सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 807, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 807

रश्मिः ।
'आत्मारामाश्च मुनयो निर्ग्रन्था अप्युरुक्रमे ।
कुर्वन्त्यहैतुकीं भक्तिमित्थंभूतगुणो हरिः' ॥ इतिवाक्यात् ।
'भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषया ।
तदध्यवस्यत्कूटस्थो रतिरात्मन्यतो भवेत्' ॥ इतिवाक्यात् ।
मनीषया पदपदार्थसंबन्धरूपायाः शक्तेर्ग्रहः । ननु भगवद्दर्शनं पदार्थो यस्मिन्निति रूपं तत्र
कानि पदानीति चेन्न मनीषायाः पदपदार्थसंबन्धग्रहे कारणत्वात् । ननु पदानि तदानीं न सन्तीति
चेन्न 'तेने ब्रह्म हृदा य आदिकवये मुह्यन्ति यत्सूरयः' इति वाक्यात् मनीषायां वेदरूपपदसत्त्वात्
तथा च श्रुतिः 'यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै । तं ह देवमात्म-
बुद्धिप्रकाशम्' इति ब्रह्मणो भगवद्दर्शनं गोपालतापिन्येऽस्ति यो विधातस्मै गोपायती कृष्णः
यस्तं ह देवमात्मबुद्धिप्रकाशमिति पूर्वपादानन्तरं पादद्वयं गोपालतापिन्ये । अत्रात्मबुद्धिरात्मनो
मनसो वर्तनमेकादशधा 'एकादशामी मनसो हि वृत्तयः' इति वाक्याद्यद्यपि वक्तुं शक्यते तथापि
वेदप्रसङ्गादात्मनां वैदिकपुरुषशरीराणां वृत्तिवर्तनं हरिनाम्नां ग्रहणमिति यावत् । तस्य प्रकाशरूपं
'मुमुक्षुर्वै शरणमनुप्रपद्येत्' इति श्रुत्यंशेनान्वयः । एवं च वेदा नामसु शक्ताः क्रियायां वेति संकटे
'यावानर्थ उदपाने' इति गीतारूपवाक्यशेषात् इतिहासशरणानां पूर्वोक्तयोर्वैदिकानां क्रियारूपोऽर्थ
इति । यद्वा । भगवद्दर्शनेनोपस्थितेरित्यस्यायमर्थः । भगवद्दर्शनान्निजोपस्थितेरिति । अभेदेके ।
प्रकृत्यादिभ्य उपसंख्यानमिति वार्तिकेन तृतीया । तदुक्तं प्रस्थानरत्नाकरे अथ प्रसङ्गादिदं विचार्यते
वैदिकपदपदार्थानां भिन्नत्वात् कथं तत्र संबन्धग्रहः कस्य वा संबन्धस्य ग्रह इति । तत्र भगवद्ध्यया
वृद्धव्यवहारादिनेति ब्रूमः । अत्रादिपदेन उपमानाप्तावाक्ये ग्रहीतव्ये कथमिति चेदुच्यते यो वै
ब्रह्माणमिति श्रुतौ ब्रह्मणो वेदपाठनसाक्षाद्बुद्धिप्रकाशनस्य चोक्तेः । अत्राप्तवाक्याच्छक्तिग्रहः । पुरुषसूक्ते
तु शक्रस्य वृद्धव्यवहारेण 'सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिवदन् यदास्ते । धाता
पुरस्ताद्यमुदाजहार शक्रः प्रविद्वान् प्रदिशश्चतस्रः तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय
विद्यते' इति । अत्र यज्ञः नाम कर्ता वृद्धः प्रयोजकः प्रयोज्यवृद्धो धाता उदाहारकत्वात् । शक्रो
बालस्थाने शकु शक्नो स्फातिमन्तीतिरक् शक्नोति स्म । प. भ. । उपमानाच्छक्तिग्रहो यथा पुरुषसूक्ते
सहस्रशीर्षा पुरुषः अन्तस्तद्धर्माधिकरणोक्तः 'अत्यतिष्ठद्दशाङ्गुलम्' इति श्रुतेः । एतस्य वैश्वानराधि-
करणोक्तविरुद्धधर्माश्रयत्वेनाभिव्यापकरूपे मक्तमनोरथाविषये साकारे ब्रह्मणि यतो वाचो निवर्तन्ते
इति श्रुतिविषये परब्रह्मपदस्य संकेतग्रहः । तथाहि विराट्सदृशं परं ब्रह्मेति भाष्यादवगत्य अपि
संराधने कृते परब्रह्म पश्यति ततः इदं वस्तु परब्रह्मपदवाच्यमित्युपमितिरियं प्रत्यक्षेन्तर्भवतीति
प्रस्थानरत्नाकरे । तथा च सर्वस्येति भाष्यस्यायमर्थः ।
'पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः ।
शाब्दबोधः फलं तत्र शक्तिधीः सहकारिणी' ॥ इति
भाषापरिच्छेदेन शक्तानां वर्णपदानां वर्णविज्ञानसत्त्वेपि द्वारभूतस्य पदार्थोंपस्थितेर्विषय-
त्वादिदैविकत्वेनामावादभावेन शाब्दबोधकारणवैकल्यरूपो दोषः प्राप्तः स न । आधिदैविकाना-
मप्यर्थानां भगवत्त्वापेन रूपेणाधिदैविकानामप्युपस्थितेरिति । संकेतग्रहः सहकारी तत्सत्त्वेपि वैया-
करणास्तु अर्थसापेक्षशब्दस्वरूपमेव वाचकत्वापरनामकं शक्तिःकारणत्वादित्याहुः, सिद्धान्ते तु
सानुकूलतापरपर्याया अनादिवाचकरूपा अर्थगोपाविर्भावकशक्तिरितिफैन नच गौरवम् । परस्य