सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 632, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 632

भाष्यप्रकाश-रश्मि-परिबृंहितम् । ५४१
शरीरं य पृथिवीमन्तरो यमयत्येष त आत्मान्तर्याम्यमृतः' इत्यादि ।
तत्राधिदैवमधिलोकमधिवेद मधियज्ञमधिभूतमध्यात्मं च कश्चिदन्तरव-
स्थितो यमयिताऽन्तर्यामीति श्रूयते । तत्र संशयः । कि मन्तर्याम्यधिदेवादिषु
भाष्यप्रकाशः ।
अन्तरं करोत्यन्तरयति, अन्तरयतीत्यन्तर इति सर्वान्तःस्थापकत्वबोधनार्थम् । अन्यथा पौनरुक्त्या-
पत्तेरिति । एवं सर्वत्र बोध्यम् । अत्र प्रश्नवाक्यानुक्तधर्माणां बोधनं तज्ज्ञानज्ञापकं ज्ञेयम् ।
अस्मिन् वाक्यसमूहे कुत्र संशय इत्यपेक्षायामाहुः तत्राधीत्यादि । संशयाकारं तद्बीजं चाहुः
किमित्यादि । तथाच सर्वत्रान्तर्यामिणोपसंहारात् सर्वत्रैकः । अधिदैवादिपदाना मव्ययीभावेन
तत्र तत्राधिकरणे यौगिकत्वेऽपि, 'पुरुषश्चाधिदैवतम्' 'स्वभावोऽध्यात्ममुच्यते', 'अधिभूतं क्षरो
भावः', 'अधियज्ञोऽहमेवात्र' इति गीतायां, तं योगमनादृत्य रूढेर्वा, तत्तदधिकृत्य यो वर्तत इति
योगान्तरपुरस्कारेण योगरूढेर्वा बोधनादेतेषां नामत्वमवधार्यते । समानन्यायादधिवेदाधिलोकयो-
रपि तथात्वम् । नपुंसकलिङ्गं तु लोकाश्रयत्वादशिष्यम् । एवं सिद्धे तेषां नामत्वे तैरप्युपसंहाराद्
रश्मिः ।
द्वितीयनिष्पत्तिमाहुः अन्तरमिति । पौनरिति अन्तर्पदे पौनरुक्त्यम् । तथा च पूर्वेणान्तरपदेन
सर्वेषामन्तः स्वयं तिष्ठतीत्युच्यते । अनेन तु स्वयं सर्वानन्तःस्थापयतीति न पौनरुक्त्यमित्यर्थः ।
सर्वत्रेति योप्सु तिष्ठन्नित्यादिश्रुतिष्वन्तरपदेष्वित्यर्थः । अत्र प्रश्नेति प्रश्नो भाष्ये य इमं चेत्युक्तः
तत्रायं लोकः परलोकः सर्वभूतानि च विषयः तदुत्तरत्वेन यः सर्वेषु लोकेषु तिष्ठन् सर्वेभ्यो लोके-
भ्योन्तरः यः सर्वेषु भूतेषु तिष्ठन् सर्वेभ्यो भूतेभ्योन्तर इति वाक्यद्वयमेव वक्तव्यं पृथिव्यादि-
नियन्तृत्वानुक्तधर्माणां यः पृथिव्यामित्यादिभिर्बोधनं वक्तुर्याज्ञवल्क्यस्य प्रच्छकोद्दालकापेक्षया
यदधिकं ज्ञानं तस्य ज्ञापकं ज्ञेयमित्यर्थः । ननु हीदं लोकपरलोकसर्वभूतविषयकमुत्तरमिति कथं
प्रश्नानुक्तधर्माणां बोधकमिति चेन्न वाक्यद्वयस्योत्तरत्वेनाङ्गीकारे लाघवात् । अथेति भाष्यं
विवरामासुः अधिदैवादीनामिति । अव्ययीति अव्ययं विभक्तीति सूत्रेण देवेष्वित्यधिदैवमिति
विभक्त्यर्थेऽधीत्यव्ययेन दैवपदस्याव्ययीभावः । तत्तदधीति एतदधिविधाय ऋषिरवोचदिति
शिष्योपनिषच्छ्रुतेः । बोधनादिति अध्यात्माधिभूतमात्रे बोधनात् । नामत्वमिति योगस्य
पाचकादौ रूढेर्घटादौ योगरूढेः पङ्कजादौ नामत्वप्रयोजकत्वदर्शनादवधार्यते । तथात्वमिति
नामत्वम् । नन्वधिदेवादिपदानां कथं न विशेष्यनिघ्नत्वमित्याशङ्कां परिजहुः नपुंसकेति ।
नपुंसकलिङ्गमशिष्यं शास्त्रव्यापाररहितं अत्र हेतुः लोकाश्रयत्वादिति लोकत एव तथासिद्धेरिति
तदर्थः । एतच्च 'लिङ्गमशिष्यं लोकाश्रयत्वाल्लिङ्गस्य' इति महाभाष्यमर्थत उपनिबद्धं ज्ञेयम् । अत
एव भारविः 'समुल्लसत्पङ्कजपत्रकोमलैरुपात्तश्रीरुपनीविनाभिभिः' इति । अन्यथा वृत्तिकार-
पठितेन 'नाभिरस्त्रियाम्' इति सूत्रेण नाभेः क्लीबे समुल्लसदित्यादिविशेषणानुपपत्तिः । तैरपीति
अधिदेवादिपदैरपि पदेनामृतपदं एष त आत्मा अन्तर्याम्यमृत इति श्रवणात् । भिन्नत्व इति
द्वितीयाध्यायद्वितीयपादसंज्ञा चोत्पत्तिसंयोगादित्यधिकरणे 'अथैष ज्योतिरथैष विश्वज्योति-
रथैष सर्वज्योतिरेतेन सहस्रदक्षिणेन यजेतेतत्र संज्ञाया भेदकत्वं सिद्धं तन्न्यायेन भिन्नत्वे
541