सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 437, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 437

आनन्दवाची । लोकेऽपि तस्यानन्दसाधकत्वात् । अतः केशादयोऽपि सर्वे
आनन्दमया एव । तादृशमेव ब्रह्मस्वरूपमिति मन्तव्यम् । अत एव, ।
‘ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः सरसिजासनसन्निविष्टः ।
केयूरवान् मकरकुण्डलवान् किरीटी हारी हिरण्मयवपुर्धृतशङ्खचक्रः’ ॥
इत्यत्रापि वपुः स्वरूपम् ।
‘माया ह्येषा मया सृष्टा’ इत्यादि भगवद्वाक्यं, भगवन्मायया भगवन्त-
मन्यथा पश्यन्तीत्याह । न तु भगवानैव मायिक इति । शरीरे सति जीवत्वमेवेति
निश्चयः । अतो ब्रह्मधर्मोपदेशात् सूर्यमण्डलस्थः परमात्मैव ॥ १९ ॥


भाष्यप्रकाशः ।
चकपदस्योक्तत्वादित्याशङ्कायामाहुः अत एवेत्यादि । तथाचात्रापि वं सुखं पुष्णातीति
योगेन ब्रह्मैवोच्यते । अत एव स्मृत्यन्तरे ।
‘आदित्यमण्डलासीनं रुक्माभं पुरुषं परम् ।
ध्यात्वा जपेदित्येतन्निष्कामो मुच्यते द्विजः ॥
आदित्यमण्डलान्तःस्थं परं ब्रह्माधिदैवतम् ।
छन्दोनिवृत्सङ्गाद्गायत्री मया दृष्टा सनातनी’ ॥
इति गायत्र्या ध्येये सूर्यमण्डलान्तःस्थे वपुःपदं नोच्यत इति न तेन शरीराङ्गीकारः कर्तुं
शक्य इत्यर्थः । नन्वत्र केवलस्वरूपाङ्गीकारेऽन्यत्रापि स्वरूपमेव न्यायबलेन साधितुं शक्यम् ।
तथा सति ।
'माया ह्येषा मया सृष्टा यन्मां पश्यसि नारद ।
सर्वभूतगुणैर्युक्तं न मां पश्यन्ति सूरयः' ॥
इति विश्वरूपाकृतेर्नारायणस्य यद्भारते वाक्यं तस्य विरोधो दुर्वार इत्यत आहुः माये-
त्यादि । तथाचास्मिन् वाक्येऽपि, यन्मां सर्वभूतगुणैर्युक्तं पश्यसि एषा माया मया सृष्टेति पद-
संबन्धान्न विरोध इत्यर्थः । ननु किमित्येवं निर्बन्धे शरीरवत्ता निराक्रियते । कर्माजन्यस्यैच्छिकश-
रीरसाङ्गीकारेऽपि ब्रह्मत्वाक्षतेरित्याशङ्कायामाहुः शरीर इत्यादि । मास्तु कर्मजन्यत्वं शरीरस्य,


रश्मिः ।
व्यवच्छेदकः । मन्तव्यमित्यस्यार्थः मननीयमिति । अत एवेत्यादीति सति संभवे तन्मत्वाभावादेव ।
अन्यथाश्रुतिविरुद्धपुराणं तन्त्रं स्यात् । श्रुतिविरुद्धोंशः तन्त्रं पुराणे उपबृंहन्ति स्म अत इत्यादि ।
छन्द इत्यादि । छन्दोभिर्ध्यायेतीत्यर्थः । निवृत्सती ध्यायती चासौ गायत्री च एतेन पुराणमुपबृंहण-
मतिक्रम्यार्थान्तरोपन्यासो न सांप्रतमिति निरस्तम् । माया ह्येषेति इदं वाक्यं शंकरभाष्य
उपन्यस्तम् । पदसंबन्धादिति माया त्रिगुणा तन्मते ततो व्यावच्छेतुं माया ह्येषेत्यत्र मायेनेन्द्रियाणि
ततश्च 'इन्द्रो मायाभिः पुरुरूप ईयते' इत्यत्र मायायाः करणतयोल्लेखाद्यन्मां पश्यतीत्यत्र मायिकं मां
पश्यतीत्यर्थाभावात् किं तु इन्द्रियविशिष्टं मां पश्यति इत्यर्थात् । 'दिव्यं ददामि ते चक्षुः पश्य मे
योगमैश्वरम्' इत्यत्र विशिष्टकरणदानस्य मायिकं मां पश्यतीत्यर्थे विरोधात् मिदां 'मायामात्रमनूद्यान्ते
प्रतिषिध्य प्रसीदति' इति मिदाया एव मायामात्रत्वात् । 'भगवानपि ता रात्रीः' इत्यत्र 'योगमाया-
मुपाश्रितः' इत्यत्र योगमायाश्रयणादिन्द्रियरूपमायायाः करणत्वम् । विषयविषभाव इन्द्र-इन्द्रियरूप-
348

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित) · पृष्ठ 437, कुल 2600 में से · SarvaKosh