अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 618, कुल 2600 में से
संदर्भ में पढ़ेंभाष्यप्रकाश-रश्मि-परिवृंहितम् । ५२७
'अहं तु ते तद्वक्ष्यामि' इति महदुपक्रमाच्च। प्रतिबिम्बमात्रस्य च न पुरुषत्व-
नियमः। तस्माद् विरोधाभावाद् ब्रह्मवाक्यमेव ॥ १३ ॥
भाष्यप्रकाशः।
देशेऽपहुतेऽपीमे नूनमीदृशा अन्यादृशा इति वदता आचार्येणाग्निकृते उपदेशे ज्ञाते, उपकोस-
लेनाचार्याज्ञयाऽभ्युक्तेऽनूदिते, आचार्यो लोकं वा व किल तेऽवोचन्नित्यनेन कं ब्रह्म खं ब्रह्मेति
यदवोचन्नप्रयस्तल्लोकं प्राप्यमवोचन् । श्रुतौ लोकानिति पाठे त्वग्निविद्याप्राप्याः पृथिव्यादयः
आत्मविद्याप्राप्यं ब्रह्म चैकशेषवृत्त्या संगृह्यन्ते । तत्राग्निविद्योक्तलोकप्राप्त्युपायस्यादित्यपुरुषोपासना-
दिरूपस्य तैरुक्तत्वादात्मविद्योक्तलोकप्राप्त्युपायभूताम्, 'आचार्यस्तु ते गतिं वक्ता' इति तैराचार्य-
वक्तव्या गतिर्या बोधिता साऽवशिष्यते। सा तु ज्ञातापि तदा भवति यदा प्रतिबन्धकापगम
इत्यभिसंधायाचार्य आह। अहं तु ते तद्वक्ष्यामीत्यादि। तन एवं फले श्रुते, उपकोमलः
श्रद्धापूर्वकं, ब्रवीतु भगवानिति विज्ञापितवांस्तदा, य एषोऽक्षिणीत्याद्युक्तम् । तेन तद्वक्ष्यामीति
या प्रतिज्ञा सा महत् आत्मविद्यागतिकथनंसंवोपक्रममन्तमान् । तथा चाग्निभिस्तदुपसंहारे कृतेऽपि
पुनस्तस्या एवोपक्रान्तत्वेन प्रकरणस्य सत्त्वान्न हेतोः साध्यसमत्वमित्यर्थः । ननु तथापि प्रकरणे
श्रुत्यपेक्षया दुर्बलत्वाददर्शनश्रुतिसंकोचोऽनुचित इति प्रतिबिम्बपुरुष एवात्राङ्गीकार्य इत्यत आहुः
प्रतिबिम्बेत्यादि । सत्यं संकोचोऽनुचितः स्याद् यदि दर्शनविषयस्य प्रतिबिम्बस्य पुरुषत्वं
रश्मिः।
नामा कश्चित् ब्रह्मचारी स जाबालाचार्येण प्रवासं चिकीर्षताग्निनोदितेनाज्ञप्तोऽग्नीन् द्वादशवर्षाणि परि-
चचार तस्मै परिचर्यया तुष्टा गार्हपत्याद्यग्नयः प्राणो ब्रह्मेत्यात्मविद्यामुपदिदिशुः तस्मिन्नुपदेशे ब्रह्मविद
इव ते सोम्य मुखं भातीति को नु त्वानुशशासेति प्रवासादागतेनाचार्येण जाबालेन पृष्टेनोपकोसलेन
को नु मानुशिष्याद्भो इत्यपहुतेपीत्यर्थः । इम इति इमेऽग्नयः पूर्वमन्यादृशमोदृशा उपदेशोन्मुखा
इति नूनं निश्चयं वदताचार्येण । ज्ञान इति अर्द्धमत्तया । आचार्येति किं नु सोम्य
किल तेऽवोचन् इत्याचार्यप्रश्नेनेत्यर्थः । हे सोम्य तेऽग्नयः इतीदमिति ह प्रतिजज्ञ इत्यनेनानूदिते ।
अग्निविद्येति अग्नीनां गार्हपत्याद्यग्नीनां विद्याभिः प्राप्यः 'अथ हैन गार्हपत्योऽनुशशास पृथिव्य-
ग्निरन्नमादित्यः' इति पृथिव्यादयः आत्मनः प्राणादेर्विद्या तया प्राप्यम् । लोकृ दर्शने इति भ्वादे
रूपमिदं लोकमिति । तथा च यज्ज्ञानं तत्प्राप्यमेवेत्याशयेन पर्यायो ब्रह्म चेति । एकशेषवृत्त्या
लोकश्च लोकश्च लोकश्च लोकाः 'सरूपाणामेकशेष एकविभक्तौ' इत्येकशेषः अनया वृत्त्येत्यर्थः ।
तैरिति अग्निभिः । य एष आदित्ये पुरुषो दृश्यते सोहमस्मि स एवाहमस्मीति स य एतमेवं
विद्वान् उपास्ते इत्यादिनोक्तत्वात् । प्रतीति प्रतिबन्धकमाचार्यसंबन्धाभावः तदपगम इत्यर्थः ।
अहमिति कर्तृतास्यसंबन्धेन तद्ब्रह्मविद्यां वक्ष्यामीति । आदिपदेन 'यथा पुष्करपलाश आपो न
श्लिष्यन्ते एवमेवंविदि पापं कर्म न श्लिष्यते' इति श्रुतिसंग्रहः । श्रद्धेति भगवन्निति महापूज्य-
संबोधनादिति भावः । ब्रवीतु मे भगवन्निति तस्मै होवाचेति श्रुतिः । हेतोरिति हेतोः प्रकरणे-
नोपक्रमरूपेण देशकालरूपेण वा सिद्धत्वं न तु साध्यत्वेन साध्यसमत्वमित्यर्थः । हेतुरमृताद्युप-
पत्तिरूपः स्वरूपासिद्धो नेत्यर्थः । दर्शन इति । दृश्यत इति श्रुतिर्निरपेक्षो रवः तस्य संकोचः साधनवतां
दर्शनरूपः । पुरुषत्वमिति द्वादशाङ्गत्वम् । 'द्वादशाङ्गो हि पुरुषः' इति । द्वादशाङ्गत्वमादाय
६७ ब्र० सू० २०
527