अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
पृष्ठ 61, कुल 2600 में से
संदर्भ में पढ़ेंस्नेहात्मिकायाः सेवाया अभावान्न व्रजपतिरतिः । साक्षाद्ब्रह्मत्वं तु व्रजपतेरेवेति। "परं ब्रह्म
तु कृष्णो हि" इत्याचार्यवाक्यात् । अतः निखिलैरेतैर्गुणैस्समल-ङ्कृतादाचार्यवल्लभादितरः
कः न कोऽपीत्यर्थः।
एतादृशानां श्रीवल्लभाचार्यचरणानां ग्रन्थाः बहवः सन्ति । तत्र सर्वोत्तमो
ग्रन्थोऽणुभाष्यमेव । अस्मिन् भाष्ये व्याससरणिमाश्रित्य तदनुसारेणैव शुद्धाद्वैतब्रह्मवाददर्शनस्य
स्थापनं कृतमाचार्यैरिति ।
दर्शनं हि नाम अपरोक्षं ज्ञानं साक्षात्कारो वा। तच्च द्विविधम्। आस्तिकदर्शनं
नास्तिक- दर्शनञ्चेति । तत्र आस्तिकदर्शनं मुख्यत्वेन षड्विधम्- 'सांख्यपातञ्जलपूर्वमीमांसो-
त्तरमीमांसातर्कन्यायभेदेन। तत्र सांख्यं कापिलं श्रीभागवतोक्तम् । पातञ्जल योगशास्त्रम् ।
पूर्वमीमांसा जैमिनि कृता । उत्तरमीमांसा कृष्णद्वैपायनव्यासकृता, चतुरध्यायात्मकं ज्ञान-
काण्डम् । तर्कः कणादकृतः वैशेषिकम् । न्यायः गौतम प्रणीतम् न्यायशास्त्रम् । तथा च
नास्तिक दर्शनमपि षड्विधम्-चार्वाकसौत्रान्तिकवैभाषिकयोगाचारमाध्यमिकार्हतभेदात् ।
अत्रास्तिकदर्शनान्तर्गतोत्तरमीमांसायाः प्रकृतविषयत्वात्प्रकृतमनुसरामः। उत्तरमीमांसा-
वेदान्त दर्शनम् । तत्र वेदान्तोपजीव्येषु नानामतेषु पञ्चैव प्रमुखाः ते च केवलाद्वैतविशिष्टाद्वैत-
द्वैतद्वैताद्वैतशुद्धाद्वैताख्याः सिद्धान्ताः। तत्र केवलाद्वैत दर्शनं शङ्करावतारैराचार्यशंकरैः
प्रणीतम् । विशिष्टाद्वैतदर्शनं शेषावतारैराचार्यरामानुजैः कृतम् । द्वैतदर्शनं वाय्ववतारैः
आचार्यमाध्वैः रचितम् । द्वैताद्वैतदर्शनं हंसावतारैराचार्यनिम्बार्कैः प्रणीतम् । शुद्धाद्वैत-
दर्शनं वेदव्यासमतानुवर्तिभिः श्रीभगवन्मुखावतारैः वैश्वानरावतारैश्च भगवद्भिः श्रीवल्लभाचार्य-
प्रकटितम् ।
अत्र शुद्धाद्वैतं नाम किमिति प्रश्ने —
शुद्धाद्वैतपदे ज्ञेयः समासः कर्मधारयः ।
अद्वैतं शुद्धयोः प्राहुः षष्ठीतत्पुरुषं बुधाः ।।
मायासम्बन्धरहितं शुद्धमित्युच्यते बुधैः ।
कार्यकारणरूपं हि शुद्धं ब्रह्म न मायिकम् ।।
(शु.मा.श्लो. २७/२८)
अत्र शुद्धं च तदद्वैतं चेति कर्मधारयः । शुद्धयोरद्वैतमिति षष्ठीतत्पुरुषो वा बोध्यः।
अत्र मायासम्बन्धरहितत्वकथनेन मायाशबलितं ब्रह्म जगत्कारणमिति न, अपि तु शुद्धब्रह्म
एव जगत्कारणमिति तात्पर्यम् । सिद्धान्ते मायाया अपि "मम माया दुरत्यया" (गी.
७।१४) इत्यादि वाक्याद्भगवच्छक्तित्वेनोक्तत्वान्नास्त्यत्र परमतवन्मायासम्बन्धः । अत्रैव
कार्यकारणविचारे शांकराः घटपटाद्यात्मकं जगन्मायिकमत एव नश्वरमिति मन्यन्ते । एतेषां
मते प्रपञ्चस्य मायिकत्वेन तस्य कारणस्यापि तादृशत्वनैव भवितव्यमिति,
कारणसजातीयत्वात्कार्यस्येति । एवं प्रपञ्चं मायिकमित्युक्त्वा जीवो ब्रह्मैवेति ते साधयन्ति ।
तन्निराकरणार्थमाचार्यैः निबन्धे उक्तम् - "प्रपञ्चोभगवत्कार्यः" तत्प्रकाशे च "अयं प्रपञ्चो
xlviii