अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 69, कुल 2600 में से
संदर्भ में पढ़ें"वेदाः श्रीकृष्णवाक्यानि व्याससूत्राणि चैव हि ।
समाधिभाषा व्यासस्य प्रमाणं तच्चतुष्टयम् ॥
उत्तरं पूर्वसन्देहवारकं परिकीर्तितम् ॥"
(शा.प्र.का. ७।८)
अत्र प्रकाशः ="वेदाः सर्व एव काण्डद्वयस्थिताः। अर्थवादादिरूपा अपि ।
स्मृतित्वेन कृष्णवाक्यानि वेदत्वेऽपि पृथगुक्तानि। व्याससूत्राणि चकाराज्जैमिनिसूत्राणि च ।
एवकारेण व्याससूत्राविरोधेनैव तदङ्गीकरणम् । ..........व्यासस्य समाधिभाषा भागवतम् ।
..........यावत् समाधौ स्वयमनुभूय निरूपितं सा समाधिभाषा । एतच्चतुष्टयमेकवाक्यतापन्नं
प्रमाजनकमित्यर्थः।"
आचार्यैः श्रीभागवतस्यापि प्रस्थाने ग्रहणं कृतम् । अत्र उत्तरोत्तरं पूर्वपूर्वसन्देह-
वारकम् । अर्थात् सर्वसन्देहवारकत्वं श्रीमद्भागवते फलितम् । श्रीभागवतस्य "निगम
कल्पतरोर्गलितं फलम्" इत्यनेन फलरूपत्वादिति।
।। आविर्भावतिरोभावः ।।
तदेतदक्षयं नित्यं जगन्मुनिवराऽखिलम् ।
आविर्भावतिरोभावजन्मनाशविकल्पवत् ॥
(विष्णु०पु०अं०प्र०)
वस्तुतः आविर्भावतिरोभावौ ब्रह्मणः शक्ती। "आविर्भावतिरोभावौ शक्तिर्वै मुरवैरिणः"
एते शक्ती ब्रह्मणोऽभिन्ने ब्रह्माधीने च । "सर्वं खल्विदं ब्रह्मेति" श्रुतेः सर्वस्य ब्रह्मरूपत्वेन
ब्रह्म स्वेच्छया जगद्रूपेणाविकृतपरिणामं प्राप्य पुनः स्वेच्छयैव सर्वमन्तर्भावयति । इमावेवा-
विर्भावतिरोभावौ उत्पत्तिविनाशावित्युच्येते लोकैः। वस्तुतस्तुः= "नासतो विद्यते भावो नाभावो
विद्यते सतः" (गीता) इति वाक्यात् असतः भावः नास्ति सतः अभावः नास्ति । ब्रह्मवादे
सर्वत्र ब्रह्मस्फूर्त्याऽभावस्य प्रश्न एव नास्ति । ननु तदा भावित्वेन भूतत्वेन वस्तुनोः सत्ता
न स्यात् तथा च घटादेः प्राग्भावप्रध्वंसाभावाभ्यामन्योन्याभावात्यन्ताभावादि निषेधात् सर्वव्यवहा-
रोच्छेदः। इति चेन्नैवम् । सर्वत्र भगवदिच्छाया एव नियामकत्वात् —
'एवं सति यत्कालावच्छेदेन सर्वेषां मिथोऽनुभवाविषयत्वं भगवदभिमतं स प्रलयकाल
इति निगद्यते। यदवच्छेदेन सर्वेषां मिथोऽनुभवविषयत्वं तथा स सृष्टिकाल इत्युच्यते। सर्वत्र
विशिष्टेच्छैव नियामिकेति सर्वमनवद्यम्'। (विद्वन्मण्डने)
एवं च निर्गुणमविकृतं नित्यशक्तिमद्ब्रह्माविर्भावतिरोभावाभ्यामक्षरजीवजगद्रूपैः
स्वेच्छया क्रीडति इति । अतः प्राग्भावादयः सर्वे अत्रैव अन्तर्निहिताः सर्वस्य
ब्रह्मात्मकत्वात्सिद्धान्तेऽत्यन्ताभावाभावः । "एवं सत्यस्मिन्कालेऽस्मिन्देशे इदंकार्यमेवं
भवत्वितीच्छाविषयत्वमाविर्भावः तदा तत्र तन्मा भवत्वितीच्छा विषयत्वं
तिरोभावः"। (विद्वन्मण्डने)
lvi