सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 744, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 744

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ६५१
भाष्यप्रकाशः ।
षोडशकलासृष्ट्यर्थमीक्षणं जीवस्य संभवति । ईक्षायाः करणादीनां तदानीमभावादित्येवं सौत्रं हेतुं
द्विधा व्याचख्यौ ।
अत्रापि पूर्वव्याख्याने सूत्रस्थकर्मपदवैयर्थ्यमेव दोषः । द्वितीये तु कस्मिन्नहमुत्क्रान्त
उत्क्रान्तो भविष्यामि कस्मिन् वा प्रतिष्ठिते प्रतिष्ठास्यामीति श्रुवितस्य मुख्यस्येक्षतिकर्मणस्त्यागः
स्वयमेव बोधित इति स एव दोषः । तिस्रो मात्रा इति निन्दावाक्यं च पञ्चमप्रश्नस्थमेव, न तु
षष्ठमित्यपि ।
शैवस्तु शंकराचार्योक्तमेव विषयवाक्यमुपन्यस्य, परमेश्वरोऽन्यो वेति संशये, ईक्षतिविषयः
परमेश्वर एव । उत्तरत्र, तमोंकारेणायतनेनैवान्वेति विद्वान् यत्तच्छान्तमजरममृतमभयं परं परायणं
चेति तदसाधारणशान्तत्वादिधर्मव्यपदेशादिति व्याचख्यौ ।
तदप्यसंगतम् । हेतोरसौत्रत्वात् । तद्धर्माधिकरणेनैव गतार्थतयाऽधिकरणवैयर्थ्यापाताच्च ।
सूत्रे हेतुशरीरे प्रविष्टस्येक्षतिकर्मण ईक्षतिविषयत्वेन पक्षतयाङ्गीकाराच्च । विशेषतस्तु प्रहस्त एव
दत्तोत्तर इत्युपरम्यते ॥ १३ ॥
इति चतुर्थमीक्षतिकर्माधिकरणम् ॥ ४ ॥
रश्मिः ।
क्रियायां गौणं कर्मत्वम् । करणेति मनआदीनाम् । तदानीमिति सृष्टिप्राक् काले । द्वितीय इति
प्राणादीनां सर्जनकर्मत्वेनेक्षतिकर्मत्यागः । इत्यपीति दोष इत्यनेनान्वयः । न विदधातीत्यप्यसंभवि ।
षड् भारद्वाजादीन् प्रति नातः परमस्तीति प्रशंसावाक्यात् । न च क्रमेण विद्योत्कर्षाद्भारद्वाजं
प्रत्युक्तविधातः शब्दार्थ इति वाच्यम् । षण्णां परब्रह्मान्वेषणपराणां परब्रह्माकथने पिप्पलादस्य
प्रतारकत्वापत्तेः । न च पाष्ठी परब्रह्मविद्या षड् भारद्वाजादीन् प्रत्युक्तेति शङ्क्यम् । नापृष्टो ब्रूयादिति
न्यायेन षष्ठे प्रश्ने षण्णां पृच्छकत्वाभावात् । षष्ठप्रश्ने आधारत्वेनानिरूपणादाधारनिरूपकेस्मिन्
पादे तस्याविषयत्वाच्च । व्यपदेशमात्रस्यैव हेतुत्वेन कथमसौत्रत्वमसेत्यपेक्षायां दूषणान्तरमाहुः तद्धर्मेति ।
ननु तद्धर्मेऽधिकरणपदस्य कथं सामानाधिकरण्यम् । उच्यते । अन्तस्तद्धर्माधिकरणेनेति पठित्वा
नामैकदेशेऽधिकरणपदसामानाधिकरण्यस्य सुवचत्वात् । पञ्चाङ्गमधिकरणं पञ्चाङ्गं नामेति । वैयर्थ्येति
तेन रामानुजाचार्योक्तं ईक्षतिकर्म स व्यपदेशादिति पदत्रयोपन्यासः प्रत्युक्तः । स ईक्षतिकर्म परमात्मा
तद्धर्मव्यपदेशादित्यस्यान्तस्तद्धर्माधिकरणेन गतार्थतामुक्त्वा स इति पक्षेणैव गतार्थतायामीक्षतिकर्मणः
पक्षतानौचित्यमित्याशयेनाहुः सूत्र इति । न च शिवः सूर्यान्तःस्थ इत्यन्तस्तद्धर्माधिकरणे शैवमतमत्र
तु ईक्षतिविषयः परमेश्वर इति वाच्यम् । पर्वतमहानसादिपक्षभेदस्य वह्निमान् धूमादित्यत्र दर्शनेना-
दोषाजनकत्वात् । विशेष इति दिनकर्यां निग्रहस्थानेषु न्यूनतालक्षणनिग्रहस्थानस्योक्तेर्विशेषो
न्यूनतालक्षणनिग्रहस्थानरूपः परमेश्वर एवेत्यनेनाम्बिकाव्यवच्छेदेन तन्मतेऽम्बिकाया ईक्षतिविषयत्वा-
भावेन न्यूनतासत्त्वात् । 'ते ध्यानयोगानुगतामपश्यन् देवात्मशक्तिं स्वगुणैर्निगूढाम्' इति मन्त्रस्याम्बिकां
ध्यायतां तत्साक्षात्कारोपवर्णनपरत्वमुक्तम् । अत्र प्रहस्तः भवदुपन्यस्तेक्षतिकर्माधिकरणोक्तरीत्यापि
ध्यानकर्मत्वं तस्यैव सिद्धयति नाम्बिकाया इति । किं च प्रतीयते तावदुमासहायमित्यादिमन्त्रवर्णैव्य्र्-
स्तुरीवस्रोमासहायित्वादिविशिष्टा मूर्तिः । सापि न ध्यानार्थमारोपितेति शक्यं वक्तुम् । छान्दोग्ये
समानप्रकरणे गुणोपसंहारन्यायेन उपास्यब्रह्मणः उदाहृतमन्त्रवर्णसिद्धमूर्तिसिद्धवत्कारेण 'एष
651