सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 444, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 444

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३५५
भाष्यप्रकाशः।
नाऽऽदित्यरूपस्य विभूतिमभिधाय एष पुरुष एष भूतानामधिपतिरिति भूतपतित्वेन तं निर्दिश्य
तदग्रिमानुवाकेषु, सर्वो वै रुद्र इत्यादिषु, हिरण्यबाहवे अम्बिकापतय उमापतय इत्युपसंहारेण
तत्र शिवाकारनिर्णयात् । अन्तर्यामिब्राह्मणे, एष त आत्माऽन्तर्याम्यमृत इति कथनाच्च ।
जाबालोपनिषदि, एतानि ह वा अमृतस्य नामधेयानीति शतरुद्रियप्रशंसावाक्येन अमृतपदस्य
शिवपरतानिर्णयादत आदित्यन्तर्वर्ती त्रिलोचननीलकण्ठादिशरीरवानित्याहुः । तन्मन्दम् ।
शरीरपक्षस्य प्रागेव दूषितत्वात् । आकारेऽप्यक्षिस्थितस्य पुण्डरीकोपमाबोधनार्थत्वं तदा स्याद्यदि
नीलग्रीवादिकं त्रिलोचनत्वसाधकमस्मिन् वाक्ये एतन्निर्णायकवाक्यान्तरे वा स्यात् । भूतानाम-
धिपतिरित्यस्य तु न निर्णायकत्वम् । भूतपदस्य, क्षरः सर्वाणि भूतानि, पादोऽस्य विश्वा भूता-
नीतिवत् प्राणिमात्रवाचकत्वेन प्रेतवाचकत्वाभावान्न नीलग्रीवादिरूपवल्लिङ्गकत्वम् । तस्य प्रेत-
मात्रवाचकत्वे च परिच्छिन्नैश्वर्यबोधकत्वेन परमेश्वर्यविघटकतया तस्यालिङ्गत्वमेवेत्युभयथापि
तदगमकत्वात् । सर्वो वै रुद्र इत्यादीनां तु नैतद्वाक्यशेषत्वम् । आदित्यो वै तेज इत्यनुवाकान्ते,
इत्युपनिषदित्यनेन विद्यासमाप्तिबोधनात् । एवममृतपदस्यापि न निर्णायकत्वम् । शतरुद्रि-
यस्याऽमृतनामकत्वेऽप्यमृतपदस्य शिवनामत्वाभावात् । इदं यथा तथा प्रहस्ताख्ये वादे निपुणतरमु-
पपादितमिति नेह प्रपञ्च्यते । यत्पुनर्ध्येयः सदेत्यस्य लौकिकवाक्यत्वमुक्तं, तच्चाग्निपुराणा-
रश्मिः।
शैवः । जाबालेत्यादि । तत्र माध्वाचार्यमते विष्णुगुणावतारपरत्वं यच्छ्रुतीनामुक्तं तन्नारायणशिवो-
विष्णुरितिवाक्यान्नारायणादीनां ब्रह्मनामत्वात् तत्परमेवेत्येतावान् विशेष इति तन्मतमपहाय शैवं
निराकुर्वन्ति स्म तन्मन्दमित्यादिना । निर्णायकत्वं कोशादिभ्यां तदा स्याद्यदान्येषां पदानां
शिववाचकत्वं स्यात्स च प्रायपाठेन. यथाकथंचिदप्यन्यपरत्वं तस्यां ^१ न त्वेवमित्याहुः भूतपदस्ये-
त्यादि । अलिङ्गत्त्वमिति तव मते लिङ्गत्वमिति बोध्यम् । उभयथापीति उभे प्राणिमात्रवाचकत्व-
प्रेतमात्रवाचकत्वे अवयवौ यस्य प्राणिमात्रवाचकत्वप्रेतमात्रवाचकत्वसमुदायस्स उभयस्तस्मिन्
प्रकार इत्यर्थः । एतदुपपादितं प्रहस्ते...द्वितीयवादे शिवेशानादिपदानां शिवे रूढिखण्डनप्रस्तावे ।
वस्तुतः सर्वेषां शब्दानां सर्वार्थत्वस्य महाभाष्याद्यभिमतत्वेन ब्रह्मवाचकत्वस्यैवाभिप्रेतत्वात् ।
प्रतिनियतावन्नमात्रकार्यकरणेन ब्रह्मानुकारितया व्यवहारार्थमेव च शक्तिसंकोचे कोशेषु शिववाचकत्व-
दर्शनेपि ब्रह्मवाचकत्वस्यापि पर्यवस्येतत्यादित्यादिना ग्रन्थेन । एतद्वाक्येति 'य एषोन्तरादित्ये
हिरण्मयः पुरुषः' इति महोपनिषद्वाक्यशेषत्वम् । विद्यासमाप्तीति तदुत्तरविद्यास्थानां सर्वो वै रुद्र
इत्यादीनामुत्तरविद्याशेषत्वमिति भावः । समाप्तपुनरासत्त्वदोषात् । न चानेकार्थसंकटे वाक्यशेषप्रवृत्तौ
प्रतिबन्धे समाप्तेरप्रयोजकत्वमिति वाच्यम् । स्यादेवं यद्यनेकार्थत्वं स्यात् । तदेव तु न प्रायपाठात् ।
एवं च समाप्तेरसानन्तरप्रायपाठविघटकत्वाभावेन रुद्रादिपदानां समाप्तिवैयर्थ्यपरिजिहीर्षयानेकार्थ-
संकटाभावे किंचिज्ज्ञापकत्वेन समाप्तेरप्रयोजकत्वाभावात् । इदमिति शरीरपक्षस्येत्यारभ्य निरुक्तम्।
उपपादितमिति शरीर इत्यारभ्य हेत्वर्थकविभक्त्यन्तं प्रहस्ते प्रथमवादे उपपादितम् । आकारप्रतीति-
र्ब्रह्मण एव सर्वाकारत्वादेवोपपद्येत्यादिग्रन्थेन । आकार इत्यारभ्य स्यादित्यन्तर्मन्तर्यामिविचारे
पुण्डरीकाक्षत्वाञ्चिह्नित्वाभ्यामविलोनूखदा हरिरिति वैष्णवाः । ध्येयः सदा सवितृमण्डलेत्याद्यग्निपुराण-
श्रीमद्भागवतवाक्ययोर्मकरकुण्डलवादिलिङ्गकथनाच्चेत्यादिना संदर्मेणोपपादितम् । लौकिकेत्यादि
१. शिवपरतार्थकपदस्याभावान्न ।
355