सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 77, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 77

मर्यादाभक्तौ फलं सायुज्यम् । पुष्टौ साक्षाद्भगवान् । एवं यस्मिन् भगवत्कृपा भवति स पुष्टौ
आयाति । सा च कृपा तन्मार्गरुच्यादिभिरनुमीयते । सा रुचिः भक्तिरेव । शुद्धपुष्टिभक्तिफलं
तु नित्यलीला प्रवेशः पुरुषोत्तमलाभश्च । इत्यादिकं श्रीमदणुभाष्ये आचार्यैः विस्तरेण प्रतिपादितं
पुरुषोत्तमचरणैश्च तत्रप्रकाशे विस्तरेणालोडितं गोपेश्वरचरणैश्च तत्रप्रकाशरश्मौ अतिविस्तरेण
विवरितम् । अतः तत्रतोऽवगन्तव्यम् ।
अधुनात्र ब्रह्मणः मूलम् स्वरूपं विविच्य समाप्यते ।
तत्र — “कृषिर्भूवाचकः शब्दो णश्च निर्वृति वाचकः
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते ॥
ॐ तत्सत्परं ब्रह्म कृष्णात्मको नित्यानन्दैकस्वरूपः ।। इति श्रुतेः
तथा च — परिपूर्णतमः कृष्णो वैकुण्ठो गोकुलः स्वयम् ।
चतुर्भुजश्च वैकुण्ठे गोकुले द्विभुजः स्वयम् ।।
(ब्रह्मवैवर्त्त पु०)
अत एव परमानन्दः पूर्णपुरुषोत्तमः परब्रह्म श्रीकृष्ण एव । अतः निखिलनिगमा-
गमाधिगम्यमानस्वरूपः परब्रह्मश्रीकृष्ण एव प्रापणीयोऽयमेव परमपुरुषार्थः शुद्धाद्वैत-
ब्रह्मवाद इति । तत्प्राप्तिः भक्त्या विना नेति । “नायमात्मा बलहीनेन लभ्यः” इति श्रुतेः।
अत्र बलं भक्तिः। अतः शुद्धपुष्टिभक्तौ स्नेह एव नियामकः। निरुपधिस्नेहात्मिका भक्तिरेव
सर्वात्मभावः। अयमेव पूर्णपुरुषोत्तमप्राप्तौ मुख्यं कारणम् । यस्मिन् भगवत्कृपा भवति स
एव पुष्टिमार्गाधिकारी भवति । तस्मात् श्रीमदाचार्यचरणैः पुष्टिमार्गस्थापनाय प्रमाणानुरुद्धः
प्रमेयमार्गः प्रकटीकृतः। अतः श्रीमदाचार्यानुगृहीतेन पुष्टिपथेनानुसर्तव्यमिति ।
“जानीत परं तत्त्वं यशोदोत्सङ्गलालितम् ।
तदन्यदिति ये प्राहुरसुरांस्तानहो बुधाः ॥
(श्रीप्रभुचरणाः भाष्ये)
।। श्रीमदाचार्यचरणानां वेदश्रद्धा ।।
भाष्येऽस्मिन् पुष्टिभक्तिमाहात्म्यमतीव विस्तरेण वर्णितं तथा च वेदविषये भाष्यकृद्भिः
निरतिशया श्रद्धाऽपि स्थापिता । श्रीवल्लभाचार्याः वेदस्याक्षरमात्रस्याप्यन्यथाकल्पनम्,
वेदेऽर्थवादं च नाङ्गीकुर्वन्ति । “उत्तरं पूर्वसन्देहवारकं परिकीर्तितम्” इति न्यायेन पूर्वपूर्वप्रस्थान-
सन्देहवारकत्वमुत्तरोत्तरप्रस्थानस्येति वर्णयन्त्याचार्याः ।
यथा वेदे - “अपाणिपादो जवनो ग्रहीता” इत्यत्र किं ब्रह्म प्राकृतपाणिपादरहितं
यद्वा सामान्यनिषेधः, इति सन्देहे “सर्वतः पाणिपादान्तम्” इत्यादि गीतावाक्यं सन्देहवारकम् ।
गीतायाञ्च “नित्यः सर्वगतः स्थाणु०” “ममैवांशो जीवलोके” इत्यादौ सन्देहे “उत्क्रान्ति-
गत्यागतिभिः” “अंशो नानाव्यपदेशात्” इत्यादि सूत्रैर्निर्णयः। तथा च तत्वसूत्रे “जन्माद्यस्य
यतः० इत्यत्र ब्रह्मणः जगत्कारणत्वं निमित्तत्वेनोपादानत्वेन वा इति सन्देहे “अन्वयव्यतिरेकाभ्यां
lxiv