अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 839, कुल 2600 में से
संदर्भ में पढ़ें७४६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० ९ सू० ३५
भाष्यप्रकाशः ।
प्राणः । यतो हेतोः प्राणाय भिक्षा । अन्नस्य प्राणभोगार्थत्वात् । तदयं ब्रह्मचारी जानाति न वेति
संदिश्य न ददतुः । ततो—
'महात्मनश्चतुरो देव एकः कः सो जगार भुवनस्य गोपाः ।
तं कापेय नाभिपश्यन्ति मर्त्या अभिप्रतारिन् बहुधा वसन्तम्' ॥
इति ब्रह्मचार्युक्तः श्लोकः ।
'आत्मा देवानां जनिता प्रजानाऽ हिरण्यदंष्ट्रो बभसो न सूरिः ।
महान्तमस्य महिमानमाहुरनद्यमानो यदनन्नमत्ति' ॥
इति कापेयोक्तेर्हेतुभावपि श्लोकौ भगवतः प्रजापतिरूपबोधकत्वात् परंपरया भगवत्संब-
न्धिनौ । श्लोकार्थस्तु, महात्मनो माहात्म्ययुक्तान्, चतुरश्चतुःसंख्याकान् अग्निसूर्यचन्द्रायरूपान्
देवान् वायुरूपेण, वाक्चक्षुःश्रोत्रमनोरूपान् प्राणान् प्राणरूपेण यो देव एकः कः प्रजापतिः सो
जगार ग्रसितवान् । भुवनस्य भूतोद्भवस्थानस्य भूरादिलोकस्य गोपा रक्षकः । हे कापेय तं मर्त्या
मरणधर्माणो विवेकशून्या नाभिपश्यन्ति न जानन्ति । हे अभिप्रतारिन्, बहुधा अध्यात्माधिदै-
वताधिभूतप्रकारैर्वसन्तमिति । द्वितीयश्लोके तु, हिरण्यदंष्ट्र इति, अमृतदंष्ट्रः । बभसो भक्षणशीलः ।
न सूरिः, न विद्यतेऽन्यः सूरिर्यस्मात् सः । अनद्यमानोऽन्यैरभक्ष्यमाणः । यद् यस्माद् अनन्नम्
अविद्यागादिरूपमत्ति भक्षयति तस्मान्महामहिम इत्येवं वयं जानीम इति । तथाचेयं परंपरिता
रश्मिः ।
यदाप उच्छुष्यति वायुमेवापियन्ति वायुह्रैवैतान् संवृङ्क्ते इत्यधिदैवतम्, अथाध्यात्मं प्राणो वा व संवर्गः
स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणऽश्रोत्रं प्राणं मनः प्राणो ह्येवैतान् सर्वान्
संवृङ्क्ते इति तौ वा एतौ द्वौ संवर्गौ वायुरेव देवेषु प्राणं प्राणेष्विति श्रुत्युक्तः । संवर्ग इत्यस्य संवृङ्क्ते
इति व्युत्पत्तिः । उद्वायति उद्वासनं करोति शाम्यति । अप्येति अपि एति संवृङ्क्ते ग्रसति । दैवतेषु
अधिदैवतम् । अव्ययीभावः । आत्मसु अध्यात्मम् । प्राणायेति भाष्यं विवृण्वन्ति स्म यत इति ।
हेत्वर्थः । प्राणेति निरन्नस्य प्राणा विपद्यन्त इति । अन्नस्य प्राणार्थत्वमध्यस्तजीवार्यम् । प्राणा इति
प्राणभोगो जीवस्य । ब्रह्मचारीति भाष्यं विवृण्वन्ति तदयमिति । जानातीति ब्रह्मवित्त्वाज्जानातीति
हेतोः वा विकल्पं न संदिश्य तत्संवर्गविद्यामग्रं वा न ददतुः । ननु प्राञ्जलार्थपरित्याग इति चेन्न
दुरूहत्वात् । यथा 'एषोऽर्जुनावेषधरः किरीटी जित्वा वयं नेष्यति चाद्य गावः' इत्यत्र श्लोके
प्राञ्जलार्थो वयं जित्वा गावो नेष्यतीति तथाप्यन्वयाभावात् तमद्य रक्ष यं जित्वा यः युष्माकं गा
नेष्यतीति दुरूहान्वयस्तद्वत् । अथ वा तत्संवर्गविद्योपासनां ब्रह्मचारी ब्रह्मवित्त्वात्संजानाति संवर्ग-
विद्योपासनासमये विमिक्ष इति न जानातीति संदिश्य तथापि क्लिष्टम् । ननु संवर्गविद्यायां वायुर्मुख्य
इत्यधिदैवतमित्यधिदैवतत्वात् प्राणो गौणः अध्यात्मत्वात् ततश्च वायवे हि भिक्षेति वक्तव्ये
प्राणाय भिक्षेति भाष्यं कुतः इति चेन्न । वायोरन्न वायोरग्निरग्नेरापः इति श्रुत्युक्तकार्यवायोः
ग्रहणापेक्षयाऽध्यात्ममिलनेनात्मसंबन्धिप्राणस्य मुख्यत्वात् । उभाविति भाष्यं व्याचक्षुः तत इति ।
एकादशाक्षरी जातिः वायुरूपेण प्राणरूपेणेति संवर्गविद्यायां स्पष्टम् । परंपरितेति । यदि तु कं
इति प्रश्ने न चतुरुरुक्ते । हिरण्यदंष्ट्रः बभसः इति हिरण्मयवपुषि भगवति अपेक्षितगोचरि भगवति
746