सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 474, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 474

भाष्यप्रकाश-रश्मि-परिवृंहितम् । १८५
छन्दोऽभिधानान्नेति चेन्न तथा चेतोऽर्पणनिगदात्
तथा हि दर्शनम् ॥ २४ ॥
ननु नात्र ब्रह्म चतुष्पात्निरूपितं किंतु गायत्रीछन्दः । 'गायत्री वा इदं
सर्वं यदिदं किंच' इत्युपक्रम्य तामेव भूतपृथिवीशरीरहृदयभेदैर्व्याख्याय, 'सैषा
चतुष्पदा षड्विधा गायत्री। तदेतदृचाभ्युक्तं, एतावानस्य महिमा' इति। तस्यामेव
व्याख्यानरूपायां गायत्र्यामुदाहृतो मन्त्रः कथम कस्माद् ब्रह्म चतुष्पादभिद-
ध्यात् । यद्वै तद् ब्रह्मेति ब्रह्मपदमपि छन्दसः प्रकृतत्वात् तत्परमेवावगन्त-
व्यम् । शब्दस्यापि ब्रह्मवाचकत्वसिद्धेर्ब्रह्मोपनिषदितिवच्छन्दोब्रह्मेति च । तस्मा-
च्छन्दस एव पादाभिधानान्न ब्रह्मधर्माः पादा इति चेन्नैष दोषः । तथा
चेतोऽर्पणनिगदात् । तथा तेन द्वारेण चेत