सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 419, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 419

३३० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० १ अ० ५ सू० १८
भाष्यप्रकाशः।
त्फलत्वेनोपसंहारात् स यदि जीवत्वेन विवक्षितः स्यात् प्रथमान्तत्वेनात्र निर्देशः स्यात् ।
सोऽश्नुत इति श्रुतौ फलशेषिणो जीवस्य प्रथमान्तत्वेनैव निर्दिष्टत्वात् । भोक्तृफलयोरै-
क्यापत्तिश्च स्यात् । किंचान्नमयादीनां व्यवहारे सतामत्र प्रायपाठेनाकसात् तद्विहाय स्वप्नो-
पलभ्यमानग्रहणे तद्विरोधोऽपि । किंच ब्रह्मांशस्याविद्ययात्यन्तमभिभूतवमानिनो जीवस्य 'ब्रह्म
वेद ब्रह्मैव भवति' इत्युक्तो ब्रह्मभावः सर्वात्मभावरूपं ज्ञानं तदधिकाररूपा अविद्यानिवृत्तिश्च न
ब्रह्मज्ञानफलत्वेन वक्तुं शक्यानि । ब्रह्मभावस्यावरणभङ्गमात्रेण स्वतः भवनस्य भवतिना
बोधनात् । प्रकृते तदङ्गीकारे द्वितीयाविभक्तिपीडा लक्षणादोषश्च स्याताम् । ज्ञानस्य तथा-
रश्मिः।
स यदीत्यादिना स आनन्दमयः । अथ जड इत्यादिभाष्यं विवृण्वन्ति स्म किं चेत्यादि ।
अन्नम