सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 71, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 71

न सम्भवति आत्मसृष्टत्वादिति उच्यते च “आत्मसृष्टेर्न वैषम्यं नैर्घृण्यं चापि विद्यते”
इत्याचार्याः॥
।। भगवल्लीला ।।
किमु भगवल्लीलायाः मायिकत्वमुत न वेति विचारे भगवत्येकनिष्ठत्वात्
सच्चिदानन्दात्मके ब्रह्मण्यनन्यत्वेन स्थितत्वात् स्वरूपात्मकत्वान्न मायिकत्वमिति। भगवल्लीला
किमपि प्रयोजनमधिकृत्य न प्रचलति “न प्रयोजनवत्त्वात्” (ब्र.सू. २।१।३२) इति
सूत्रन्यायेन। किन्तु “लोकवत्तु लीला कैवल्यम्” (ब्र.सू. २।१।३३) इति सूत्रात् सा
लीलैव कैवल्यं मोक्षः। तस्याः कीर्त्तनेऽपि मोक्षः। इति भाष्ये प्रतिपादनाल्लीलायाः
स्वरूपात्मकत्वाद्भगवत्कृतत्वादलौकिकत्वाच्च न सर्वथा मायिकत्वमिति वाच्यम्। अस्याः
लीलायाः लक्षणं यथा सुबोधिन्याम् = “कौतुकाधिष्ठितेन अनायासत्वेन क्रियमाणं कर्म
लीला” यद्वा “अनायासेन हर्षात्क्रियमाणा चेष्टा लीला” इति। नन्विहैव
दृश्यमानगिरिगह्वरकाननादि- सम्बन्धि लीलायाः प्रपञ्चमध्यपातित्वादनित्यत्वमिति चेन्न ।
“प्रपञ्चोभगवत्कार्यः” इत्याचार्यवचनात् प्रपञ्चस्य भगवत्कार्यत्वेन भगवत्कार्यरूपप्रपञ्च-
सम्बन्धिनीनां लीलानां —
“जयति जननिवासो देवकी जन्मवादो
यदुवरपरिषदस्वैर्दौर्भिरस्यन्नधर्मम् ।
स्थिरचरवृजिनघ्नः सुस्मितश्रीमुखेन
व्रजपुरवनितानां वर्धयन् कामदेवम् ॥
(भागवते १०।९०।४८)
इति चतुर्थप्रस्थानश्रीभागवतप्रमाणात्—श्लोके ‘जयतीति’ वर्तमानप्रयोगेणातीतानां
व्रजलीला-नामपि वर्त्तमानत्वं बोधयन् श्लोकसमाप्तौ ‘वर्धयन्निति’ पदेन’ शतृप्रत्ययेन
तस्मिन्कथाकाले तस्मिन् क्षणे तत्रैव सर्वपरोक्षलीलानां स्थितिः उच्यते। तथा च भगवतः
नामकरणप्रसङ्गे भागवते गर्गवाक्येनापि भगवल्लीलानां त्रिकालातीतत्वं नित्यवर्त्तमानत्वं
प्रवर्त्तमानत्वञ्च ज्ञाप्यते।
“बहूनि सन्ति नामानि रूपाणि च सुतस्य ते।
गुणकर्मानुरूपाणि तान्यहं वेद नो जनाः ॥
(भागवते १०।८।१५)
इत्यत्र ‘सन्तीति’ पदप्रयोगदर्शनाल्लीलानां नित्यवर्त्तमानत्वं स्पष्टमेव। ननु लोके
पाचकपाठकवद् भवतु नाम, यथा पाठनकार्ये अप्रवृत्तेऽपि पाठकोऽयमिति प्रयोगदर्शनादत्रापि
तथैवास्त्विति चेन्नैतत्। लोकासिद्धत्वादलौकिकीलीलालोकसम्बन्धिन्यपि लोकदृष्टान्तेन न
साधनीया। लोके तु भीरुपुरुषेऽपि नरसिंहवीरखरेत्यादिनामनिदर्शनान्न तथा। अत्र तु
गर्गवाक्यानुसारेण यथा नाम, तथा गुणाः, यथा च कर्म तथा रूपमिति। तच्च गां
lviii