सामग्री पर जाएँ
सर्वकोश
अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

पृष्ठ 346, कुल 2600 में से

संदर्भ में पढ़ें
पृष्ठ 346

जानतामित्यादिति । अतो न परब्रह्मणोऽनुपास्यत्वाद्ध्येयत्वादिकं युक्तम् । यदपि परब्रह्मणः
स्वतो नामाद्यभावसाधनाय विष्णुपुराणादिवाक्यमुपन्यस्तं तत्रापि कल्पनापदात् काल्पनिकनामा-
दिनिवृत्तिरेवाभिप्रेता, न यावन्नामादिनिवृत्तिः । ‘ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः’ ।
ॐकारं प्रकृत्य ‘खं वाग्ज्ञो ब्रह्मणः साक्षाद्वाचकः परमात्मनः’ । ‘तस्य वाचकः प्रणवः’ इति गीता-
श्रीभागवतपातञ्जलसूत्राणां विरोधात् । वाचकस्यैव नामत्वात् । एवं सिद्धे सदादिनामकत्वे,
‘नारायणः शिवो विष्णुः शंकरः परमेश्वरः ।
एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम्’ ॥ इति वाराहपुराणवाक्यात् ,
‘कृषिर्भूवाचकः शब्दो णश्च निर्वृतिवाचकः ।
तयोरैक्यं परं ब्रह्म कृष्ण इत्यभिधीयते’ ॥
इत्यादिश्रुतिभ्यश्च नामान्तरस्वीकारेऽप्य