सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 764, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 764

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६७१
प्रसिद्धेश्च ॥ १७ ॥
आकाशशब्दवाच्यत्वप्रसिद्धिः । अपहतपाप्मत्वादिप्रसिद्धिः । किं बहुना
प्रकरणोक्तसर्वधर्मप्रसिद्धिर्भगवत्येव, न जीवे संभवत्यतोऽपि भगवानेव दहरः ।
चकाराद्विधिसुखेनाधिकरणसमाप्तिः सूचिता ॥ १७ ॥
भाष्यप्रकाशः ।
दृग्धर्माधारत्वस्य स्फुटत्वान्महिमरूपत्वमित्यर्थः । नच तन्मायया प्रदर्शितमिति वाच्यम् ।
‘किं स्वप्न एतदुत देवमाया किं वा मदीयो बत बुद्धिमोहः ।
अथो अमुष्यैव ममार्भकस्य यः कश्चनौत्पत्तिक आत्मयोगः ।
अथो यथावन्न वितर्कगोचरं चेतोमनःप्राणवचोभिरञ्जसा ।
यदाश्रयं येन यतः प्रतीयते सुदुर्विभाव्यं प्रणतोऽस्मि तत्पदम् ।’
इति मायादिपञ्चनिराकरणपूर्वकं भगवद्योगदर्शनकारणताख्यापनादिति । तदेतदभिगमयन्ति
न स्वित्यादि ॥ १६ ॥
प्रसिद्धेश्च ॥ १७ ॥ प्रकरणोक्तसर्वधर्मप्रसिद्धिरिति ‘अरश्च ह वै ण्यश्चार्णवौ ब्रह्म-
लोके’ इत्यादिनोक्ता । ऐरं सरःसोमसवनाख्यस्तथाऽपराजिताख्यब्रह्मपुरप्रभृतिसर्वधर्मप्रसिद्धिः । एत-
दुपबृंहणं च ‘अरनामाऽमृताम्भोधिर्ण्यनामाऽमृतसागरः’ इति वाराहे चातुर्मास्यमाहात्म्ये । तदु-
भयान्तःस्थश्रीभागवताख्यनित्यभगवल्लोकप्रसिद्धिः । पुराणान्तरेऽन्येषां च धर्माणां भगवदीयत्वप्रसि-
द्धिरिति ज्ञेयम् ॥ १७ ॥
:
रश्मिः ।
श्रुत्यन्तर इति रत्नप्रभोक्तो नार्थ उत्तरेभ्यः इति सत्त्वांशेनोत्तरेषां हेतूनां बहुत्वोक्तेः महिम्न इति
पञ्चम्यन्तमिति ज्ञापनात् ॥ १६ ॥
प्रसिद्धेश्च ॥१७॥ आकाशवाच्यत्वापहतपाप्मत्वाव्यतिरिक्तधर्माणा मस्मिन् प्रकरणे आधेयतया-
भावात्केषांचिदप्रसिद्धत्वात्प्रकरणिकमभिव्यापकाधारं पुराणान्तरप्रसिद्धिं चापेक्ष्य धर्मरूपमित्याहुः अरेति
श्रुतिरत्र ‘अरश्च ह वै ण्यश्चार्णवौ ब्रह्मलोके तृतीयास्यामितो दिवि तदैरम्मद्रीय ५ सरस्तदश्वत्थः सोमसवनः
तदपराजिता पूर्ब्रह्मणः प्रभुविमित५हिरण्मयम्’ इति । इतो भूलोकात्तृतीयास्यां ऐरं इरा अन्नं तन्मयमिरो
मण्डस्तेन पूर्णमैरंमदीयं सरः त दधिकारिणां हर्षोत्पादकं सोमममृतं विमितं निर्मितम् । अन्येषामिति
द्वितीये प्रजापतिप्रकरणे ‘य आत्मा अपहतपाप्मा विजरो विमृत्युर्विशोकोऽविजिघत्सोऽपिपासः’ इति
श्रुत्युक्तानां विजरत्वादीनां श्रीभागवते ‘कृष्णस्तु भगवान् स्वयम्’ इतिभगवदीयत्वप्रसिद्धिः । पाद्मे ।
‘क प्रणादि क चाज्ञानमचिन्त्यानन्तसद्गुणे ।
दुर्लभत्वान्न मोक्षस्य दर्शयेत्तत्त्वानजो हरिः’ ॥ इत्येवम् ।
८५ ब्र० सू० २०
671