अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 710, कुल 2600 में से
संदर्भ में पढ़ेंज्ञानस्वरूपत्वादिशब्दाः । अतः संदिग्धा जडधर्मत्वेन प्रतीयमाना अपि ब्रह्मधर्मा
एवेति युक्तम् । न हि ब्रह्मवादः श्रुतिव्यतिरिक्ते सिद्धोऽस्ति । येन ब्रह्मधर्मा-
भावो निर्णेतुं शक्येत । तस्मात् सर्वाधारत्वेन निरूप्यमाणः परमात्मैव, न
प्रधानमिति ॥ ३ ॥
प्राणभृच्च ॥ ४ ॥
नन्वस्ति निर्णायकं प्राणानामोतत्ववचनम् । 'मनोमयः प्राणशरीरनेता' इति
च । अतो जीवधर्माः केचन, जडधर्माश्चापरे सर्वज्ञत्वादयोऽपि योगप्रभावाज्जीव-
धर्मा इति । तस्माज्जडजीवविशिष्टः सांख्यवाद एव युक्त इति चेन्न । प्राणभृज्जीवो
न संभवति । अतच्छब्दादेव । न ह्यानन्दोऽमृतस्वरूपः स भवितुमर्हति तन्मते ।
पृथग्योगकरणमुत्तरार्थम् ॥ ४ ॥
भाष्यप्रकाशः ।
संचरतो भोक्तुः प्रतीयते । दृष्टान्तस्तु विष्टम्भकत्वमात्रे । अन्यथा दृष्टान्तीयाशेषधर्मापत्तिः पक्षे