अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 623, कुल 2600 में से
संदर्भ में पढ़ें५३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ५ सू० १६
विशिष्टाभिधानादेव ब्रह्मवाक्यमिति । एषा मुख्योपपत्तिरित्येवकारः । चकारात्
सवादिभिरपि । तस्माद् ब्रह्मैवाक्षिपुरुषः ॥ १५ ॥
श्रुतोपनिषत्कगत्यभिधानाच्च ॥ १६ ॥
स्वरूपतो निर्णीय फलतो निर्णयमाह । श्रुतोपनिषत्कस्य, श्रुता उपनिषद्
विद्या येन तस्य ब्रह्मविदो या गतिर्देवयानाख्या साऽक्षिपुरुषविदोऽप्युच्यते ।
अथ यदु चैवास्मिन् शव्यं कर्म कुर्वन्ति, यदि च नार्चिषमेवाभिसंयन्तीत्युपक्रम्य
भाष्यप्रकाशः।
सुखमेव विशेषणत्वेन निर्दिष्टम् । सदादिभिरिति आनन्दसद्भूतैः सद्भिःसंयद्वामत्वादिभिः ।
रामानुजाचार्यास्त्वेतदग्रे, अत एव च स ब्रह्मेति सूत्रान्तरं पठन्ति । अर्थस्तु, अत एव
सुखविशिष्टाभिधानादेव, स संपदोपदिष्ट आकाशो ब्रह्मेति । तत् पूर्वसू