अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 75, कुल 2600 में से
संदर्भ में पढ़ेंदुःखरूपत्वात्कथं सुखरूपत्वमिति चेदुच्यते भूम्नश्च । “यो वै भूमातत्सुखं” इति श्रुतेः
सुखरूपत्वमेव । सर्वत्र वेदान्तेष्वपि मुक्तेः सुखरूपत्वमेव । पुष्टावपि भगवत्स्वरूप-
स्यानन्दमयत्वात्तल्लाभे परमानन्दलाभ एव न तु दुःखलाभ इति । अत्र = रश्मिकाराः
योगिगोपेश्वरा आज्ञापन्ति = “अस्यैव चोपपत्तेरूष्मेति सूत्रभाष्ये । तथाहि अस्यानन्दा-
त्मकरसरूपस्य भगवतः एवायं धर्मः। ऊष्मा विरहतापः। व्यापकस्य भगवतः सर्वत्र
सत्त्वेऽपि मायया तिरोधानात्तद्विरहः सर्वसाधारणस्तथापि, न सर्वानुभवगोचरोऽपि तु यस्य
हृदि रसरूपभगवदाविर्भावो भवति तस्यैव तदप्राप्तिजतापानुभवो गोचरीभवतीत्यन्वयव्यतिरेक
रूपोपपत्तेः। तथा च रसरूपस्य वस्तुन एव तथात्वात् स तापोऽपि रसात्मक एवेति”। अनेन
सिद्धयति यत् अस्य दुःखस्य न कर्मजन्यत्वम्, कर्मजन्यत्वे सति अस्य मोक्षसुखमपि
विलुप्येत। अत एवोक्तम्—“न पश्यो मृत्युं पश्यति न रोगं नोत् दुःखतामिति” श्रुत्या
तादृशभक्तेः दुःखादिरूपत्वं निषिध्यते अतोस्य दुःखहेतुत्वेऽप्यनन्यलभ्यसाक्षात्पुरुषोत्तमा-
नन्दप्राप्तिहेतुत्वेन सुखरूपत्वमेवेति । अन्यथा वियोगावस्थायां चित्तेस्फुरायमाणमानन्दत्वमिति
न वदेत् । “को ह्येवान्यात्कः प्राण्यादि’ति, श्रुतेः वियोगावस्थायां हृदिविराजमानस्य
भगवद्रूपस्यैव जीवनहेतुत्वमिति । तथैव श्रीभागवतेऽपि —
“ता मन्मनस्का मत्प्राणा मदर्थे त्यक्तदैहिकाः ।
मामेव दयितं प्रेष्ठमात्मानं मनसा गताः ।
ये त्यक्तलोकधर्माश्च मदर्थे तान् बिभर्म्यहम् ।।
(भा. १०।४६।४)
अतः स्वपरमप्रियभगवद्दत्तं भगवत्सम्बन्धि यत्किमपि भक्तैः प्राप्यते तत्सर्वं सुखरूपमेव
भवत्यतः भगवदलौकिकरसवार्त्तानभिज्ञस्य तव कृते तु कण्टकवेधदृष्टान्तवत्कामिनीकुचकुम्भे
प्रणयप्रसङ्गे रसोत्कर्षे प्रियकृतनखवेधस्यापि दुःखहेतुत्वं भविष्यतीत्यलं प्रलापेन ।
एवं “यो वै भूमा तत्सुखं नाल्पे सुखमस्तीति” श्रुत्या परब्रह्मण एव
सूखरूपत्वात्प्रतीयमानं प्रियत्वादि ब्रह्मण्येव पर्यवस्यति । वस्तुतः जीवस्य प्रियं ब्रह्म
एव। एतदेव श्रीभागवते उक्तम् —
“अहमात्माऽऽत्मनां धातः प्रेष्ठः सन् प्रेयसामपि ।
अतो मयि रतिं कुर्याद्देहादिर्यत्कृते प्रिय ।।इति।।
अत्रेदं बोध्यम् । सिद्धान्ते रसात्मकं विरुद्धधर्माश्रयं साकारमेव परब्रह्म । “आत्मैव
पूर्वमासीत् पुरुषविध” इति श्रुतेः । फलं च ब्रह्मानन्दः । तथा च “परं ब्रह्मैतद्धो ध्यायति
रसति भजति सोऽमृतो भवति” इत्यस्य प्रत्येकं सम्बन्धो ज्ञेयः। इयं च भक्तिः फलरूपा ।
तल्लक्षणं तु परब्रह्मश्रीकृष्णस्नेहत्वमिति । तत्र “यमेवैष वृणुते तेनलभ्यः” इति वरणश्रुत्या
वरणस्य मर्यादा पुष्टिभेदेन द्वैविध्यम् । मर्यादापक्षे विहितानि साधनानि शास्त्रेषु बहूनि सन्ति
तेषां कायिकवाचिकमानसिकरूपप्रभेदाः । पुष्टौ तु वरणमेव साधनमिति । पुष्टौ भगवदनुग्रहेणैव
सर्वपापक्षयः ।
lxii