सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 781, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 781

१८८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ३ अ० ६ सू० २२
अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥
ननु न वयं जीवे उपपत्तिरस्तीति जीवप्रकरणं कल्पयामः किंतु ब्रह्मणि
नायमर्थ उपपद्यते । अल्पश्रुतेः । अल्पे हि पुण्डरीके कथं भगवदवस्थानम् ।
व्यापकत्वश्रवणात् । यावान् वाऽयमाकाश इति । तस्माद् विरोधपरिहाराय जीव
एवाराग्रमात्रस्तथा भवत्विति कल्प्यत इति चेत्तर्हि भवान् सम्यग्विचारकोऽ-
श्रदीय एव । परं तत्समाधानं पूर्वमेवोक्तं 'निचाय्यत्वादेवं व्योमवच्च' इत्यत्र ।
तन्न प्रस्मर्तव्यम् । विरोधस्तु सर्वभवनसमर्थे ब्रह्मणि नाशङ्कनीयः । तथा पुरु-
षशरीरं च ।
'पुरुषत्वे च मां धीराः सांख्ययोगविशारदाः ।
आविस्तरां प्रपश्यन्ति सर्वशक्त्युपबृंहितम्' ॥
इति भगवद्वाक्यात् । तस्माद् भगवान्नेव दहर इति सिद्धम् ॥ २१ ॥
इति प्रथमाध्याये तृतीयपादे पञ्चमं दहराधिकरणम् ॥ ५ ॥
अनुकृतेस्तस्य च ॥ २२ ॥ (१।३।६)
दहरविरुद्धं वाक्यमाशङ्क्य परिहरति । 'न तत्र सूर्यो भाति, न चन्द्र-
तारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तमेव भान्तमनुभाति सर्वं तस्य भासा
भाष्यप्रकाशः ।
अल्पश्रुतेरिति चेत् तदुक्तम् ॥ २१ ॥ तथा पुरुषशरीरं चेति । विजिघत्सोऽ-
पिपास इत्यादिभिर्धर्मैः सूचितं पुरुषशरीरं च विरुद्धमिति नाशङ्कनीयमित्यर्थः । स्फुटमन्यत् ।
एवमत्र जीवब्रह्मवादनिराकरणेन जीवाधिको विरुद्धधर्माश्रयो भगवानिति साधितम् । तेन
भक्तिमार्गीयोपासनायां तादृश एव साक्षाद्भवतीत्यपि सिद्ध्यति । अत्र च, यावान् वेति
वाक्येन स्थितिकर्तृत्वं हार्दाकाशेऽतिव्याप्तमाशङ्क्य तन्निवारितमिति बुद्धिस्थानात्मिकैवाधि-
करणसंगतिः ॥ २१ ॥
इति पञ्चमं दहराधिकरणम् ॥ ५ ॥
अनुकृतेस्तस्य च ॥ २२ ॥ उपोद्घातरूपमधिकरणसंगतिं बोधयितुमाहुः दहरेत्यादि ।
मुण्डककठवल्ल्योर्ब्रह्मप्रकरणत्वत्साहचर्यादधिकरणेषु साधितत्वात् तद्वाक्यस्य ब्रह्मपरत्वेन तद्विरुद्धं
रश्मिः ।
अल्पश्रुतेरिति चेत्तदुक्तम् ॥ २१ ॥ भाष्ये । यावानिति 'तावानेष अन्तर्हृदय
आकाशः' इति । तथेति तदन्तःस्त्वेन भवति । पूर्वमिति द्वितीयपादे । स्फुटमिति । पुरुषत्वे
चेति वाक्यमेकादशस्कन्धस्थम् ॥ २१ ॥
इति पञ्चमाधिकरणम् ॥ ५ ॥
अनुकृतेस्तस्य च ॥२२॥ अदृश्येति आदिपदेनात्ता चराचराधिकरणम् । तद्विरुद्धमिति
सूर्याद्यभानविरुद्धम् । तद्भानं तस्य कयरूपम् । 'यावान्वा अयमाकाशस्तावानेषोन्तर्हृदयाकाशः
उभे अस्मिन् द्यावापृथिवी अन्तरेव समाहिते उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ विद्युन्नक्षत्राणि
688