सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 599, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 599

५०८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ४ सू० ११
बद्धमुक्तजीवौ भविष्यतः । उत्तरशेषत्वं त्विन्द्रियमनसी । उभयथापि न
ब्रह्मवाक्यम् । द्वयोर्मुख्यत्वेन प्रतिपादनात् । ब्रह्मवाक्येऽपि न प्रयोजनसिद्धिः ।
भाष्यप्रकाशः ।
'स्वार्थबोधे समाप्तानामङ्गाङ्गित्वव्यपेक्षया ।
वाक्यानामेकवाक्यत्वं पुनः संहत्य जायते' ॥
इति पूर्वतन्त्रे सिद्धत्वात् कयाचित् संगत्या पूर्वशेषत्वस्यापि शक्यवचनत्वाद्, आत्मानं
रथिनं विद्धीत्यादेः प्रागेव पाठाच्च संदेह इत्यर्थः । ननु तर्ह्यर्थेन निर्णयोऽस्त्वित्यत आहुः
अर्थेत्यादि । बद्धमुक्तजीवाविति हन्ता चेन्मन्यते हन्तुमित्यनेन बद्धस्य, मत्वा धीरो न शोच-
तीत्यनेन मुक्तस्य च पूर्वत्रोक्तत्वात् तदनन्तरपठितस्य द्वित्वस्य तद्विषयत्वप्रत्यभिज्ञानाच्चावेव
युक्तौ, न तु जीवपरमात्मानौ । अनश्नन्निति श्रुत्या परमात्मनो भोगाभावादिति । इन्द्रियमनसी
इति यस्त्वविज्ञानवान् भवतीत्यादौ तयोरेवाग्रे निरूपणात् । पिबन्ताविति पानकर्तृत्वव्यपदेशस्त्वे-
धांसि पचन्तीतिवत् करणे कर्तृत्वोपचाराद् बुद्धिजीवपक्षे बुद्धौ केवलायामिवोभयत्राप्युपपत्स्यते ।
रश्मिः ।
प्रकरणस्य समाप्तेः । तदुत्तरं प्रकरणं ऋतं पिबन्ताविति श्रुत्यन्तरम् । आत्मानं रथिनं विद्धीति
जीवप्रकरणं तद्गतस्वस्येत्यर्थः । आत्मानमिति जीवप्रकरणबोधकादित्यर्थः । ब्रह्मप्रकरणबोधकाच्च
जायते म्रियते वा विपश्चित् इत्यारभ्य यस्य ब्रह्म चेत्यन्तात् पश्चादिति मध्ये पाठः । ततश्च संदेह
इत्यर्थः । पूर्वत्रेति ऋतमित्यस्य पूर्वत्र द्वितीयवल्ल्यामित्यर्थः । तद्विषयेति मुक्तबद्धजीवविषयत्व-
स्वाधीतेन मीमांसकेन छायातपयोर्द्वित्वमिदं तन्मुक्तबद्धजीवनिष्ठमिति मनसि संविधानात् प्रत्यभि-
ज्ञानं तस्येदंताप्रकारकं ज्ञानं प्रत्यभिज्ञानं तस्मात् । न च ताविमौ छायातपाविति प्रत्यभिज्ञानमस्त्विति
शङ्क्यम् । गौरवात् । यस्त्विति ।
'यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा ।
तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः' ॥ इति ।
'यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा ।
तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः' ॥
इति अयुक्तमनइन्द्रियाणि । छाया विषयसुखानुकूल्येन सुखस्य श्यामत्वेन मन आदी-
नामप्यस्वच्छत्वात् युक्तमनइन्द्रियाणि । आतपः भजनान्दानुकूल्येन ज्ञानानुकूल्येन वानन्दस्य श्याम-
त्वेपि स्वेषां मन आदीनां स्वच्छत्वात् कर्तृत्वोपचारादिति । इदं नैयायिकमते । आख्यातस्य पाकं
करोतीति पचति इत्यत्र करोतिना विवरणात् । यत्नार्थकत्वेनेधःसु तदभावात् । वैयाकरणास्तु
पच्यर्थो व्यापारो नैकविधः फूत्कारत्वाधःसंतापनत्वध्मत्वादिभिस्तत्तद्रूपेण वाच्यः । देवदत्तोऽग्निरेधांसि
पचति पचन्तीत्यत्र तत्तत्प्रकारकबोधस्यानुभवसिद्धत्वात् । न च नानार्थत्वापत्तिरिति वाच्यम् । तदा-
हिन्यायेन बुद्धिविशेष्यादेव शक्यतावच्छेदकानाममुगमकस्य सत्त्वात् । आख्याते क्रियैकत्वव्यवस्थाप्या-
वच्छेदकबुद्धिविशेष्यादायैव । उक्तं च वाक्यपदीये ।
'गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।
बुद्ध्या प्रकल्पिता भेदाः क्रियेति व्यपदिश्यते' ॥ इति
'फलव्यापारयोर्धातुराश्रये तु तिङ् स्मृतः' इत्याख्यातार्थ आश्रय इत्याहुः । तथाच देवदत्तः
508