सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 672, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 672

भाष्यप्रकाशः।
इत्यादावपि तथैव सिद्धत्वाच्च । एवं सति, पुरुषौ चात्ममानवावित्यभिधानकोशेनान्यत्र
शक्तिग्रहणेऽपि ।
'तथा पुरुषशब्दोऽयं वासुदेवेऽवतिष्ठते ।
विना तं पुण्डरीकाक्षं कोऽन्यः पुरुषशब्दभाक् ॥
भगवानिति शब्दोऽयं तथा पुरुष इत्यपि ।
निरुपाधी च वर्तेते वासुदेवे सनातने ॥
ब्रह्माद्याः सकला देवा यक्षगन्धर्वकिन्नराः ।
ते सर्वे पुरुषांशत्वादुच्यन्ते पुरुषा इति' ॥
इति शिवतत्त्वविवेकलिखितत्वात्पुराणात् ।
'स एव वासुदेवोऽयं साक्षात् पुरुष उच्यते ।
स्त्रीप्रायमितरत् सर्वं जगद् ब्रह्मपुरःसरम् ॥
स एव वासुदेवोऽयं पुरुषः प्रोच्यते बुधैः ।
प्रकृतिस्पर्शराहित्यात् स्वातन्त्र्याद् वैभवादपि' ॥
इति नृसिंहपुराणाच्च परस्मिन् ब्रह्मणि वासुदेवे एव मुख्यः । अतस्तस्य