अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 815, कुल 2600 में से
संदर्भ में पढ़ेंदार्थार्थम् । नन्वस्य प्रपञ्चस्यानुकारित्वेन वाच्यत्वेन वा लौकिक्यमानत्वे सृष्टि-
प्रलययोर्विद्यमानत्वादनित्यसंयोगः प्राप्नोति तत्राह समाननामरूपत्वादावृत्ता-
वप्यविरोधः । वस्तुतस्तु भगवद्रूपत्वादाविर्भावतिरोभावेच्छयैव तथात्वात्-
इतिशङ्कापि । तथापि लोकबुद्ध्यनुसारेणावृत्तावपि समाननामरूपत्वात् ।
भाष्यप्रकाशः ।
अनुक्तेत्वादेः सूक्तनित्यताबोधकत्वाद्वागर्थबलविचारेण । एतद्विचारेणाशङ्कायाहुः नन्वि-
त्यादि । समाधिं व्याकुर्वन्ति वस्तुत इत्यादि । तथात्वादिति अनित्यत्वेन प्रतीयमानत्वात् ।
तथोक्तं विष्णुपुराणे प्रथमेंऽशे—
'तदेतदक्षयं नित्यं जगन्मुनिवराऽखिलम् ।
आविर्भावतिरोभावजन्मनाशविकल्पवत्' ॥ इति ।
रश्मिः ।
'सात्त्विका भगवद्भक्ता ये मुक्तावधिकारिणः ।