सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 670, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 670

एव विशेष इति वा । विशेषादित्येव वक्तव्ये साधारण-
शब्दशब्दौ प्रादेशमात्रस्यैव वैश्वानरशब्दवाच्यत्वं द्युमूर्धत्वादिकं तस्यैवेति
समासेन द्योतयतः । अन्यथा विरोधाभावात् ।
भाष्यप्रकाशः ।
साधारणेत्यादि । अत्र साधारणशब्दद्वन्द्वस्य, ये इत्यादिना विभजनात् साधारणशब्देभ्यो
विशेष इत्येवं बहुवचनविग्रहस्य विवक्षितत्वेऽपि ग्रहणके य एकवचननिर्देशः स ब्रह्मादिपदाम्रभोज-
नवाक्यगतैकजात्यभिप्रायत् । विशेष आधिक्यं, तत्किमित्यपेक्षायां स्फुटीकुर्वन्ति प्रादेशेत्यादि ।
अस्मिन् पक्षे शब्दशब्दस्य पदवाक्यसाधारण्यात् संदेहः स्यादिति समासान्तरेण तमर्थमाहुः
साधारणेत्यादि । तथा च शब्दे विशेषः शब्दविशेषः । वाक्योक्तात् साधारणाद् द्युमूर्ध-
त्वादेर्धर्माद् वाक्यरूपे शब्द एव यो विशेषो विरुद्धधर्माधारत्वलक्षणस्तस्मादित्यर्थः । ननु
विशेषस्यैव हेतुत्वे साधारणशब्दशब्दयोः कथन