अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 80, कुल 2600 में से
संदर्भ में पढ़ेंश्रीवल्लभाचार्यचरणयोः समर्पितमिति । अत्र केचिद्विद्वांसः सम्पूर्णं भाष्यमाचार्यकृतमेवेति
मन्यन्ते । तत्र श्रीमदाचार्यचरणाम्बुजमित्यस्यार्थो व्यासाचार्यचरणाम्बुजमिति ग्राह्यम् ।
“व्यासोऽस्माकं गुरुः” इत्याचार्यवाक्यात् । एवमेवान्यत्रापि समादधते । अन्यच्च
श्रीमदाचार्याणामन्यदेकं बृहद्भाष्यमस्ति तन्मध्यस्थोऽनतिविस्तृतो भागोऽधुना नोपलभ्यते
तस्यैव भाष्यस्य संक्षेपभूतमिदं भाष्यमित्यपि केचिद् वदन्ति । वस्तुतस्तु श्रीपुरुषोत्तमचरणैः
प्रकाशे यदुक्तं तदेवास्त्यविचिकित्सितमिति । या या कृतिः श्रीवल्लभाचार्याणामस्ति तत्र तत्र
श्रीपुरुषोत्तमानां टीकादिकमपि वर्तते । यत्र यत्र पुरुषोत्तमानां टीकादिकं किमपि नास्ति सा
कृतिः श्रीवल्लभाचार्याणामस्ति नवेति सन्दिग्धोऽर्थः।
भाष्येऽस्मिन् चत्वारः अध्यायाः। ते च क्रमशः स्वरूपमतान्तरनिराससाधन-
फलप्रतिपादकाः। तत्रापि प्रत्येकाध्याये पादचतुष्टयम् । अत्र प्रथमाध्याये ब्रह्मस्वरूपबोधक-
वेदान्तवाक्यानां विचारः। तत्रापि प्रथमपादे—कार्यप्रतिपादकानि वाक्यानि, द्वितीयपादे—
अन्तर्यामिप्रतिपादकानि वाक्यानि, तृतीयपादे—उपास्यरूपप्रतिपादकानि वाक्यानि, तथा
चतुर्थपादे—प्रकीर्णानि वाक्यानीति । इत्येवं प्रथमाध्यायपदार्थसंग्रहः।
द्वितीयाध्याये मतान्तरनिराकरणम् । विना मतान्तरनिराकरणेन साधनफलयोरनुपयो-
गादिति । तत्रपि द्वितीयाध्यायस्य प्रथमपादे—श्रुतिस्मृत्योः अविरोधः प्रदर्श्यते । द्वितीयपादे—
न्यायमायावादादिमतानां निराकरणम् । तृतीयपादे श्रुतिवाक्ययोः परस्परविरोधपरिहारः।
चतुर्थपादे—जीवशरीरमध्यवर्त्तिप्राणादीनां विचारः। इति द्वितीयाध्यायपदार्थसंग्रहः ।
तृतीयाध्यायः साधनाध्यायः। तत्र प्रथमपादे—जीवस्य ब्रह्मज्ञानोपयोगिजन्मविचारः।
द्वितीयपादे—जीवस्य मुक्तियोग्यता, अत्रैव विरोधपरिहारेण ब्रह्मस्वरूपनिरूपणञ्चेति ।
तृतीयपादे—गुणोपसंहारः। चतुर्थपादे—कर्माङ्गविचारः। इति तृतीयाध्यायपदार्थसंग्रहः ।
चतुर्थोऽध्यायः फलाध्यायः। तत्र प्रथमपादे—श्रवणादेर्विचारः। द्वितीयपादे—
सर्वेन्द्रियलयादि विचारः। तृतीयपादे—क्रममुक्तिमार्गादिनिरूपणम् । चतुर्थपादे—पुष्टिमर्यादाभेदेन
फलस्य लीलानित्य-त्वादिकस्य च निरूपणम् ।
अथ प्रतिपदमधिकरणानि वर्ण्यन्ते —
तत्र प्रथमाध्यायस्य प्रथमपादे दशसंख्यात्मकान्यधिकरणानि ।
तत्र प्रथमाध्यायस्य द्वितीयपादे अष्टसंख्यात्मकान्यधिकरणानि ।
तत्र प्रथमाध्यायस्य तृतीयपादे त्रयोदशसंख्यात्मकान्यधिकरणानि ।
तत्र प्रथमाध्यायस्य चतुर्थपादे नवसंख्यात्मकान्यधिकरणानि ।
द्वितीयाध्यायस्य प्रथमपादे द्वादशसंख्यात्मकान्यधिकरणानि ।
द्वितीयाध्यायस्य द्वितीयपादे अष्टसंख्यात्मकान्यधिकरणानि ।
द्वितीयाध्यायस्य तृतीयपादे षोडशसंख्यात्मकान्यधिकरणानि ।
द्वितीयाध्यायस्य चतुर्थपादे दशसंख्यात्मकान्यधिकरणानि ।
तृतीयाध्यायस्य प्रथमपादे अष्टसंख्यात्मकान्यधिकरणानि ।
तृतीयाध्यायस्य द्वितीयपादे एकादशसंख्यात्मकान्यधिकरणानि ।
lxvii