृतः' ॥ इति ।
पराशरस्मृतेरुक्तम् । सा तु युगह्रासानुरूपतः ।
'न कश्चिद्वेदकर्ता च वेदं स्मृत्वा चतुर्मुखः ।
तथैव धर्मं स्मरति मनुः कल्पान्तराऽन्तरे' ॥
'अन्ये कृतयुगे धर्मास्त्रेतायां द्वापरेऽपरे ।
अन्ये कलियुगे नॄणां युगधर्मानुसारतः' ॥
'तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते ।
द्वापरे यज्ञमेवाहुः दानमेकं कलौ युगे' ॥ अग्रे ।
'कृते तु मानवा धर्माः' इति पाराशरस्मरणात् । टीकायां तु माधवाचार्याः । तर्हि त्रेतादिषु तपो
नाद्रियेत कृतज्ञानयज्ञदानानि नाद्रियेरन् इति चेन्न । इतरव्यावृत्तिरूपायाः परिसंख्याया अत्र विव-
क्षितत्वात् । न खल्विदानीं कश्चित् अनुष्ठानविधिर्वक्तुमुपक्रान्तः येन विधिशेषः परिसंख्या शङ्क्येत
भविष्यति तु षट्कर्माभिरत इत्यादिना तदुपक्रमः । युगसामर्थ्यं केवलमत्र निरूप्यते, यथा वसन्ते
पुष्पप्राचुर्यं ग्रीष्मे संतापबाहुल्यम् । इत्यादि ऋतुसामर्थ्यं तथा कृतादिसामर्थ्येन तप आदिप्राचुर्यमि-
त्याहुः अतो न मनुस्मृतिस्त्रेतादावव्याप्ता तास्वगणितेत्यसिद्धम् । भृगुप्रोक्तत्वेन तैत्तिरत्वात्तद्-
राजसेष्वस्यास्तैत्तिरपदेन गणनात् । तैत्तिरपदं त्वेवं स्मर्यते ।
'याज्ञवल्क्यं च आत्रेयं तैत्तिरं दक्षमेव च ।
कात्यायनं वैष्णवं च राजसाः स्वर्गदाः शुभाः' ॥ इति पाठे ।
न च तैत्तिरपदेन भृगुप्रोक्ते मानाभावः । मानमस्ति यथाह पैठीनसिः—
'तेषां मन्वङ्गिरोव्यासः गौतमायुशनोयमाः ।
वसिष्ठदक्षसंवर्तशातातपपराशराः ॥
विष्ण्वापस्तम्बहारीताः शङ्खः कात्यायनो भृगुः ।
प्रचेता नारदो योगी बोधायनपितामहौ ॥
सुमन्तुः कश्यपो बभ्रुः पैठीनो व्यास एव च ।
सत्यव्रतो भरद्वाजो गार्ग्यः कार्ष्णाजिनिस्तथा' ॥
९५ ब्र० सू० २० 751