सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

कॉपीराइट समस्या बताएँ

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 456, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 456

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्तिशः लिप्यन्तरण दिया गया है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । [३६७]
भाष्यप्रकाशः ।
'चैतन्यापेक्षया प्रोक्तं व्योमादि सकलं जगत् ।
असत्यह्यं सत्यं तु कुम्भकुण्डाद्यपेक्षया' ॥
इत्युक्तत्वाच्च । अतः शब्दसाम्येऽपि ब्रह्मलिङ्गाद् ब्रह्मैवाकाशशब्दार्थः । आकाशशब्दश्च
ब्रह्मणि रूपकविधया विभुत्वनिर्लेपत्वादिगुणलाभाय, मुखे चन्द्रवच्छ्रुत्या प्रयुक्तः । अत एव,
'परमे व्योमन् प्रतिष्ठिता' इत्यादिषु श्रुतिष्वाकाशरूपेण ब्रह्म निर्दिश्यते । नानार्थताया, गङ्गायां
घोष इतिवल्लक्षणायाश्चायुक्तत्वादिति । एवं प्राणज्योतिरादयः शब्दा अपि जीवनत्वप्रकाशन-
त्वादिप्रतिपादनाय रूपकत्वेनैव व्याख्येयाः । वस्तुतस्त्वाकाशप्राणज्योतिरादयः शब्दा
आकाशादिभावापन्नब्रह्मपरा एवैतेषु ब्रह्मवाक्येषु भवन्ति । केवलब्रह्मपरत्वे सत्याकाशादि-
लिङ्गाद्यनुपपत्तेः । यत्तु छान्दोग्यवाक्यमधुनेका इहोदाहरन्ति, 'अस्य लोकस्य का गतिः'
इत्यादि । तन्न । प्रकरणादिशून्यात् केवललिङ्गाच्छ्रुतेर्बलवत्त्वस्य पूर्वमीमांसासूत्रादेवावधार-
णात् । तत्र च श्रुतिप्रकरणयोरभावात् । किंच । प्रश्ने, अस्य लोकस्येत्यनेन भूर्लोकजना
एवोक्ता इति प्रत्युत्तरे भूतानीत्युक्तत्वात् सर्वाणि भूतानीति ब्रह्मलिङ्गं न भवति ।
आकाशसाधारण्यात् । आकाशाद् वृष्टिद्वारेषां भूर्लोकस्थानां सृष्टिस्थितिसंहारादित्याह ।
तदसङ्गततमम् । सूत्रविरोधात् । सूत्रे केवलस्य लिङ्गस्यैव हेतुत्वेनोक्तत्वात् । स्वरीत्या
रश्मिः ।
इति गजेन्द्रस्तुतौ तु स्पष्टम् । उक्तत्वाच्चेति । तथा च कुम्भकुण्डादि सत्यस्य सत्यमिति
श्रुत्यर्थः फलितः । श्रुतावाकाशपदोक्तेस्तात्पर्यमाहाचार्यो विज्ञानाः आकाशशब्देत्यादि ।
रूपकेति अनुभयोक्तिरूपताद्रूप्यरूपकं यथा 'अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना'
इत्यत्रानुभयोक्तिताद्रूप्यन्यूनताद्रूप्याधिकताद्रूप्यभेदेन ताद्रूप्यरूपकस्य त्रैविध्यम् ।
'विषय्यभेदाताद्रूप्यरञ्जनं विषयस्य यत् ।
रूपकं तन्त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः' ॥
इति तल्लक्षणात् । विषयिणः उपमानस्य पद्मादेरभेदेन ताद्रूप्येण च विषयस्योपमेयस्य रञ्जनं
रूपकमित्यर्थः । यद्वा । अभेदरूपकं वा तत् । 'अयं हि धूर्जटिः साक्षाद्येन दग्धाः पुरः क्षणात्'
इत्यत्र यथा । विभुत्वेत्यादि तथा च गौणीवृत्तिरिति भावः । प्रतिष्ठितेति 'सैषा भार्गवी वारुणी
विद्या परमे व्योम्नि प्रतिष्ठिता' इत्यर्थः । ननु दृष्टेर्वैविध्याल्लक्षणयैव निर्वाहे किं गौण्येति चेत्
तर्कपादीयगौण्युपपादकयुक्तिहृदय आह लक्षणाया इत्यादि । एवं प्राणेति 'प्राणस्य प्राणमुत
चक्षुषश्चक्षुरुत श्रोत्रस्य श्रोत्रम्' इत्यादिबृहदारण्यकादप्रेसनाधिकरणेषु प्राणादयो व्याख्येया इत्यर्थः ।
एवं विभागाद्वैतप्राप्त्याऽविभागाद्वैताय पक्षान्तरमाह भगवान् वस्तुतस्त्वित्यादि । आकाशादीत्यादि-
पदेन प्राणज्योतिरादयः तेनायं भगवानाचार्यः तावद्रूपचरणमाकाशभावापन्नब्रह्मकर्तृकं तादृश-
ब्रह्मणः सकाशाद्धेति मन्यते । तेन तल्लिङ्गादित्यस्याकाशभावापन्नब्रह्मलिङ्गादित्यर्थः पर्यवसितः ।
प्रकरणेत्यादि 'उभयाकाङ्क्षा प्रकरणम्' 'निरपेक्षो रवः श्रुतिः' इति पूर्वमीमांसासूत्रं पूर्वं निरूक्तम् ।
तन्नेत्यस्य छान्दोग्यीयवाक्ये इत्यर्थः । वृष्टिद्वारेति अयमाचार्यो मन्यते । ननु सत्यं व्याससूत्रेण
जैमिनिसूत्रदौर्बल्यं तथापि श्रुतिलिङ्गादय इत्यादिभाष्यप्रामाण्यात् त इह तथैवोपादेया इतिलिङ्गा-
४७ ब्र० सू० सू० १०
.367