अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 821, कुल 2600 में से
संदर्भ में पढ़ें७२८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० ८ सू० ३३
ज्योतिषि भावाच्च ॥ ३२ ॥
किंच । तेषां सर्वेषामनधिकारः प्रत्यक्षत एव दृश्यते । सर्वे हि नक्षत्रा-
दिरूपेण महाभोगवन्तो जगदवभासकत्वेन ज्योतिश्चक्रे दृश्यन्ते । अग्निः
पुच्छस्य प्रथमं काण्डमित्यादिश्रुतेश्च । न हि तादृशां प्राप्तैश्वर्यवतां सर्वोपास्यानां
मोक्षदातॄणां ज्ञानकर्मणोः कश्चनोपयोगोऽस्ति । तस्मादनधिकार एव देवाना-
मित्येवं प्राप्ते ॥ ३२ ॥
उच्यते—
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥
तुशब्दः पक्षं व्यावर्तयति । भावं देवानामधिकारस्य सद्भावम् । बादरायण
आचार्यः । गौणसिद्धान्ताभावाय स्वनामग्रहणम् । किमार्थेन ज्ञानेन । तथा सति
तुल्यत्वमत आह अस्ति हि । अस्ति वेदे, 'प्रजापतिरकामयत प्रजायेय' इति
भाष्यप्रकाशः ।
ज्योतिषि भावाच्च ॥ ३२ ॥ अग्निः पुच्छस्येति श्रुतिस्तैत्तिरीयाणामारण्यके शिशुमारो-
पासनेऽस्ति । शेषं निगदेन व्याख्यातम् ॥ ३२ ॥
भावं तु बादरायणोऽस्ति हि ॥ ३३ ॥ वेदे सत्त्वमुपपादयन्ति प्रजापतिरित्यादि ।
अयमर्थः । अयं हि भूतार्थवादो यस्यैवं विदुषोऽग्निहोत्रं जुह्वतीति विद्वाक्यशेषः । स यदि स्वार्थे
रश्मिः ।
निवसन्ति स्म अत्र चेति । देवोपासनविधानं तु आदित्यस्य पादत्वेन संवर्गत्बेन ब्रह्मत्वेन
च शंकरभाष्येन्वेता अपिपदेन यस्यादित्यः शरीरमिति श्रुत्युक्तोपासना सा च शरीरत्वेन ।
यावद्विद्यादीति अयं न्यायः साधनाध्याये तृतीयपादेऽस्ति 'यावदधिकारमवस्थितिराधिकारिकाणाम्'
इति । मूल इति मूलं वसुनयाजयत् इति ब्रह्मविद्याधिकारकल्पने । तत्र मूले कुठारो मनुष्याणां
याजकर्मत्वेनाङ्गीकारात् वसुसंज्ञाया भाविनीत्वं तत् फलम् । ब्रह्मविद्याधिकारं वदतःस्वहस्तच्छेदहानिः
यथा कश्चिद्वृक्षारूढः स्वस्थितिमूलं शाखां कुठारेण छिन्दन् पतति । किं च देवाधिकारपोषिकायाः
श्रुतेस्तात्पर्यामाह जैमिनिः वसुनिति मनुष्याणां यागानन्तरभाविनी वसुसंज्ञेति । मनुष्याणामधिकार-
पोषिका श्रुतिरिति भावः । तस्मादित्यादीति । त