सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 65, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 65

सम्बन्धः कः त्वया स्वीक्रियते ? तत्र संयोगादिसम्बन्धे स्वीक्रियमाणे तयोर्विभुत्वसामान्यात्
नित्यसम्बन्धाऽऽपत्त्याऽनिर्मोक्षप्रसङ्गः। तथा च नाप्यध्यासः तस्याप्यभावात्। शुद्धब्रह्मणि
अविद्योपाधिसम्बन्धः सर्वथाऽशक्यवचनः तस्य अज्ञत्वापादकत्वात् । अतः अविद्यायाः
जीवगतत्वमेव न तु ब्रह्मगतत्वमिति—
"एकस्यैव ममांशस्य जीवस्यैव महामते ।
बन्धोऽस्याऽविद्ययाऽनादिर्विद्यया च तथेतरः ॥"
(श्रीमद्भागवत)
तथा च—"अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः" इत्यत्र जीवोत्पत्तौ अविद्यायाः
न कारणत्वं किन्तु भगवदिच्छयारमणार्थमानन्दांशतिरोभावे सोऽविद्यया बध्यते। तत्रापि
भगवदिच्छैव । तदा सः संसारीत्यभिधीयते । एवमहमममात्मकः संसारः अविद्याजन्यः
अतः ज्ञानेन नश्यति। तथा हि। जगतः