अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 747, कुल 2600 में से
संदर्भ में पढ़ेंसंशयः । किं जीवोऽन्वेष्टव्यो ब्रह्म वेति । जीवब्रह्मवादो निर्णीयते । मुख्योऽत्र हि
निर्णतव्यः । तद् यदस्मिन् वाक्ये परमार्थतो जीव एव ब्रह्म वेच्छास्त्रं च तत्रैव
भाष्यप्रकाशः।
कामानां समाधानं चोक्त्वा, एष आत्मेत्यादिना अपहतपाप्मत्वादिगुणकमात्मानं प्रत्युच्चरयति ।
तेन शरीररूपपादनित्याद् ब्रह्मपुरादन्यः सत्यब्रह्मपुररूपः पूर्वोक्तद्यावापृथिव्यादिरूपसर्वकामाधार
एष आत्मेत्यादिनोक्त आत्मा सत्यब्रह्मपुरत्वेन सिद्ध्यति । यदि च कामवदात्मनोऽप्याधेयत्वमुच्यते,
तदा पुराकाङ्क्षा न पूर्येत । अत आत्मन एवातिशिष्टब्रह्मपुरत्वमिति निश्चयः । एवं सति, ब्रह्मपुरमि-
त्यत्र यदि षष्ठीसमासस्तदास्यात्मनो जीवत्वम् । यस्यात्मा शरीरमिति श्रुत्यन्तरात् । यदि समा-
नाधिकरणसमासस्तदा आत्मा ब्रह्मैव । अतोऽनित्यपुरनाशेऽतिशिष्टो यो नित्यो दहराकाशरूप
आत्मा, स जीवो वा, ब्रह्म वेत्येव संशयाकारः पर्यवस्यति । न तु भूताकाशकोटेस्तत्र निवेशः ।
उक्तरूपत्वस्य तत्राभावादिति । अत्र दहरान्तर्वर्तिन उत्तरप्रकरणे चात्मनोऽन्वेष्टव्यत्वं श्राव्यते ।
ततश्चान्वेष्टव्यः क इत्यपि संशयः । तदेतदुक्तम्, किं जीवोऽन्वेष्टव्यो ब्रह्म वेति । ननु
तल्लिङ्गाधिकरणे आकाशशब्दोदितस्य सर्वाधारत्वब्रह्मत्वयोर्विचारितत्वात् किमनेनाधिकरणेनेति
शङ्कायां तत्प्रणयनप्रयोजनमाहुः जीवेत्यादि । उपाधिभेदात् स्वरूपविस्मरणाद्वा इदानीं भेदेऽपि
वस्तुतश्चैतन्यमात्रत्वाज्जीवाभिन्नमेव ब्रह्मेति वादो जीवब्रह्मवादः । स संभवति, न वेति निर्णी-
रश्मिः ।
नास्य हन्यते एतत्सत्यं ब्रह्मपुरमस्मिन् कामाः समाहिताः एष आत्मापहतपाप्मा विजरो विमृत्युः'
इत्यनया । प्रतीति श्रुतिः । आत्मेत्यक्षरः । ननु नास्य जरयेति श्रुतेरस्य देहस्य जरयैतदन्त-
राकाशं ब्रह्म देहवन्न विकुरुते । एवमग्रेपि ब्रह्मपुरमित्यत्र समानाधिकरणसमासात् ब्रह्मैव पुरमित्यर्थात्
न ब्रह्मणः पुरमक्षरं नित्यमित्याशङ्कायामाहुः यदीति । दहरस्याप्याधेयत्वं समानाधिकरणसमासादुच्यते
तदा यदैतज्जरा व्याप्नोति प्रध्वंसते वा किं ततोतिशिष्यते इति प्रश्ने नास्य जरयेत्याद्युक्तम् ।
तत्र पुरनिरूपणाभावो यदि तर्हि पुराकाङ्क्षापूरणाभावात् व्यर्थ एवारम्भः अतो ऽनित्यदेहादतिरिक्तस्या-
क्षरात्मकस्य ब्रह्मलोकरूपोक्तिरिति मन्तव्यमित्यर्थः । अतिशिष्टेति । एतच्च सर्वनिर्णये 'प्रभुत्वेन हरेः
स्फूर्ती लोकत्वेन तदुद्भवः' इति श्रीआचार्यैरुक्तम् । भक्तिमार्तण्डे प्रमेयप्रकरणे मयैतन्निपुणतरमुपपादितम् ।
आत्मन इत्यक्षरस्य । आत्मेति आत्माक्षरो ब्रह्म भवत्येव । उक्तेति दहराकाशरूपात्मत्वस्य
तस्योत्पत्तेर्द्वितीयाध्याये वक्ष्यमाणत्वादिति भावः । अत्र इति छान्दोग्ये दहरान्तर्वर्तिनो जीवस्य
प्रकरणं पूर्वमुत्तरे ब्रह्मप्रकरणे । अथ यदिदमित्येवं जीवप्रकरणे श्राव्यते तं चेद्ब्रूयुरस्मिंश्चेदिदं ब्रह्मपुर
इत्येवं ब्रह्मप्रकरणे श्राव्यते । अन्वेष्टव्यत्वं तु 'सर्वे कामाः समाहिताः' इति श्रुत्या सर्वकामसमाहितत्व-
रूपमन्वेषणहेतुसत्त्वात् । तदर्थाध्याहारेण । तत इति किमः संशयार्थकत्वं क्वचित्कोशे 'किमः
प्रश्ने कुत्सायां च' विश्वकोशे । ब्रह्मजीवयोः कः इति संशयः ब्रह्मसाकारत्वेन संशयविषयोपहत-
पाप्मत्वादिगुणकथनात् समाहितः सर्वेषां शासनाश्रयस्य निर्गुणत्वात् । जीवोपि वासनारूपः
सर्वसमाहिताणुत्वेन न त्वज्ञानकल्पिततत्वेन तदभावात् । उपाधीति पराभिध्यानतिरोहितानन्द-
त्वादिरुपाधिः अतिरोहितानन्दादिश्च ब्रह्मजीवयोरूपाधी । ब्रह्मेति अग्रे इतीत्यध्याहार्यं योजनीयम् ।
वाद इति । उदर्कवदनं न वेति भेदवादे नैयायिकैः श्रुतीनां भेदपरत्वम् । सत्यं भिदा सत्यं भिदा
१. ईषत्कालीनफल इति ध्येयः ।
654