अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 724, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिबृंहितम् । ६३१
रश्मिः।
विशेषविज्ञानाभावं दृढीकुर्वन् आह याज्ञवल्क्यः यत्र हीति । प्रकृतमनुसर्यते यत्रेत्यस्य स्वाप्यय-
संपत्त्योरित्यर्थं दूषयन्त आहुः तदुभयेति । उभयत्र स्वाप्ययसंपत्त्योः । तदद्वैतदर्शनम् । स
याज्ञवल्क्यः । तां दशाम् । प्रकारेति मैत्रेयीब्राह्मण इतरमिति पदादितरत्वेन प्रकारेण । ज्योतिर्ब्राह्मणे
द्रष्टव्यमिति पदात् द्रष्टव्यत्वेन प्रकारेण एकीभावप्रकारेणाविभागप्रकारेणेति वार्थः । तया मैत्रेय्या दशया
वा । तथा द्रष्टव्यत्वेन तद् द्रष्टव्यत्वं जनकं प्रत्यवदत् । तत इति । ननु मैत्रेयीब्राह्मणं ज्योतिर्ब्राह्मणं
च भाष्योक्ताया यत्र हि द्वैतमिवेति श्रुतेरनुरोधेनोक्तमुक्तानुशासनासीति श्रुतिस्तु द्वितीयमैत्रेयीब्राह्मणे
तयोरग्रेतनेस्तीति तस्याः का संगतिरिति चेन्न अमृतत्वार्थिन्या हि मैत्रेय्याः प्रव्रजनकामो याज्ञ-
वल्क्योऽमृतत्वसाधनवक्ता यावत्साधनान्युक्तवांस्तेषां च साधनानामग्रेतनमैत्रेयीब्राह्मणे समाहृतत्वात्
'उक्त्वा प्रवव्राज' इति श्रुतेस्तस्यावसायात् तया च प्रतिबन्धकीभूतजिज्ञासाया मधुब्राह्मणादिनिरूपणैर्नि-
वृत्तौ सत्यामवश्यवक्तव्यत्वेनामृतत्वसाधनानामवसरसंगतिः । प्रलय आत्यन्तिकः मोक्ष इति यावत् ।
अत्र ब्रह्मसंबन्धजीवानां विद्यमानत्वेन धर्माणांमन्यादर्शनादीनां भगवत्युपपत्तिं समर्थयन्ति स्म
तथा चेति । ब्रह्मसंबन्ध इति । तथा च संबन्धस्यापि ब्रह्माधीनत्वात् ब्रह्मण्येवान्यादर्शनादयो धर्मा
न सुषुप्तौ नापि ब्रह्मसंबन्धे इति भावः । ननु सुषुप्तिस्त्वैच्छिकामरूपो भगवानिति तत्रातिव्याप्तिः कथम् ।
सत्यम् । तद्रूपस्यालक्ष्यत्वात् जगज्जन्मादिकर्तृब्रह्मणो लक्ष्यत्वात् । ननु 'मुक्तिर्हित्वान्यथारूपं स्वरूपेण
व्यवस्थितिः' इति जीवस्य तिरोहितानन्दैश्वर्यादेराविर्भावेन हेतुना ब्रह्मात्मतया स्थितिर्जीवधर्मः इति मुक्ति-
प्रयुक्तान्यादर्शनादयो जीवधर्मा इति चेन्न एकीभावात् । तथाप्यन्यादर्शनादयो ब्रह्मसंबन्धप्रयुक्ता एव ।
जीवन्मुक्तानामपि तिरोहितानन्दैश्वर्यादेराविर्भावेपि प्रवचनादिदर्शनान्नान्यादर्शनादय इति । नान्येति
न सुषुप्तीत्यर्थः । भाष्ये आदिपदार्थत्वेन ज्योतिर्ब्राह्मणं व्याकृतं तन्नोभयत्रेति भाष्यं प्रमाणं भाष्येपि
सूत्रांशं स्वाप्ययसंपत्त्योरित्येवमस्ति स्वाप्ययसंपत्तिपदार्थयोर्व्यस्कृतयोर्भाष्ययुक्तिरुक्ता । युक्तिमन्यामाहुरि-
त्याहुः युक्त्यन्तरमिति । संपत्तिपदार्थस्य प्रसिद्धत्वात्स्वाप्ययपदार्थस्य छान्दोग्ये नवमप्रपाठकेऽविभाग-
मन्तरानुपपद्यमानस्य प्रसिद्धिः । तथाहि । संपत्त्याविर्भावकैर्भक्तैः 'लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि'
इत्यधिकरणे वक्ष्यमाणापि क्रीडा समन्वयेऽस्मिन्नध्याये ज्ञानसंपादिकां क्रीडामविभज्य वर्तते भक्त-
मनोरथाभावेन तत्पूरकक्रीडायाः ज्ञानक्रीडान्तर्गतायाः अप्याविर्भावाभावात् । मर्यादामक्तं प्रत्यपि
पुष्टिमक्तक्रीडा नाविःकरणात् । उभौ ज्ञानिमर्यादामक्तौ प्रति यथानुभवं सुषुप्तिव्याकरणसिद्धस्तै-
त्तादृशस्य भाष्ये व्याकरणं मत्वाहुः तथा चेति । तथा च व्याख्यानं ज्ञानित्वेन प्रसिद्धानां स वा एष
इत्यस्याः भूमा कस्मिन् प्रतिष्ठित इति नारदप्रश्ने सनत्कुमारेण स्वे महिम्नि इत्युत्तरिते भूमा न प्रतिष्ठित
एवं ब्रवीमीति सनत्कुमारेण पूर्वोक्ते हेतुमाह 'स एवाधस्तात् स उपरिष्टात् स पश्चादित्यादि ।
यतः स भूमैवाधस्तात् स उपरिष्टात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एव भूमैव सर्वं
तद्व्यतिरेकेणाभावाच्चासौ परमार्थतः क्वचित्प्रतिष्ठित इति फलितार्थः । यत्र नान्यत्पश्यतीत्यधिकरणतया
निर्देशात्स एवाधस्तादिति च परोक्षतया निर्देशात् द्रष्टुर्जीवादन्यो भूमेति शङ्का स्यात् तन्नुदासार्थमहं-
कारस्य ब्रह्मपुत्रत्वात् 'आत्मा वै पुत्रनामासि' इति श्रुतेस्तदभेदार्थं वा भूमानमहमात्मतया निर्दिदेश
अथातोहंकारादेश इति । अभेदानन्तरं भूम्नि जीवभेदशङ्काया ब्रह्मात्मकाहंकारभेदशङ्काया वा
वारितत्वादहमित्याकारेण भूमा निर्दिश्यत इत्यर्थः । समानमन्यत् । अविवेकिभिर्देहात्माहमिति
निर्दिश्यमानत्वात् तत्तालक्ष्यब्रह्मात्मरामनृभावताराणां सविकल्पकज्ञानानां वा भेदशङ्कां वारयितुमाह
८० ब्र० सू० १० 631